तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अश्वमेधे द्वितीयमहस्तृतीयं च।

3.9.1

प्रजापतिरश्वमेधमसृजत  । सोऽस्मात्सृष्टोऽपाक्रामत्  ।  तमष्टादशिभिरनुप्रायुङ्क्त  । तमाप्नोत्  ।  तमाप्त्वाष्टादशिभिरवारुन्ध  । यदष्टादशिन आलभ्यन्ते  ।  यज्ञमेव तैराप्त्वा यजमानोऽवरुन्धे  । संवत्सरस्य वा एषा प्रतिमा  ।  यदष्टादशिनः ।  द्वादश मासाः पञ्चृतवः  १

संवत्सरोऽष्टादशः  । यदष्टादशिन आलभ्यन्ते  ।  संवत्सरेमेव तैराप्त्वा यजमानोऽवरुन्धे  । अग्निष्ठेऽन्यान्पशूनुपाकरोति ।  इतरेषु यूपेष्वष्टादशि-नोऽजामित्वाय  ।  नवनवालभ्यन्ते सवीर्यत्वाय  । यदारण्यैः सꣳ स्थापयेत्  ।  व्यवस्येतां पितापुत्रौ  । व्यध्वानः क्रामेयुः  ।  विदूरं ग्रामयोर्ग्रामान्तौ स्याताम्  २

ऋक्षीकाः पुरुषव्याघ्राः परिमोषिणि आव्याधिनीस्तस्करा अरण्येष्वाजायेरन् ।  तदाहुः  । अपशवो वा एते  ।  यदारण्याः ।  यदारण्यैः सꣳ स्थापयेत्  । क्षिप्रे यजमानमरण्यं मृतꣳ हरेयुः  ।  अरण्यायतना ह्यारण्याः पशव इति  । यत्पशून्नालभेत  ।  अनवरुद्धा अस्य पशवः स्युः  । यत्पर्यग्निकृतानुत्सृजेत्  ३

यज्ञवैशसं कुर्यात्  । यत्पशूनालभते  ।  तेनैव पशूनवरुन्धे  । यत्पर्यग्नि-कृतानुत्सृजत्ययज्ञवैशसाय ।  अवरुद्धा अस्य पशवो भवन्ति  ।  न यज्ञवैशसं भवति  ।  न यजमानमरण्यं मृतꣳ  हरन्ति ।  ग्राम्यैः सꣳ स्थापयति  ।  एते वै पशवः क्षेमो नाम  ।  सं पितापुत्राववस्यतः  । समध्वानः क्रामन्ति  ।  समन्तिकं ग्रामयोर्ग्रामातौ भवतः  ।  नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस्तस्करा अरण्येष्वाजायन्ते  ४

3.9.2

प्रजापतिरकामयतोभौ लोकाववरुन्धीयेति  ।  स एतानुभयान्पशूनपश्यत्  । ग्राम्याꣳ श्चारण्याꣳ श्च  ।  तानालभत ।  तैर्वै स उभौ लोकाववारुन्ध  । ग्राम्यैरेव पशुभिरिमं लोकमवारुन्ध ।  आरण्यैरमुम्  । यद्ग्राम्यान्पशूनालभते  ।  इममेव तैर्लोकमवरुन्धे  ।  यदारण्यान्  १

अमुं तैः  । अनवरुद्धो वा एतस्य संवत्सर इत्याहुः ।  य इतेतश्चातुर्मास्यानि संवत्सरं प्रयुङ्क्त इति  ।  एतावान्वै संवत्सरः  । यच्चातुर्मास्यानि  ।  यदेते चातुर्मास्याः पशव आलभ्यन्ते  । प्रत्यक्षमेव तैः संवत्सरं यजमानोऽवरुन्धे ।  वि वा एष प्रजया पशुभिरृध्यते  ।  यः संवत्सरं प्रयुङ्क्ते  । संवत्सरः सुवर्गो लोकः  २

