लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८१
[[लेखकः :|]]
अध्यायः ५८२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि मम मूर्तिर्मन्मयी चाहमेव सा ।
एतदात्म्यमिदं सर्वं मूर्तिश्चाऽहं पुमुत्तमः ।। १ ।।
पुरुषोत्तमसंज्ञोऽहं वसामि पुरुषोत्तमे ।
क्षेत्रे वै जगतां नाथो दिव्यरूपधरः पुमान् ।। २ ।।
पुरुषोत्तमाख्यं दिव्यं क्षेत्रं परमपावनम् ।
यत्राऽस्मि दारवतनुः श्रीपतिः पुरुषोत्तमः ।। ३ ।।
ज्योतिःप्रकाशो भगवान् साक्षान्नारायणः स्वयम् ।
लोकानां चाक्षुषो भूत्वा दिव्योऽपि दृश्यतां गतः ।। ४ ।।
श्रीलक्ष्मीरुवाच-
कथं दारुप्रतिमस्त्वं वर्तसे तत्र माधव ।
श्रोतुमिच्छामि भगवन् लोकानां हितकारणात् ।। ५ ।।
कदा कस्मात् कथं तत्र भवानास्ते च कीदृशः ।
कृपयाऽनुग्रहेणाऽपि भक्तां श्रावय ते कथाम् ।। ६ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि महापुण्यप्रदं रहस्यमुत्तमम् ।
यस्य संकथनाच्चापि क्षीयते चान्तरं तमः ।। ७ ।।
अहं चास्मि जगन्नाथः सर्वभूतगुहाशयः
तथाप्येतन्मम क्षेत्रं वपुर्भूतं च मे परम् ।। ८ ।।
स्वयं वपुष्माँस्तत्राऽस्मि मन्नाम्ना ख्यापितं मया ।
दशयोजनविस्तार वालुकारामणीयकम् ।। ९ ।।
नीलाचलेन महता पर्वतेन विराजितम् ।
सृष्ट्वा चराचरं ब्रह्मा चिन्तयामास वै पुरा ।। 1.581.१ ०।।
देहिनां मोक्षणार्थं वै विष्णुं स्तोष्ये परेश्वरम् ।
अहं तु मम मोक्षार्थं भजिष्ये पुरुषोत्तमम् ।। ११ ।।
विचार्येत्थं प्रतुष्टावाऽनादिश्रीकृष्णमच्युतम् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।। १ २।।
अक्षरेशाय मुक्तानामधिपाय नमो नमः ।
राधालक्ष्मीप्रभाहंसामाणिकीशाय ते नमः ।। १ ३।।
पार्वतीशाय सगुणामंजुलेशाय ते नमः ।
श्रीकृष्णस्त्वं परब्रह्म नारायणस्त्वमेव च ।। १४।।
भूमा विष्णुर्महाविष्णुर्वैराजस्त्वं प्रवर्तसे ।
अन्तर्यामी प्रकाशश्च गोचरोऽगोचरस्तथा ।। १५।।
तत्त्वात्मकश्च प्रकृतिविकृतिज्ञस्त्वमेव च ।
कोशसंस्यश्चाणुसूक्ष्मो महीयान्महतां भवान् ।। १६।।
द्रव्यं गुणश्च कर्म त्वं भावोऽभावस्त्वमेव च ।
माया च कारणं कार्यं त्वमेवाऽसि नमोऽस्तु ते ।। १७।।
संसारे त्वात्मलुब्धानां सारमात्मा त्वमेव च ।
असारश्चापि ते दृष्ट्या साररूपः प्रजायते ।। १८।।
सोऽहं रागं परित्यज्य भविष्ये त्वां परेश्वरम् ।
किमसारस्वरूपाणां तुषाणामवघातनात् ।। १ ९।।
यत्र चान्ते भवेच्छून्यं तन्नारभेत बुद्धिमान् ।
