लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५८२
[[लेखकः :|]]
अध्यायः ५८३ →

श्रीलक्ष्मीरुवाच-
यमराज! शृणु तत्त्वं पृष्टं हितकरं तव ।
क्षेत्रं फलं च कथये तथाऽन्यन्मोक्षदं शुभम् ।।१ ।।
यथाहं श्रीकृष्णनारायणपार्श्वगता पुरा ।
आसं ततश्च प्रलये तद्वक्षःस्थलमास्थिता ।। २ ।।
ददृशे च जगत्यस्मिन् प्रलीने मम सर्वथा ।
अहं चैतत् सुक्षेत्रं च पुरुषोत्तमसंज्ञकम् ।। ३ ।।
द्वयं त्वासीद् दिव्यरूपं तदा मार्कण्डको मुनिः ।
सप्तकल्पायुरेवात्र निमग्नो प्रलयार्णवे ।। ४ ।।
जलार्णवे भ्रममाणः पुरुषोत्तमक्षेत्रके ।
पुरुषोत्तमरूपे स नीलाद्रेस्तु समाश्रये ।। ५ ।।
सामुद्रे सुतटे क्षेत्रे दिव्यं वटं समैक्षत ।
तत्राऽनादिकृष्णनारायणं ददर्श सूज्ज्वलम् ।। ६ ।।
हसन्तं रमणीयं च शोडशाब्दं चतुर्भुजम् ।
यस्य वक्षसि क्षेत्रं तत् क्षेत्रे तं चापि मिश्रितम् ।। ७ ।।
वदन्तं किं जले स्नासि मार्कण्डेय स्थिरो भव ।
एहि चात्र वटच्छायास्थले पार्श्वे ममाऽन्तिकम् ।। ८ ।।
तच्छ्रुत्वा विस्मयं लेभे दृष्ट्वा क्षेत्रं वटं हरिम् ।
वारिभिः क्लिद्यते नैतद् दह्यते न च वह्निना ।। ९ ।।
संवर्तकादिभिश्चैतच्छोशुष्यते न चाल्यते ।
एकार्णवे यथा नौश्च क्षेत्रं तथा हि दृश्यते ।। 1.582.१० ।।
ईक्ष्यते च वटो दिव्यो विशाल ईशितुस्तनुः ।
महाप्रलयवातेन पत्रं त्वस्य न कम्पते ।। ११ ।।
तत्राऽयं भगवानास्ते न्यग्रोधे प्रलयेऽपि च ।
कथं भुवः प्रदेशोऽयं प्रलयेऽपि स्थिरोऽस्ति वै ।। १२।।
चिन्तयन्निति मुनिराट कृष्णनारायणं प्रति ।
ययौ मां तस्य वक्षस्थां दृष्ट्वा स्वं प्रजगाम ह ।। १ ३।।
'नमो नमस्ते पुरुषोत्तमाय लक्ष्मीद्वितीयाय नमो नमस्ते ।
जलाऽर्णवे मेऽक्षिसुगोचरायन्यग्रोधवासाय नमो नमस्ते ।। १४।।
दिव्याधिवासाय जगन्निवासकृतेऽत्रवासाय नमो नमस्ते ।
लये कृपालेशसमन्विताय निमग्नताराय मुहुर्नमोऽस्तु ।। १५।।
परं पदं चाक्षरधाम चामृतं
वैकुण्ठगोलोकहिरण्मयादिकम् ।
सर्वं भवान् यत्र कृताश्रयो भुवि
दिव्यं न चैतत्प्रलयोऽपि खादति ।। १६।।
सर्वत्रगं श्रीपुरुषोत्तमस्थं बृहत्स्वरूपं वटरूपसंस्थितम् ।
मायापरं ब्रह्मपरं लयोत्थं लयस्थितं त्वां प्रणमामि विष्णुम् ।। १७।।
एकार्णवे जगत्यत्र केयं भूः पारमेश्वरी ।
यत्र साक्षात् त्राणकर्ता राजसे मत्कृपाकरः ।। १८।।
त्राहि विष्णो जगन्नाथ घोरात्संसारसागरात् ।
न त्वं पृथग् यथाकाले मार्कण्डेयाद् विलोक्यसे ।। १९।।