सुवर्गं तु लोकं नापराध्नोति  । प्रजा वै पशव एकादशिनी ।यदेत ऐकादशिनाः पशव आलभ्यन्ते  । साक्षादेव प्रजां पशून्यजमानोऽवरुन्धे ।  प्रजापति-र्विराजमसृजत  ।  सा सृष्टाश्वमेधं प्रविशत्  ।  तां दशिभिरनु प्रायुङ्क्त  । तामाप्नोत्  ।  तामाप्त्वा दशिभिरवारुन्ध  । यद्दशिन आलभ्यन्ते  ३

विराजमेव तैराप्त्वा यजमानोऽवरुन्धे  । एकादश दशत आलभ्यन्ते  ।  एकादशाक्षरा त्रिष्टुप्  । त्रैष्टुभाः पशवः  ।  पशूनेवावरुन्धे  । वैश्वदेवो वा अश्वः  ।  नानादेवत्याः पशवो भवन्ति  । अश्वस्य सर्वत्वाय  ।  नानारूपा भवन्ति  । तस्मान्नानारूपाः पशवः  ।  बहुरूपा भवन्ति  । तस्माद्बहुरूपाः पशवः समृद्ध्यै  ४

3.9.3

अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते  ।  अमुष्मा आरण्याः  । यद्ग्राम्यान्पशूनालभते  ।  इममेव तैर्लोकमवरुन्धे  । यदारण्यान्  ।  अमुं तैः ।  उभयान्पशूनालभते  । ग्राम्याꣳ श्चारण्याꣳ श्च  ।  उभयोर्लोकयोरवरुद्ध्यै  । उभयान्पशूनालभते  १

ग्राम्याꣳ श्चारण्याꣳ श्च  । उभयस्यान्नाद्यस्यावरुद्ध्यै ।  उभयान्पशूनालभते  । ग्राम्याꣳ श्चारण्याꣳ श्च  ।  उभयेषां पशूनामवरुद्ध्यै  । त्रयस्त्रयो भवन्ति  ।  त्रय इमे लोकाः  ।  एषां लोकानामाप्त्यै  ।  ब्रह्मवादिनो वदन्ति  । कस्मात्सत्यात्  २

अस्मिꣳल्लोके बहवः कामा इति  । यत्समानीभ्यो देवताभ्योऽन्येऽन्ये पशव आलभ्यन्ते  । अस्मिन्नेव तल्लोके कामान्दधाति ।  तस्मादस्मिꣳ ल्लोके बहवः कामाः  । त्रयाणांत्रयाणाꣳ  सह वपा जुहोति  । त्र्यावृतो वै देवाः  ।  त्र्यावृत इमे लोकाः  ।  एषां लोकानामाप्त्यै  ।  एषां लोकानां क्ळ्प्त्यै  । पर्यग्निकृ-तानारण्यानुत्सृजन्त्यहिꣳ सायै ३

3.9.4

युञ्जन्ति ब्रध्नमित्याह  ।  असौ वा आदित्यो ब्रध्नः  ।  आदित्यमेवास्मै युनक्ति  । अरुषमित्याह  ।  अग्निर्वा अरुषः  । अग्निमेवास्मै युनक्ति  ।  चरन्तमित्याह ।  वायुर्वै चरन्  । वायुमेवास्मै युनक्ति  ।  परितस्थुष इत्याह  १

इमे वै लोकाः परितस्थुषः  । इमनेवास्मै लोकान्युनक्ति  ।  रोचन्ते रोचना दिवीत्याह  । नक्षत्राणि वै रोचना दिवि  ।  नक्षत्राण्येवास्मै रोचयति  । युञ्जन्त्यस्य काम्येत्याह  ।  कामानेवास्मै युनक्ति  ।  हरी विपक्षसेत्याह  ।  इमे वै हरी विपक्षसा  ।  इमे एवास्मै युनक्ति  २

शोणा धृष्णू नृवाहसेत्याह  । अहोरात्रे वै नृवाहसा  ।  अहोरात्रे एवास्मै युनक्ति  ।  एता एवास्मै देवता युनक्ति  ।  सुवर्गस्य लोकस्य समष्ट्यै  । केतुं कृण्वन्नकेतव इति ध्वजं प्रतिमुञ्चति  ।  यश एवैनꣳ  राज्ञां गमयति  । जीमूतस्येव भवति प्रतीकमित्याह  ।  यथायजुरेवैतत् ।  ये ते पन्थानः सवितः पूर्व्यास इत्यध्वर्युर्यजमानं वाचयत्यभिजित्यै  ३