मया सृष्टिः शून्यकान्ता कर्तव्या नैव केशव ।।1.581.२०।।
प्रसीदाऽद्य प्रमोक्षं च प्रदेहि मम चेच्छतः ।
एवं वै ब्रह्मणा चाहं स्तुतः श्रीगरुडध्वजः ।।२१।।
चतुर्भुजः कोटिसूर्यप्रकाशः श्रीनरायणः ।
आविरासं विविक्षुस्तं प्रहस्य चोक्तवाँस्ततः ।।२२।।
कथं ब्रह्मन् जातमात्रो वैराग्यं लब्धवानसि ।
कुरु चाज्ञां वह सृष्टिं ध्यानं मम विधेहि च ।।२३।।
अनाद्यविद्या सुदृढा दुश्छेद्या कर्मबन्धनैः ।
त्वया पूर्वं कृतं कर्म परमेष्ठित्वदायकम् ।।२४।।
विना भोगं न नश्येत्तन्नूतनानां प्रसंजकम् ।
तस्मिन् सति कथं सृष्टौ ह्रियेते मृतिजन्मनी ।।२५।।
तथापि भक्तिमार्गे ते यद्यस्ति मानसं दृढम् ।
यत्र मे मानसं चास्ति तत्र तेऽस्तीति धारय ।।२६।।
एवं मत्वा ह्यभिन्नं मां कुरु सर्वं मयोदितम् ।
हृदयेऽहं तव ब्रह्मन् प्रतिष्ठामि च सर्वदा ।।२७।।
निर्दिशामि मम कर्म तथा कुरु हृदोदितम् ।
सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ।।२८।।
सर्वतीर्थफलदे त्वं प्रदेशे याहि वै क्षितौ ।
तत्र जन्माऽयुतलब्धपुण्यपुञ्जास्तु मानवाः ।।२९।।
प्रपद्यन्ते निवासं वै नाऽभक्ता नाऽल्पपुण्यकाः ।
एकाम्रकाननाद् यावद् दक्षिणोदधितीरभूः ।।1.581.३०।।
पदात्पदात्परो दिव्यः प्रदेशो वर्तते मम ।
तत्र मत्कण्ठसंस्थश्च मणिर्नीलमसंज्ञितः ।।३ १।।
समुत्तार्य मया संस्थापितः स नीलपर्वतः ।
ब्रह्मोवाच तदा श्रुत्वा कथं नीलमणिस्तदा ।।३२।।
त्वया संस्थापितस्तत्र वद मे कारणं प्रभो ।
हरिः प्राह शृणु ब्रह्मन् पुरा तु मधुकैटभौ । ।३३।।
ब्रह्माण्डनाशकौ दैत्यो मया चक्रेण नाशितौ ।
मम भक्तौ मया सार्धं युद्धमुग्रं प्रचक्रतुः ।।३४।।
गदया तूग्रया मां च ताडयामासतुर्हृदि ।
मया धृतो मणिश्रेष्ठो हृदयादपहाय सः ।।३५।।
यावद्युद्धमभूत् तावत् तत्प्रदेशे निधापितः ।
तत्र भक्ता मम चोग्रा पृथ्वी भीता स्थिताऽभवत् ।।३६।।
कन्यका त्रासमापन्ना मण्याधारा प्रतिष्ठति ।
रक्षिताऽनेन मणिना प्रतीक्षते ममागमम् ।।३७।।
हत्वा दैत्यौ तदा चाहमगमं नेतुमेव तम् ।
तदा तु कन्यया पृथ्व्या स्तुतोऽहं परमेश्वरः ।।३८।।
त्वं रक्षाकारकश्चाऽसि पाता धाताऽसि मे प्रभो ।
पृथ्वीपतिस्त्वमेवाऽसि प्राणदोऽसि मम प्रभो ।।३९।।
सदैव रक्ष मां स्वामिन्नारायण हरे प्रभो ।
पापनाशं च मे भारं नाशय त्वं हरे प्रभो ।।1.581.४०।।
इत्युक्तोऽहमवोचं तां वरं ब्रूहि ददामि ते ।
साऽऽह नीलमणिं चात्र सदा रक्षितुमर्हसि ।।४१।।
येन मुक्तिर्भवेद् देहिपापनाशेन चात्र वै ।