यथा लक्ष्मीस्तथा चायं मार्कण्डेयस्तवानुगः ।
कथं मां त्यक्तवानास्ते भवान् भवार्णवे लये ।। 1.582.२० ।।
मां गृहाण प्रभो त्वत्र देहि वासं वटाश्रये ।
तव सेवां करिष्येऽत्र शाश्वतीं चाऽनपायिनीम्' ।।२ १ ।।
इत्युक्तो भगवानाह समागच्छ मुने इह ।
तिष्ठ चात्र वटे लक्ष्म्या साकं सार्धं मया तथा ।। २२।।
प्रातः सर्वा मम सृष्टीः पुनः पूर्वाः प्रद्रक्ष्यसि ।
मया ते दर्शितं क्षेत्रं दिव्यं श्रीपुरुषोत्तमम् ।। २३ ।।
कुरु पर्णप्रशालां संवसाऽत्र वटमण्डले ।
अहं तव निमित्तेन वसाम्यत्र यतः स्थिरः ।।।२४।।।
मार्कण्डेयेन मुनिना श्रुत्वाऽऽज्ञां पारमेश्वरीम् ।
कृता वटजटाजूटे पर्णशाला शुभा तदा ।।२५।।
विवेश चान्तस्तावत् स ददर्शान्तर्हरिं स्थितम् ।
तन्मूर्तौ स प्रलीनश्च ददर्शाऽण्डानि कोटिशः ।।२६।।
अत्राण्डे ददृशे विप्रो भुवनानि चतुर्दश ।
ब्रह्मविष्णुमहेशादीन् दिक्पालान् लोकरक्षकान् ।।२७।।
सिद्धगन्धर्वदैत्यांश्च राक्षसान् सुरमानवान् ।
नागान् पितॄँश्च शैलाँश्च सागरान् संस्तराँस्तथा ।।२८।।
जगतां धारिणं शेषं सहस्रफणशोभितम् ।
शेषाधारं कच्छपं च जलं तेजो ददर्श च ।। २९।।
वायुं व्योम महाकाशोत्तरं सर्वं ददर्श च ।
चिदाकाशे च गोलोकं वैकुण्ठं स ददर्श ह ।।1.582.३ ०।।
अथ दिव्यप्रकाशं चाक्षरं धाम ददर्श सः ।
यत्रास्ते श्रीकृष्णनारायणो लक्ष्मीपतिः स्वयम् ।।३ १ ।।
तत्र वटं ददर्शाऽथ पर्णशालां स्वनिर्मिताम् ।
अनादिश्रीकृष्णनारायणं तत्र ददर्श सः ।।३२।।
निजं मृकण्डतनयं क्षेत्रं च पुरुषोत्तमम् ।
दिव्याऽब्धिं नीलशैलं च ददर्श मुनिराट् परम् ।।३३।।
ततो द्रागेव भगवद्वाञच्छया तु क्षणान्तरे ।
पुनर्मयाऽभिसंकोचं गमितश्चान्तरे तदा ।।३४।।
हरौ स्वं पर्णशालायां हृदि लक्ष्मीयुतं प्रभुम् ।
श्रीहरिं पूर्ववद् वीक्ष्य परमं विस्मयं गतः ।।३५।।
तुष्टाव परया भक्त्या श्रीकृष्णपुरुषोत्तमम् ।
परमेश ममेष्टोऽसि किमाश्चर्यं प्रदर्शितम् ।।३६।।
त्वया चात्र स्थले कस्माद् वद मे श्रीहरे प्रभो ।
भगवाँस्तं तदा प्राह पुरुषोत्तमभूतलम् ।।३७।।
मम धामैव भूमो वै मया संस्थापितं सदा ।
दिव्यं द्वितीयरूपं तत् सवटं पुरुषोत्तमम् ।।३८।।
मन्दिरं पर्णशालेयं राजते साधुवासिनी ।
त्वं मे त्वक्षरधामाऽसि मार्कण्डेयोऽपरः पुमान् ।।३९।।
नित्यत्वं चास्य धाम्नो मे दर्शितं ते क्षितावपि ।
पुरुषोत्तमसंज्ञं वै क्षेत्रं धाम ममाऽस्ति तत् ।।1.582.४० ।।