परा वा एतस्य यज्ञ एति  ।  यस्य पशुरुपाकृतोऽन्यत्र वेद्या एति  ।  एतꣳ स्तोतरेतेन पथा पुनरश्वमावर्तयासि न इत्याह  । वायुर्वै स्तोता  ।  वायुमेवास्य परस्ताद्दधात्यावृत्त्यै  ।  यथा वै हविषो गृहीतस्य स्कन्दति  ।  एवं वा एतदश्वस्य स्कन्दति  । यदस्योपाकृतस्य लोमानि शीयन्ते ।  यद्वालेषु काचानावयन्ति  ।  लोमान्येवास्य तत्संभरन्ति  ४

भूर्भुवः सुवरिति प्राजापत्याभिरावयन्ति  । प्राजापत्यो वा अश्वः  ।  स्वयैवैनं देवतया समर्धयन्ति  । भूरिति महिषी ।भुव इति वावाता ।  सुवरिति परिवृक्ती ।एषां लोकानामभिजित्यै  ।  हिरण्ययाः काचा भवन्ति  । ज्योतिर्वै हिरण्यम्  ।  राष्ट्रमश्वमेधः  ५

ज्योतिश्चैवास्मै राष्ट्रं च समीची दधाति  ।  सहस्रं भवन्ति ।  सहस्रसंमितः सुवर्गो लोकः  । सुवर्गस्य लोकस्याभिजित्यै  ।  अप वा एतस्मात्तेज इन्द्रियं पशवः श्रीः क्रामन्ति  ।  योऽश्वमेधेन यजते  । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति महिष्यभ्यनक्ति  ।  तेजो वा आज्यम्  ।  तेजो गायत्री ।तेजसैवास्मै तेजोऽवरुन्धे  ६

रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसेति वावाता  ।  तेजो वा आज्यम्  । इन्द्रियं त्रिष्टुप्  ।  तेजसैवास्मा इन्द्रियमवरुन्धे  । आदित्यास्त्वाञ्जन्तु जागतेन छन्दसेति परिवृक्ती । तेजो वा आज्यम्  ।  पशवो जगती । तेजसैवास्मै पशूनवरुन्धे  ।  पत्नयोऽभ्यञ्जन्ति  । श्रिया वा एतद्रूपम्  ७

यत्पत्नयः  । श्रियमेवास्मिन्तद्दधति  ।  नास्मात्तेज इन्द्रियं पशवः श्रीरपकामन्ति  । लाजी३ञ्शाची३न्यशो ममा३ꣳ! इत्यतिरिक्तमन्नमश्वायोपाहरन्ति ।  प्रजामेवान्नादीं कुर्वते  । एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापत इत्याह  । प्रजा-यामेवान्नाद्यं दधते  ।  यदि नावजिघ्रेत्  । अग्निः पशुरासीदित्यवघ्रापयेत् ।  अव हैव जिघ्रति  ।  आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते  ।  एषां लोकानामभिजित्यै  ।  समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति सरूपत्वाय  ८

3.9.5

तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते  ।  योऽश्वमेधेन यजते  ।  होता च ब्रह्मा च ब्रह्मोद्यं वदतः  ।  तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः  । दक्षिणतो ब्रह्मा भवति  ।  दक्षिणतआयतनो वै ब्रह्मा  । बार्हस्पत्यो वै ब्रह्मा  ।  ब्रह्मवर्चसमेवास्य दक्षिणतो दधाति  । तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः ।  उत्तरतो होता भवति  १

उत्तरतआयतनो वै होता  । आग्नेयो वै होता  ।  तेजो वा अग्निः  ।  तेज एवास्योत्तरतो दधाति  ।  तस्मादुत्तरोऽर्धस्तेजस्वितरः  ।  यूपमभितो वदतः  ।  यजमानदेवत्यो वै यूपः  । यजमानमेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः  । किꣳ स्विदासीत्पूर्वचित्तिरित्याह ।  द्यौर्वै वृष्टिः पूर्वचित्तिः  २