मम रक्षा भवेच्चापि कृष्णाभूषणधारणात् ।।४२ ।।
श्रुत्वैवं भगवाँश्चाह तामुक्तवाँस्तथास्त्विति ।
भूषारूपो मणिश्चायं नीलो मया समर्पितः ।।४३।।
पृथ्व्या धृतः स वै कण्ठे नित्यं धारयति ध्रुवम् ।
कण्ठात्मकं परं क्षेत्रं श्रीपुरुषोत्तमात्मकम् ।।४४।।
पुनश्चाहं यदा तस्मात्स्थानाज्जिगमिषुस्तदा ।
पुनः सा प्रार्थयामास त्वयाऽऽगन्तव्यमत्र च ।।४५।।
स्थेयं चात्र मदुद्धारपरेण प्रभुणा सदा ।
तथाऽस्त्विति मया चोक्तं वैकुण्ठं गतवानहम् ।।४६।।
तत्राज्ञा च तदा प्राप्ता मयाऽक्षरपतेः प्रभोः ।
नीलपर्वतभूमौ वै समिच्छामि पुमुत्तमः ।।४७।।
पुरुषोत्तमसंज्ञोऽहं वासं भक्तकृपावशः ।
एवं वै भगवाँस्तत्राऽनादिकृष्णनरायणः ।।।४८।।
स्वयं वसति सर्वात्मा पुरुषोत्तमभूतले ।
सिन्धुतीरे राजते स नीलाद्रिर्द्योतयन् दिशः ।।४९। ।
पृथिव्यां गोपितं स्थानं तव चाऽविदितं शुभे ।
सुराऽसुराणां दुर्ज्ञेयं मायया छादितं मम ।।1.581.५०।।
सर्वैश्वर्यसमायुक्तस्तत्र तिष्ठामि देहवान् ।
क्षराऽक्षरावतिक्रम्य वर्तेऽहं पुरुषोत्तमे ।।५१ ।।
लयेन न समाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।
यथाऽहं चास्मि मे धाम्नि सर्वायुधधरः पुमान् ।।५२।।
पारमेश्वरचिह्नाढ्यस्तत्र मां द्रक्ष्यसे तथा ।
तत्र नीलाचलभूमौ कल्पवटस्य मूलके ।।५३।।
रौहिणाख्यकुण्डतटे वसन्तं द्रक्ष्यसे तु माम् ।
तत्र याहि प्रकाशं मां ध्यायतस्ते हि यास्यते । ।५४।।
इत्यादिश्य च ब्रह्माणं ततः श्रीपुरुषोत्तमः ।
पश्यतो ब्रह्मणस्तस्य तत्रैवान्तरधीयत । ।५५।।
ब्रह्मा चाभ्याययौ तत्र यत्रास्ते पुरुषोत्तमः ।
अद्राक्षीत्तं तथारूपं श्रीकृष्णं पुरुषोत्तमम् ।।५६।।
प्रत्यभिज्ञानसंहृष्टो बभूव ज्ञानसागरः ।
नेमे तुष्टाव च ब्रह्मा तदा श्रीपुरुषोत्तमम् ।।५७। ।
तावत्तत्र वायसस्तु कश्चिद् व्योम्नः समाययौ ।
जलं पातुं पपातैव कुण्डे ममज्ज दैवतः । ।५८।।
कुण्डात्तु ब्रह्मणा तेन बहिर्निष्कासितश्च सः ।
पृथ्व्यां लुण्ठन् विलोक्यापि नीलकान्तिं परेश्वरम् । ।५९।।
काकदेहं परित्यज्य शंखचक्रगदाधरः ।
दिव्यदेहो बभूवात्र कृष्णपार्श्वे व्यवस्थितः ।।1.581.६०।।
काकस्य तु गतिं दिव्यां दृष्ट्वा योगीन्द्रदुर्लभाम् ।
ब्रह्माऽऽश्चर्यं जगामाऽथ चिन्तयामास तत्क्षणम् ।।६ १ ।।
अहो क्षेत्रस्य माहात्म्यं विनाऽपि साधनं गतः ।
तामसोऽपि निकृष्टोऽपि चतुर्भुजत्वमाप्तवान् ।।६२।।
मनुष्योऽधिकृतो मुक्तौ खगोऽपि मुक्तिमाप ह ।