तस्मात् क्षेत्रमिदं रम्यं शाश्वतं मे विभावय ।
न सृष्टिप्रलयावत्र विद्येते न च संसृतिः ।।४१ ।।
नित्यं पुमुत्तमं चात्र मां ज्ञात्वा पुरुषोत्तमम् ।
क्षेत्रं विशति शुद्धात्मा स याति मम धाम वै ।।४२।।।
नाऽस्य जन्म पुनर्भावि सान्द्रे सुखे गतो यतः ।
श्रुत्वैवं मृकण्डतनयस्तत्र वासमरोचयत् ।।४३ ।।
प्रहृष्टहृदयः प्राह श्रद्धाभक्तिप्रपूरितः ।
अनुगृह्णीष्व भगवन् क्षेत्रेऽस्मिन् पुरुषोत्तमे ।।४४।।
यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम ।
तव धाम्नि शाश्वते ते सुखे मग्नो भवामि यत् ।।४५।।
यमराज तदा कृष्णनारायणश्च तं मुनिम् ।
प्रोवाचाऽहं त्वया साकं लक्ष्म्या साकं वसामि च ।।४६।।
निवत्स्यामि न सन्देहो लोककल्याणहेतवे ।
यावदाभूतनाशं च पुनश्च प्रलयेऽपि च ।।४७।।
प्रलयान्ते पुनः सृष्टौ सृष्ट्यन्तेऽपि वसामि च ।
निवत्स्यामि सदा चात्र वस त्वं पर्णपत्तने ।।४८।।
अत्र वै पर्णनगरी प्रसिद्धा सा भविष्यति ।
पुरुषोत्तमपुर्याख्या जगन्नाथपुरी तथा ।।४९।।
कल्पे कल्पे नामख्यातिं गमिष्यति निवत्स्यति ।
त्वं च मृत्युहरो भूत्वा स्थास्यस्यत्र न संशयः ।।1.582.५० ।।
इत्युक्त्वाऽन्तर्दधे कृष्णनारायणो जगत्पतिः ।
मार्कण्डेयो महामुनिस्तत्राऽऽवासमरोचयत् ।।५१ ।।
वटवायव्यकोणे च गर्तमास्थाय पावनम् ।
तप्तेन तपसा मृत्युं जितवान् चाऽक्षरः स्वयम् ।।५२।।
मार्कण्डेयाश्रमस्तत्र वर्तते पावनो यतः ।
पञ्चक्रोशमिदं क्षेत्रं समुद्रान्तर्व्यवस्थितम् ।।५३।।
अब्धितीरे द्विक्रोशं च मिलित्वा क्रोशसप्तकम् ।
नीलपर्वतशोभाढ्यं स्वर्णवालुकसंस्तृतम् ।।५४।।।
अनादिश्रीकृष्णनारायणवासाश्रितं परम् ।
सर्वतीर्थः समुद्रोऽपि तीर्थराजत्वमाप्तवान् ।।५५ ।।
तत्तीरे भगवान् लक्ष्मीर्विराजंते यमेश्वर ।
साऽहं च कम्भरादेवी ब्रह्मानन्दपरिप्लुता ।।५६।।
या वै कुंकुमवाप्यां च सौराष्ट्रेऽपि विराजते ।
गजानना चमत्कारे काश्यां सा कार्ष्णवाल्लभी ।।५७।।
जया सा त्वक्षरे धाम्नि गोलोके राधिका हि सा ।
वैकुण्ठे सा रमा हिरण्यये प्रभा विनोदिनी ।।५८।।
श्वेताख्ये माणिकी लक्ष्मीः कैलासे पार्वती च सा ।
सत्ये हंसा मंजुला मेर्वद्रौ भ्वां सगुणा प्रिया ।।५९।।
अनादिश्रीकृष्णनारायणपत्न्यः सह स्थिताः ।
पूर्वस्मिन् श्रीजगन्नाथः पश्चिमे द्वारिकाधिपः ।।1.582.६ ० ।।
उत्तरे तु नरनारायणो दक्षे जनार्दनः ।
स्वामिनो मे स्वरूपाणि कृष्णनारायणस्य वै ।।६१ ।।
जगन्नाथे त्वहं लक्ष्मीर्द्वारिकेशे प्रभेश्वरी ।