दिवमेव वृष्टिमवरुन्धे  । किꣳ  स्विदासीद्बृहद्वय इत्याह  ।  अश्वो वै बृहद्वयः  ।  अश्वमेवावरुन्धे  । किꣳ  स्विदासीत्पिशङ्गिलेत्याह  । रात्रिर्वै पिशङ्गिला  ।  रात्रिमेवावरुन्धे  । किꣳ स्विदासीत्पिलिप्पिलेत्याह  ।  श्रीर्वै पिलिप्पिला  । अन्नाद्यमेवावरुन्धे  ३

कः स्विदेकाकी चरतीत्याह  ।  असौ वा आदित्य एकाकी चरति  ।  तेज एवावरुन्धे  ।  क उ स्विज्जायते पुनरित्याह  ।  चन्द्र मा वै जायते पुनः  । आयुरेवावरुन्धे  ।  किꣳ स्विद्धिमस्य भेषजमित्याह  ।  अग्निर्वै हिमस्य भेषजम्  । ब्रह्मवर्चसमेवावरुन्धे  ।  किꣳ स्विदावपनं महदित्याह  ४

अयं वै लोक आवपनं महत्  । अस्मिन्नेव लोके प्रतितिष्ठति ।  पृच्छामि त्वा परमन्तं पृथिव्या इत्याह  । वेदिर्वै परोऽन्तः पृथिव्याः ।  वेदिमेवावरुन्धे  । पृच्छामि त्वा भुवनस्य नाभिमित्याह ।  यज्ञो वै भुवनस्य नाभिः  । यज्ञमेवावरुन्धे  ।  पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह  ।  सोमो वै वृष्णो अश्वस्य रेतः  ।  सोमपीथमेवावरुन्धे  ।  पृच्छामि वाचः परमं व्योमेत्याह  ।  ब्रह्म वै वाचः परमं व्योम  । ब्रहम्वर्चसमेवावरुन्धे  ५

3.9.6

अप वा एतस्मात्प्राणाः क्रामन्ति  ।  योऽश्वमेधेन यजते  । प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति  । प्राणानेवास्मिन्दधाति  ।  नास्मात्प्राणा अपक्रामन्ति  । अवन्तीः स्थावन्तीस्त्वावन्तु ।  प्रियं त्वा प्रियाणाम्  । वर्षिष्ठमाप्यानाम्  ।  निधीनां त्वा निधिपतिꣳ  हवामहे वसो ममेत्याह  । अपैवास्मै तद्ध्नुवते  १

अथो धुवन्त्येवैनम्  ।  अथो न्येवास्मै ह्नुवते  ।  त्रिः परियन्ति त्रय इमे लोकाः  ।  एभ्य एवैनं लोकेभ्यो धुवते  ।  त्रिः पुनः परियन्ति  । षट्संपद्यन्ते  ।  षड्वा ऋतवः ।  ऋतुभिरेवैनं धुवते  ।  अप वा एतेभ्यः प्राणाः क्रामन्ति  २

ये यज्ञे धुवनं तन्वते  । नवकृत्वः परियन्ति  ।  नव वै पूरुषे प्राणाः  । प्राणानेवात्मन्दधते  ।  नैभ्यः प्राणा अपक्रामन्ति  । अम्बे अम्बाल्यम्बिक इति पत्नीमुदानयति ।  अह्वतैवैनाम्  । सुभगे काम्पीलवासिनीत्याह  ।  तप एवैनामुपनयति  ।  सुवर्गे लोके सं प्रोर्ण्वाथामित्याह  ३

सुवर्गमेवैनां लोकं गमयति  । आहमजानि गर्भधमा त्वमजासि गर्भधमित्याह ।  प्रजा वै पशवो गर्भः  ।  प्रजामेव पशूनात्मन्धत्ते  ।  देवा वा अश्वमेधे पवमाने  । सुवर्गं लोकं न प्राजानन्  ।  तमश्वः प्राजानात्  । यत्सूचीभिरसिपथान्कल्पयन्ति  ।  सुवर्गस्य लोकस्य प्रज्ञात्यै  । गायत्री त्रिष्टुब्जगतीत्याह  ४