न किंचिद् दुर्लभं तत्र यत्र श्रीपुरुषोत्तमः । ।६३। ।
पात्रापात्रे न वै तत्र यत्र कृष्णनरायणः ।
पुराणपुरुषो यत्र नाम्ना संकीर्त्यते जनैः ।।६४। ।
तच्छ्रोतारोऽपि वै मुक्तिं यान्ति द्रष्टुस्तु का कथा ।
ध्यातुः सेवयितुश्चापि मुक्तिस्तत्र करंगता ।।६५।।
साक्षात्कृतो हि भगवान् दत्ते भक्ताय मुक्तिकाम् ।
पुरुषोत्तमसंज्ञकस्य महिमा चाद्भुतोऽस्ति यत् ।।६६ ।।
यत्र काकोऽपि तु हरिं साक्षात्प्राप्तश्चतुर्भुजः ।
किं पुनः सततं कृष्णध्यानयोगपरायणाः ।।६७।।
तत्र नीले दिव्यशैले पुरुषोत्तमक्षेत्रके ।
अपि कीटपतंगाद्या मुक्तिं प्रयान्ति सर्वशः ।।६८।।
तद् दृष्ट्वा यमराजो वै तूर्णं तत्र समागतः ।
ब्रह्मा ददर्श तं वैवस्वतं धर्मं हताशकम् ।।६९।।
निःश्वसन्तं च दीनं च स्वाधिकारनिरर्थकम् ।
यमराजाऽपि नीलाद्रौ श्रीहरिं प्रणिपत्य च ।।1.581.७०।।
तुष्टाव श्रीजगन्नाथं स्वाधिकारदृढस्थितौ ।
नमस्ते चैकतत्त्वाय द्वैतायाऽनन्तकाय च ।।७ १ ।।
स्वप्रोतसर्वरूपाय धृतिपुष्टिकराय च ।
सर्वाभासाधिदेवाय नमस्ते सर्वयोनये ।।७२।।
विश्वासाय गुरवे साक्षिणे ते नमोनमः ।
कारुण्यसिन्धवे तुभ्यं परातीताय ते नमः ।।७३।।
जन्ममृत्युप्रहर्त्रे ते नमोऽस्तु दीनबन्धवे ।
मायाधिष्ठात्रात्मने ते पीतकौशेयवाससे ।।७४।।
मायाचक्रकर्तनाय चक्रिणे ते नमोनमः ।
दण्डदात्रेऽधिकर्त्रे ते परमेशाय वै नमः ।।७५।।
नीलमेघसुवपुषे नीलाद्रिवासिताय च ।
नमस्ते पुण्डरीकाक्षिशोभिताय गदाभृते ।। ७६।।
श्रीवत्सकौस्तुभशोभाभासत्समूढवक्षसे ।
नीलवर्णं नीलशैलगुहावासं कृपालयम् ।।७७।।
आश्रितानां तु दुःखघ्नं प्रणमामि परात्परम् ।
यत्पादयोराश्रये संल्लुब्धा श्रीरनपायिनी ।।७८।।
वर्तते शाश्वती लक्ष्मीर्भक्तैश्वर्यप्रदायिनी ।
या प्रकृतिः पराधीना परेश तव वाञ्च्छया ।।७९।।
त्वामावृत्त्य विकासं सम्प्रयाति बन्धमुक्तये ।
भुक्तभोगाय चार्पयति निर्वाणतां त्वदिच्छया ।।1.581.८०।।
त्वमेव तु परब्रह्म ब्रह्मरूपेण वर्तसे ।
भूमरूपेण च व्यूहरूपेण वर्तसे तथा ।।८१ ।।
यमरूपेण च रुद्ररूपेण वर्तसे विभो ।
लक्ष्मीनारायण विष्णो कृष्णनारायणप्रभो ।।।८२ ।।
काम्भरेयमहाराज कृपालो ते नमो मुहुः ।
प्रभानारायण पार्वतीशनारायण प्रभो ।
हंसनारायण मंजूनारायण नमोऽस्तु ते ।।८ ३।।
सगुणेश तव पत्नीं दुःखहर्त्रीं नमाम्यहम् ।
पुत्रचिन्तावारयित्रीं धारयित्रीं नमाम्यहम् ।।८४।।
इत्युक्त्वा विररामाऽसौ यमस्तावत्तु पद्मजा ।
धर्मस्तवप्रतुष्टेन नारायणेन देशिता ।