नारायणे माणिकी च जनार्दने तु पार्वती ।।६२।।
सर्वेषामादिकल्पेऽत्र बभूवाऽहं पतिव्रता ।
कल्पान्तरे तथा प्राविर्भावान्तरेऽपि साऽप्यहम् ।।६३।।
अनेकनामरूपाढ्या भवामि कृष्णवाञ्च्छया ।
स्वाभीष्टं मम धर्मः स पातिव्रत्यं तथा मम ।।६४।।
बहूनि मम नामानि रूपाणि च विभूतयः ।
अवतारिण्य एवापि भविष्यन्ति स्त्रियो हरेः ।।६५।।
लक्षार्बुदानि वै नार्यो मम पत्युर्भवन्ति वै ।
अप्रस्खलितवीर्यस्याऽखण्डितब्रह्मचारिणः ।।६६।।
अव्ययसत्त्वयुक्तस्य संख्यावर्ज्याः स्त्रियो हरेः ।
तस्याऽप्रमेयकान्तस्य क्षेत्रं श्रीपुरुषोत्तमम् ।।६७।।
शंखाकारं पूर्वपश्चं पश्चिमे वृषभध्वजः ।
पूर्वे शंखमुखे नीलकण्ठो देवो विराजते ।।६८।।
शंखस्योदरभागस्तु - समुद्रोदकसंप्लुतः ।
अब्धिकुलीनमारभ्य दिव्यन्यग्रोधकाऽवधिम् ।।६ ९।।
दृश्यते भगवाँस्तत्र भक्तानुग्रहकारकः ।
यस्याऽयं भगवान् दृष्टिपथं याति स मुक्तिभाग् ।।1.582.७०।।
मरणान्मम धामस्थः स्नानात्स्वर्गगतस्तथा ।
स्मरणात्पातकैर्हीनो जायते मानवोऽस्य वै ।।७१।।
नाभिदेशे तु शंखस्य स्थिताः कुण्डो वटो हरिः ।
विमला तु महाशक्तिर्वर्तते तत्र मुक्तिदा ।।७२।।
प्रलयस्य भक्षयित्री महाप्रलयरोधिनी ।
तां दृष्ट्वा प्रणमेद् यः स भोगानश्नाति शाश्वतान् ।।७३।।
वटाब्धिमध्यमं क्षेत्रं कीटादेरपि मुक्तिदम् ।
अन्तर्वेदी भागवतः क्षेत्रं मध्यगतं हि सा ।।७४।।
तस्यां स्थिता भवन्त्येव शंखचक्राब्जधारिणः ।
सार्धत्रिकोटिसंख्यानां तीर्थानां पुरुषोत्तमः ।।७५।।
राजा वै मुक्तिदो यस्मात् तीर्थराजोऽयमुच्यते ।
रोहिणाख्ये दिव्यकुण्डे कारुण्याख्ये जले जनाः ।।७६।।
ये स्नास्यन्ति नरा नार्यस्ते स्युर्नारायणा ध्रुवम् ।
तस्माद् यमेश ते चिन्ता माऽस्त्वेतस्य स्थलस्य वै ।।७७।।
मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ।
एवमादिश्य धर्मेशं लक्ष्मीर्ब्रह्माणमाह च ।।७८।।
कामाख्यः क्षेत्रपालोऽत्र सदा नारायणाज्ञया ।
वर्तते तपसा युक्तो भजते श्रीनरायणम् ।।७ ९।।
नृसिंहोऽयं च भगवान् दक्षिणे वर्तते हरेः ।
नृहरेः सन्निधौ प्राणत्यागे मोक्षो भवेद् ध्रुवः ।।1.582.८ ० ।।
दर्शनादपि नृहरेर्भुक्तिमुक्ती करंगते ।
दानं जपादिकं चात्र कोटिकोटिगुणं भवेत् ।।८ १ ।।
नृसिंहश्च वटश्चैतावुभौ नारायणौ यतः ।
तच्छाया मोक्षदा तस्यामविद्या नाशमेति च ।।८२ ।।
वाराणस्यामविमुक्ते मुमुक्षोः कर्णमूलके ।