यथायजुरेवैतत्  । त्रय्यः सूच्यो भवन्ति  ।  अयस्मय्यो रजता हरिण्यः  ।  अस्य वै लोकस्य रूपमयस्मय्यः  ।  अन्तरिक्षस्य रजताः  ।  दिवो हरिण्यः  ।  दिशो वा अयस्मय्यः  । अवान्तरदिशा रजताः  ।  ऊर्ध्वा हरिण्यः  ।  दिश एवास्मै कल्पयति  ।  कस्त्वा छ्यति कस्त्वा विशास्तीत्याहाहिꣳसायै  ५

3.9.7

अप वा एतस्माच्छ्री राष्ट्रं क्रामति  ।  योऽश्वमेधेन यजते  । ऊर्ध्वामेनामुच्छ्रयतादित्याह ।  श्रीर्वै राष्ट्रमश्वमेधः  । श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति ।  वेणुभारं गिराविवेत्याह  । राष्ट्रं वै भारः  ।  राष्ट्रमेवास्मै पर्यूहति  । अथास्या मध्यमेधतामित्याह  ।  श्रीर्वै राष्ट्रस्य मध्यम्  १

श्रियमेवावरुन्धे  ।  शीते वाते पुनन्निवेत्याह  ।  क्षेमो वै राष्ट्रस्य शीतो वातः  । क्षेममेवावरुन्धे  ।  यद्धरिणी यवमत्तीत्याह  । विड्वै हरिणी ।राष्ट्रं यवः  ।  विशं चैवास्मै राष्ट्रं च समीची दधाति  ।  न पुष्टं पशु मन्यत इत्याह  ।  तस्माद्राजा पशून्न पुष्यति  २

शूद्रा  यदर्यजारा न पोषाय धनायतीत्याह  । तस्माद्वैशीपूत्रं नाभिषिञ्चन्ते  ।  इयं यका शकुन्तिकेत्याह  । विड्वै शकुन्तिका  ।  राष्ट्रमश्वमेधः  ।  विशं चैवास्मै  ।  राष्ट्रं च समीची दधाति  । आहलमिति सर्पतीत्याह  ।  तस्माद्राष्ट्राय विशः सर्पन्ति  ।  आहतं गभे पस इत्याह  ।  विड्वै गभः ३

राष्ट्रं पसः  । राष्ट्रमेव विश्याहन्ति  ।  तस्माद्राष्ट्रं विशं घातुकम्  ।  माता च ते पिता च त इत्याह  ।  इयं वै माता ।  असौ पिता  । आभ्यामेवैनं परिददाति  ।  अग्रं वृक्षस्य रोहत इत्याह  । श्रीर्वै वृक्षस्याग्रम्  ।  श्रियमेवावरुन्धे  ४

प्रसुलामीति ते पिता गभे मुष्टिमतꣳसयदित्याह  ।  विड्वै गभः ।  राष्ट्रं मुष्टिः  । राष्ट्रमेव विश्याहन्ति  ।  तस्माद्राष्ट्रं विश घातुकम्  ।  अप वा एतेभ्यः प्राणाः क्रामन्ति  ।  ये यज्ञेऽपूतं वदन्ति  । दधिक्राव्णो अकारिषमिति सुरभिमतीमृचं वदन्ति  । प्राणा वै सुरभयः  ।  प्राणानेवात्मन्दधते  । नैभ्यः प्राणा अपक्रामन्ति  ।  आपो हि ष्ठा मयोभुव इत्यद्भिर्मार्जयन्ते  ।  आपो वै सर्वा देवताः  ।  देवताभिरेवात्मानं पवयन्ते  ५

3.9.8

प्रजापतिः प्रजाः सृष्ट्वा प्रेणानुप्राविशत्  । ताभ्यः पुनः संभवितुं नाशक्नोत् ।  सोऽब्रवीत्  । ऋध्नवदित्सः  ।  यो मेऽतः पुनः संभरदिति  ।  तं देवा अश्वमेधेनैव समभरन्  ।  ततो वै त आर्ध्नुवन्  । योऽश्वमेधेन यजते  ।  प्रजापतिमेव सम्भरत्यृध्नोति  । पुरुषमालभते  १