कृपामयी स्वयं भूत्वा लक्ष्मीर्धर्ममुवाच ह ।।८५।।
यमराज यदर्थं त्वं संस्तौषि तत्तु दुर्लभम् ।
क्षेत्रं चैतच्छ्रीहरेर्वै पुरुषोत्तमशार्ङ्गिणः ।।८६ ।।
सर्वेषां मोक्षदं चास्ति याम्यं पश्यन्ति नैव ते ।
दर्शकाश्चास्य तीर्थस्य न यास्यन्ति यमालयम् ।।८७।।
अत्याज्यं च तथा क्षेत्रमावयोः पुरुषोत्तमम् ।
ब्रह्मादिसर्वपालानां स्वामित्वं नात्र शस्यते ।।८८।।
नेह कर्मपरिपाका देहिनां संभवन्ति हि ।
अत्र वासेन कीटानामपि कर्म सुदुष्कृतम् ।।८९।।
विलयं याति माहात्म्यात्पुरुषोत्तमपादयोः ।
कर्मपाशप्रबद्धानां बन्धनं नात्र विद्यते ।। 1.581.९० ।।
दुष्कर्मिणां दण्डदाता त्वं यमो विहितोऽसि यत् ।
पुरुषोत्तमभूवासिदेहिनां त्वं न शासकः ।। ९१ ।।
अत्र श्रीमान् परब्रह्म कृष्णनारायणः स्वयम् ।
स्वामी मे राजते साक्षान्नीलाद्रिकृतकेतनः ।।९२ ।।
दृष्ट्वा नारायणं तं वै मुच्यन्ते पापिनो यतः ।
तव दण्डो न वै तेषु त्वन्यत्र त्वं प्रभुर्यम ।।९३ ।।
मा समिच्छ जगन्नाथाश्रितानां शासनं यम ।
ब्रह्माऽप्ययं वायसस्य मुक्तिं वीक्ष्य स्मयं गतः ।। ९४।।
गर्वं जहौ हि कर्मोत्थदेहिसंसारसंभवम्।
त्वं चापि च तथा गर्वं परित्यज्य प्रशाधि तान् ।।९५।।
पुरुषोत्तमतीर्थातिरिक्तस्थान् सर्वदेहिनः ।
अत्र स्थिता न तेऽधीना मम स्वामिवशा हि ते ।।९६।।
अत्र वसन्त एवैते जीवन्मुक्ताश्चतुर्भुजाः ।
तस्मात्तेषां तव हस्तगतत्वं नैव नैव तु ।।९७।।
याहि कुरु मनःस्वास्थ्यमधिकारं निर्वर्तय ।
एतद्वासस्वहस्ताऽनागतत्वं मा शुचो यम ।।९८।।
एवं लक्ष्मीस्वरूपेण विष्णुना बोधितो यमः ।
खिदन् लक्ष्मीं पुनर्नत्वा स्मृत्वा हरिं जगाद ताम् ।।९९।।
मातर्यत्र भवेच्छ्रीमाननादिश्रीनरायणः ।
तत्क्षेत्रस्य महिमानं नाऽशृणवं पुरा ह्यहम् ।। 1.581.१० ०।।
अभाग्यहतदेवोऽहं कथं वेद्मि हरेर्बलम् ।
परमेश्वरवाञ्च्छा वै निरङ्कुशा प्रवर्तते ।। १०१ ।।
अन्यत्र बन्धदा सैव याऽत्र मोक्षप्रदैव सा ।
एतत्क्षेत्रं कियद्दीर्घं यज्जीवा न ममस्पृशाः ।। १ ०२।।
एतत्क्षेत्रस्थितेः कीदृक् फलं तदपि मे वद ।
येनाऽहं समनुज्ञाय विचरामि पृथक्पदम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीपुरुषोत्तमक्षेत्रे नीलमणिरूपनीलपर्वतकथा, रौहिणकुण्डतटे श्रीपुरुषोत्तममूर्तिः काकस्य वेधसः पश्यतो मुक्तिः, यमराजस्य तत्रागमनं, लक्ष्मीकृतनीलस्थलीयजीवानां यमदूताऽस्पर्शनं चेत्यादिनिरूपणनामैकाशीत्यधिकपञ्चशततमोऽध्यायः ।। ५८१ ।।