पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ पद्मपुराणम्
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

सूत उवाच
नमस्ये सर्वलोकानां विश्वस्य जगतः पतिम्
य इमं कुरुते भावं सृष्टिरूपं प्रधानवित्१
लोककृल्लोकतत्वज्ञो योगमास्थाय योगवित्
असृजत्सर्वभूतानि स्थावराणि चराणि च२
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्
पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुम्३
ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः
इंद्राय लोकपालेभ्यः सवित्रे च समाधिना४
मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने
तद्वक्त्रेभाततपसे जातूकर्ण्याय चाक्षुषे५
तस्मै भगवते नत्वा वेदव्यासाय वेधसे
पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने६
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः७
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्
महदादिविशेषांतं सृजतीति विनिश्चयः८
अण्डे हिरण्मये पूर्वं ब्रह्मणः सूतिरुत्तमा
अंडस्यावरणं चाद्भिरपामपि च तेजसा९
वायुना तस्य वायोः खात्तद्भूतादित आवृतम्
भूतादिर्महता चापि अव्यक्तेनावृतो महान्१०
प्रादुर्भावश्च लोकानामंड एवोपवर्णितः
नदीनां पर्वतानां च प्रादुर्भावोनुवर्ण्यते११
मन्वंतराणां संक्षेपात्कल्पानां चोपवर्णनम्
ब्रह्मवृक्षलय ब्रह्मप्रजासर्गोपवर्णनम्१२
कल्पानां संचरश्चैव जगतः स्थापनं तथा
शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः१३
दशधा जन्मसंचारो भृगुशापेन केशवे
सन्निवेशो युगादीनां सर्वाश्रमविभाजनम्१४
स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां
पशूनां पक्षिणां चैव संभवः परिकीर्त्तितः१५
तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः
प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः१६
त्रयोन्येऽबुद्धिपूर्वास्ते तथा लोकानकल्पयत्
ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः१७
कल्पयोरंतरं प्रोक्तं प्रतिसंधिश्च सर्गयोः
भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम्१८
वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्त्वं परिकीर्त्तितम्
स्वायंभुवस्य च मनोस्ततश्चाप्यनुकीर्तनम्१९
उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः
द्वीपानां च समुद्राणां पर्वतानां च कीर्तनम्२०
द्वीपभेदसमुद्राणामन्तर्भावश्च सप्तसु
कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः२१
तदीयानि च वर्षाणि नदीभिः पर्वतैः सह
जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः२२
अंडस्यांतस्त्विमेलोकाः सप्तद्वीपा च मेदिनी
सूर्याचंद्रमसोश्चारो ग्रहाणां ज्योतिषां तथा२३
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्
ब्रह्मणा निर्मितः सौरः स्यंदनोर्थवशात्स्वयम्२४
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः
सूर्यादीनां स्यंदनानां ध्रुवादेव प्रवर्त्तनं२५
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः
संभवांते च संहारः संहारांते च संभवः२६
देवतानामृषीणां च मनोः पितृगणस्य च
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः२७
अतीतानागतानां वै समं स्वायंभुवेन तु
मन्वंतरेषु देवानां प्रजेशानां च कीर्तनम्२८
नैमित्तिकः प्राकृतिकस्तथैवात्यंतिकः स्मृतः
त्रिविधः सर्वभूतानां कल्पितः प्रतिसंचरः२९
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः
मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः३०
संध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः
भूतानां चापि लोकानां सप्तानामनुवर्णनम्३१
संकीर्त्यं ते मया चात्र पापानां रौरवादयः
सर्वेषामेव सत्वानां परिणामविनिर्णयः३२
ब्रह्मणः प्रतिसर्गश्च सर्वसंहारवर्णनम्
कल्पेकल्पे च भूतानां महतामपि संक्षयः३३
सुसंख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यताम्
दौरात्म्यं चैव भोगानां संसारस्य च कष्टताम्३४
दुर्ल्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्
व्यक्ताव्यक्तं परित्यज्य सत्वं ब्रह्मणि संस्थितम्३५
नानात्व दर्शनात्सुस्थस्ततस्तदभिवर्त्तते
ततस्तापत्रयातीतो विरूपाख्यो निरंजनः३६
आनंदं ब्रह्मणः प्राप्तो न बिभेति कुतश्चन
इति कृत्य समुद्देशः प्रमाणस्योपवर्णितः३७
कीर्त्यंते जगतो यत्र सर्गप्रलयविक्रियाः
प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च३८
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च३९
पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः४०
शुकस्य च यथा जन्म पुत्रस्य सह धीमतः
पराशरस्य विद्वेषो विश्वामित्रकृतो यथा४१
वसिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया
संधानहेतोर्विभुना जीर्णः कण्वेन धीमता४२
देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा
एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः४३
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्
तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः४४
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः
कृष्णेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः४५
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः
मुनीनां धर्मनित्यानां लोकतंत्रमनुत्तमम्४६
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने
पुलस्त्येनाथ भीष्माय गंगाद्वारे प्रभाषितम्४७
धन्यं यशस्यमायुष्यं सर्व्वपापप्रणाशनम्
कीर्तनं श्रवणं चास्य धारणं च विशेषतः४८
सूतेनानुक्रमेणेदं पुराणं संप्रकाशितम्
ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्४९
पादमस्य विदन्सम्यग्योधीयीत जितेंद्रियः
तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः५० 1.2.50
यो विद्याच्चतुरो वेदान्सांगोपनिषदो द्विजः
पुराणं च विजानाति यः स तस्माद्विचक्षणः५१
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति५२
अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयंभुवा
आपदः प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम्५३
पुरा परंपरां वक्ति पुराणं तेन वै स्मृतम्
निरुक्तिमस्य यो वेद सर्वपापैः प्रमुच्यते५४
ऋषयोह्यब्रुवन्सूतं कथं भीष्मेण सङ्गतः
ब्रह्मणो मानसः पुत्रः पुलस्त्यो भगवानृषिः५५
दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः
अत्याश्चर्यमिदं सूत क्षत्रियेण कथं मुनिः५६
आराधितो बृहद्भूतस्तन्नो वद महामते
कीदृशं वा तपस्तेन को वान्यो नियमः कृतः५७
येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः
पर्वं वाप्यथ पर्वार्धं समग्रं वा प्रभाषितम्५८
यस्मिन्स्थाने यथादृष्टः पुलस्त्यो भगवानृषिः
तन्नो वद महाभाग कल्याः स्म श्रवणे वयम्५९
सूत उवाच
यत्र गंगा महाभागा साधूनां हितकारिणी
विभिद्य पर्वतं वेगान्निःसृता लोकपावनी६०
गंगाद्वारे महातीर्थे भीष्मः पितृपरायणः
शुश्रूषुः सुचिरं कालं महतां नियमे स्थितः६१
यावद्वर्षशतं साग्रं परमेण समाधिना
ध्यायमानः परं ब्रह्म त्रिकालं स्नानमाचरत्६२
पितॄन्देवांस्तर्पयतः स्वाध्यायेन महात्मनः
आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः६३
उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमम्
स त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवम्६४
तपसः संनिवर्त्तस्व कारणं चास्य कीर्त्तय
पितॄन्भक्त्या महाभागो ध्यायमानस्समास्थितः६५
यो ह्यस्य मनसः कामस्तं संपादयमाचिरम्
पितामहवचः श्रुत्वा पुलस्त्यो मुनिसत्तमः६६
गंगाद्वारमथागत्य भीष्मं वचनमब्रवीत्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते६७
तुष्टस्ते तपसा वीर साक्षाद्देवः पितामहः
ब्रह्मणा प्रेषितस्तेहं वरान्दास्यामि कांक्षितान्६८
भीष्मोपि तद्वचः श्रुत्वा मनःश्रोत्रसुखावहम्
उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतः स्थितम्६९
अष्टांगप्रणिपातेन नत्वा तं मुनिसत्तमम्
उवाच प्रणतो भूत्वा सर्वांगालिंगितावनिः७०
अद्य मे सफलं जन्म दिनं चेदं सुशोभनम्
भवतश्चरणौ दृष्टौ जगद्वंद्यौ मया त्विह७१
तपसश्च फलं प्राप्तं यद्दृष्टोभगवान्मया
वरप्रदो विशेषेण संप्राप्तश्च नदीतटे७२
इयं ब्रसी मया क्लप्ता आस्यतां सुखदा कृता
अर्घ्यपात्रे तु पालाशे दूर्वाक्षतसुमैः कुशैः७३
सर्षपैश्च दधिक्षौद्रैर्यवैश्च पयसा सह
अष्टांगो ह्येष निर्द्दिष्टो ह्यर्घो हि मुनिभिः पुरा७४
श्रुत्वैतद्वचनं तस्य भीष्मस्यामिततेजसः
उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवानृषिः७५
विष्टरं सहपाद्येन अर्घपात्रं मुदान्वितः
जुजोष भगवान्प्रीतः सदाचारेण तेन तु७६
पुलस्त्य उवाच
सत्यवान्दानशीलोसि सत्यसंधिर्नरेश्वरः
ह्रीमान्मैत्रः क्षमाशीलो विक्रांतः शत्रुशासने७७
धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान्प्रियभाषिता
मान्यमानयिता विज्ञो ब्रह्मण्यः साधुवत्सलः७८
तुष्टस्तेहं सदा वत्स प्रणिपातपरस्य वै
प्रब्रूहि त्वं महाभाग कथनं ते वदाम्यहम्७९
भीष्म उवाच