शंभुर्दिशति बोधस्योपायां मन्त्रं ततः परम् ।।८३।।
समभ्यस्य क्रमान्मोक्षो ज्ञान तस्य भवेद् यदि ।
अत्र तु प्राणहानौ तत्क्षणं एव तु मोक्षणम् ।।८४ ।।
सारूप्यं लभते योऽपि कोऽपि विज्ञानमन्तरा ।
स्नायादब्धिदृशा कृष्णच्छायायां वटवृक्षके ।।८५।।
क्षेत्रे धूल्याऽब्धिवार्भिर्यस्तन्मुक्तिर्मरणेऽत्र वा ।
अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ मया कृताः ।।८६।।
मंगला वटमूले तु पश्चिमे विमलाऽस्ति च ।
शंखस्य पृष्ठभागे तु संस्थिता सर्वमंगला ।।८७।।
उत्तरे लम्बिका दक्षे कालरात्रिश्च संस्थिता ।
कालरात्र्या पृष्ठभागे चण्डरूपा व्यवस्थिता ।।८८।।
पूर्वे मरीचिका त्वास्ते वैष्णव्यो नाथदासिकाः ।
अष्टानां दर्शनात्पापध्वंसोऽश्वमेधजं फलम् ।।८९।।
अथ भक्तश्च रुद्रोऽपि महाभागवतः प्रभुः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।1.582.९० ।।
मन्त्रं जपन् भवँश्चाऽत्राऽष्टधोपास्ते पुमुत्तमम् ।
आराध्य तपसा कृष्णं प्रार्थयद् वरमुत्तमम् ।।९ १ ।।
यत्र त्वं नाथ तत्राऽहं वसेयं त्वां भजन् सदा ।
त्वामृते कमलाकान्त नान्यन्निर्वाणकारणम् ।।९२ ।।
अन्तर्यामी प्रभुर्मे त्वं त्वां विना विग्रहः कुतः ।
निर्मलाम्बरसंकाशं त्वामहं शरणं गतः ।।९३ ।।
इत्युक्तौ भगवान् कृष्णो भक्तं रुद्रं विनिर्ममे ।
क्षेत्रपालेश्वरं तत्राऽष्टधा भक्तोत्तमोत्तमम् ।।९४।।
कपालमोचनेशं च क्षेत्रपेशं यमेश्वरम् ।
मार्कण्डेशं तथेशानं बिल्वेशं नीलकण्ठकम् ।।९५।।
वटेशं चेति तानष्टौ स्थापयामास माधवः ।
एतान् दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते ।।९६।।
अत्र क्षेत्रे मृतानां तद्धेतोर्यमो न शासकः ।
तदर्थं त्वागतश्चेत्त्वं तदन्यत्र प्रसाधय ।।९७।।
सुदर्शनं हरेश्चक्रं मायायाः कर्तनं परम् ।
नात्र माया भवेद् येन देही त्वद्धस्तगो भवेत् ।।९८।।
इत्युक्तो यमराजस्तु भगवन्तं प्रपूज्य च ।
लक्ष्मीं नत्वा ययौ याम्यालयं तुष्टो हरिं भजन् । ।९९।।
श्रीरुवाच ततश्चाऽजं परमेष्ठिपदस्थितम् ।
इन्द्रद्युम्नो महाराजो यज्ञाऽऽहर्ता सुवैष्णवः ।। 1.582.१०० ।।
भविष्यत्यचिरेणैव सत्ययुगे स भक्तगट् ।
अत्राऽऽगत्य महाभक्तिं करिष्यति दिवानिशम् ।। १०१ ।।
भगवत्प्रीतये त्वत्र वाजिमेधसहस्रकम् ।
करिष्यति तथा ब्रह्मँस्तव प्रीत्यर्थमित्यपि ।। १० २।।
तदा कृपालुर्भगवान् तदनुग्रहकारणात् ।
एकदारुसमुत्पन्नश्चतुर्धा संभविष्यति ।। १ ०३।।
दारवीप्रतिमा विश्वकर्मा प्रघट्टयिष्यति ।
प्रतिष्ठापयिता त्वं च इन्द्रद्युम्नप्रसादितः ।। १ ०४।।
भविष्यसि तदा ब्रह्मन्नत्र श्रीपुरुषोत्तमे ।
अस्मादृश्यः प्रतिमास्ता नाणुमात्रमपि प्रभो ।। १ ०५।।
विसदृश्य इति ताश्च त्वं प्रतिष्ठापयिष्यसि ।
गच्छेदानीं सत्यलोकं ब्रह्मन् क्षेत्रं पुमुत्तमम् ।। १ ०६।।
पुनश्चायाहि च मया देवेनाऽपि स्मृतो यदा ।
इत्युक्तो विश्वसृट् सत्यं ययौ लोकं प्रपूज्य तौ ।। १ ०७।।
नारायणोऽपि भगवान् लक्ष्मीं प्राह दयानिधिः ।
एवमेव त्वदुक्तं वै सर्वमत्र भविष्यति ।। १ ०८।।
चर्मचक्षुष्मतां काष्ठरूपं भासिष्यते मम ।
दिव्यचक्षुष्मतां दिव्यो भासिष्ये च त्वया सह ।। १ ०९।।
नीलाचलगुहाऽन्तःस्थो नीलजीमूतसन्निभः ।
बिभ्रद् दारुमयं वर्ष्म शंखचक्रगदादिमान् ।। 1.582.११ ०।।
संकर्षणो मया साकं सुभद्रा त्वं ममाऽन्तिके ।
सुदर्शनं तथा चक्रं निवत्स्यन्ति मया सह ।। १११ ।।
बहवो ह्यवतारा मे दिव्या जडाश्च मानुषाः ।
तिर्यञ्चो जलजाताश्च तेषां दिव्याः क्रियोत्तमाः ।। ११ २।।
तद्वदत्र दारुमयो मेऽवतारो मतो मम ।
द्यति संसारदुःखानि ददाति सुखमव्ययम् ।। ११३ ।।
तस्माद् दारुमयश्चाऽहं परब्रह्म वसामि च ।
नहि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित् ।। १ १४।।
कृतेनाऽकृतता लक्ष्मि! कदाचिन्नोपलभ्यते ।
अकृतो ह्यपवर्गः स कृताद्वा दारुतः कथम् ।। १ १५।।
अधिष्ठानं विना ब्राह्म्यमैश्वर्यं न प्रकाशते ।
अधिष्ठानं प्रतिमानं मम नारायणस्य तत् ।। १ १६।।
अलौकिकमपि कृत्वा लौकिकं तत्र वर्तये ।
कुत्र श्रुतं च वा दृष्टं प्रतिमा व्याहरेदिति ।। १ १७।।
इन्द्रद्युम्नाय स वरं ददौ काष्ठवपुर्धरः ।
दीनानाथैकशरणं तरणं भववारिधेः ।। ११८ ।।
मोक्षणं सर्वपापानां नीलाद्रिशरणं हरिम् ।
मामेव शरणं लक्ष्मि! ये त्वायास्यन्ति मानवाः ।। ११ ९।।
तेषां दोषाननालक्ष्य ह्यपराधशतान्यपि ।
क्षमिष्ये स्वल्पभक्त्याऽपि दिव्यदारुवपुर्धरः ।। 1.582.१ २०।।
इत्युक्त्वा विररामाऽसौ वटे श्रीभगवान् स्वयम् ।
लक्ष्म्या साकं निजं रूपं ध्यायन् नीलाद्रिमण्डले ।। १२१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मार्कण्डेयाय श्रीपुरुषोत्तमक्षेत्रस्य शाश्वतिकताप्रदर्शनं तत्क्षेत्रप्रमाणं शंभोरष्टरूपैः पार्वत्याश्चाष्टरूपैः क्षेत्रपालत्वादि, वटस्य दिव्यता, इन्द्रद्युम्नेन भाविमूर्तिप्रतिष्ठापनादि, चेतिनिरूपणनामा द्व्यशीत्यधिकपञ्चशततमोऽध्यायः ।। ५८२ ।।