भगवन्भगवान्ब्रह्मा कस्मिन्काले स्थितो विभुः
सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे८०
स्थितिं वा भगवान्विष्णुः कथं रुद्रस्तु निर्मितः
कथं वा ऋषयो देवास्सृष्टास्तेन महात्मना८१
कथं पृथ्वी कथं व्योम कथं चेमे तु सागराः
कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च८२
मुनीन्प्रजापतींश्चैव सप्तर्षीन्प्रवरानपि
वर्णान्वायुं पुरास्थानं गंधर्वान्यक्षराक्षसान्८३
तीर्थानि सरितो वाथ सूर्यादीन्ग्रहतारकान्
यथा ससर्ज भगवांस्तथा मे त्वं वदस्व ह८४
पुलस्त्य उवाच
परः पराणां परमः परमात्मा पितामहः
रूपवर्णादिरहितो विशेषण विवर्जितः८५
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः
गुणैर्विवर्जितः सर्वैः स भातीति हि केवलम्८६
सर्वत्रासौ समश्चापि वसन्ननुपमो मतः
भावयन्ब्रह्मरूपेण विद्वद्भिः परिपठ्यते८७
तं गुह्यं परमं नित्यमजमक्षयमव्ययम्
तथा पुरुषरूपेण कालरूपेण संस्थितम्८८
तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकार ह
पूर्वं तु पद्मशयनादुत्थाय जगतःप्रभुः८९
गुणव्यंजनसंभूतः सर्गकाले नराधिप
सात्विको राजसश्चैव तामसश्च त्रिधा महान्९०
प्रधानतत्वेन समं तथा बीजादिभिर्वृतः
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः९१
त्रिविधोयमहंकारो महत्तत्त्वादजायत
भूतेंद्रियाणां पंचानां तथा कर्मेन्द्रियैः सह९२
पृथिव्यापस्तथातेजो वायुराकाशमेव च
एकैकशः स्वरूपेण कथयामि यथोत्तरम्९३
शब्दमात्रमथाकाशं भूतादिः खं समावृणोत्
अथाकाशं विकुर्वाणं स्पर्शमात्रं ससर्ज ह९४
बलवानेष वै वायुस्तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्९५
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतीरूपन्तु तद्वायुस्तद्रूपगुणमुच्यते९६
स्पर्शरूपस्तु वै वायू रूपमात्रं समावृणोत्
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह९७
संभवंति ततोंभांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चांभांसि गंधमात्रं ससर्जिरे९८
संघातो जायते तस्मात्तस्य गंधो मतो गुणः
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश९९
एकादशम्मनश्चात्र देवा वैकारिकाः स्मृताः
त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पंचमम्१०० 1.2.100
एतेषां तु मतं कृत्यं शब्दादि ग्रहणं पुनः
वाक्पाणिपादपायूनि चोपस्थं तत्र पञ्चमम्१०१
विसर्गशिल्पगत्युक्तिर्गुणा एषां विपर्ययात्
आकाश वायु तेजांसि सलिलं पृथिवी तथा१०२
शब्दादिभिर्गुणैर्वीर युक्तानीत्युत्तरोत्तरैः
शांता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः१०३
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः१०४
समेत्यान्योन्यसंयोगात्परस्परसमाश्रयात्
एकसंघातलक्षाश्च संप्राप्यैक्यमशेषतः१०५
पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहणे तथा
महदादयो विशेषांता ह्यंडमुत्पादयंति वै१०६
तत्क्रमेण विवृत्तं तु जलबुद्बुदवत्समम्
तत्राव्यक्तस्वरूपोसौ व्यक्तरूपी जनार्दनः१०७
ब्रह्माब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः१०८
गर्भोदकं समुद्राश्च तस्यासंश्च महात्मनः
तत्र द्वीपास्समुद्राश्च सज्योतिर्लोकसंग्रहः१०९
तस्मिन्नंडेऽभवन्वीर सदेवासुरमानुषाः
वारि वह्न्यनिलाकाशैर्वृतैर्भूतादिना बहिः११०
वृतं दशगुणैरंडं भूतादिर्महता तथा
अव्यक्तेनावृतो राजंस्तैः सर्वैः सहितो महान्१११
एभिरावरणैः सर्वैः सर्वभूतैश्च संयुतम्
नारिकेलफलं यद्वद्बीजं बाह्यदलैरिव११२
ब्रह्मा स्वयं च जगतो विसृष्टौ संप्रवर्त्तते
सृष्टिं च पात्यनुयुगं यावत्कल्पविकल्पना११३
स संज्ञां याति भगवानेक एव जनार्दनः
सत्वभुग्गुणवान्देवो ह्यप्रमेय पराक्रमः११४
तमोद्रेकं च कल्पांते रूपं रौद्रं करोति च
राजेंद्राखिलभूतानि भक्षयत्यतिभीषणः११५
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते
नागपर्यंकशयने शेते सर्वस्वरूपधृक्११६
प्रबुद्धश्च पुनः सृष्टिं प्रकरोति च रूपधृक्
सृष्टिस्थित्यंतकरणाद्ब्रह्मविष्णुशिवात्मकः११७
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च
उपसंह्रियते चापि संहर्त्ता च स्वयं प्रभुः११८
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
स एव सर्वभूतेशो विश्वरूपो यतोव्ययः११९
सर्गादिकं ततोस्यैव भूतस्थमुपकारकम्
स एव सृज्यः स च सर्गकर्त्ता स एव पाल्यं प्रतिपाल्यते यतः
ब्रह्माद्यवस्थाभिरशेषमूर्त्तिर्ब्रह्मा वरिष्ठो वरदो वरेण्यः१२०

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पुराणावतारे द्वितीयोऽध्यायः२