वैराजो वै पुरुषः  ।  विराजमेवालभते  ।  अथो अन्नं वै विराट्  ।  अन्नमेवावरुन्धे  । अश्वमालभते  ।  प्राजापत्यो वा अश्वः  । प्रजापतिमेवालभते  ।  अथो श्रीर्वा एकशफम्  । श्रियमेवावरुन्धे  ।  गामालभते २

यज्ञो वै गौः  । यज्ञमेवालभते  ।  अथो अन्नं वै गौः  । अन्नमेवावरुन्धे  ।  अजावी आलभते भूम्ने  ।  अथो पुष्टिर्वै भूमा  ।  पुष्टिमेवावरुन्धे  । पर्यग्निकृतं पुरुषं चारण्याꣳ श्चोत्सृजन्त्यहिꣳ सायै  ।  उभौ वा एतौ पशू आलभ्येते  ।  यश्चावमो यश्च परमः  । तेऽस्योभये यज्ञे बद्धाः  ।  अभीष्टा अभिप्रीताः  । अभिजिता अभिहुता भवन्ति  ।  नैनं दंक्ष्णवः पशवो यज्ञे बद्धाः  । अभीष्टा अभिप्रीताः  ।  अभिजिता अभिहुता हिꣳ सन्ति  । योऽश्वमेधेन यजते  ।  य उ चैनमेवं वेद  ३

3.9.9

प्रथमेन वा एष स्तोमेन राध्वा  । चतुष्टोमेन कृतेनायानामुत्तरेऽहन् ।  एकविꣳ शे प्रतिष्ठायां प्रतितिष्ठति  ।  एकविꣳ शात्प्रतिष्ठाया ऋतूनन्वारोहति  ।  ऋतवो वै पृष्ठानि  ।  ऋतवः संवत्सरः ।  ऋतुष्वेव संवत्सरे प्रतिष्ठाय  ।  देवता अभ्यारोहति  । शक्वरयः पृष्ठं भवन्त्यन्यदन्यच्छन्दः ।  अन्येऽन्ये वा एते पशव आलभ्यन्ते  १

उतेव ग्राम्याः  । उतेवारण्याः  ।  अहरेव रूपेण समर्धयति  ।  अथो अह्न एवैष बलिर्ह्रियते  ।  तदाहुः ।  अपशवो वा एते  । यदजावयश्चारण्याश्च  ।  एते वै सर्वे पशवः  । यद्गव्या इति  ।  गव्यान्पशूनुत्तमेऽहन्नालभते  २

तेनैवोभयान्पशूनवरुन्धे  । प्राजापत्या भवन्ति  ।  अनभिजितस्याभिजित्यै  । सौरीर्नव श्वेता वशा अनूबन्धा भवन्ति ।  अन्तत एव ब्रह्मवर्चसमवरुन्धे  ।  सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वन्द्विनः पशूनालभते  ।  अहोरात्राणामभिजित्यै  । पशुभिर्वा एष व्यृध्यते  ।  योऽश्वमेधेन यजते  ।  छगलं कल्माषं किकिदीविं विदीगयमिति त्वाष्ट्रान्पशूनालभते  । पशुभिरेवात्मानꣳ  समर्धयति  । ऋतुभिर्वा एष व्यृध्यते  ।  योऽश्वमेधेन यजते  । पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते ।  ऋतुभिरेवात्मानꣳ  समर्धयति ।  आ वा एष पशुभ्यो वृश्च्यते  । योऽश्वमेधेन यजते  ।  पर्यग्निकृता उत्सृजन्त्यनाव्रस्काय  ३

3.9.10

प्रजापतिरकामयत महानन्नादः स्यामिति  ।  स एतावश्वमेधे महिमानावपश्यत्  । तावगृह्णीत  ।  ततो वै स महानन्नादोऽभवत्  ।  यः कामयेत महानन्नादः स्यामिति  ।  स एतवश्वमेधे महिमानौ गृह्णीत  । महानेवान्नादो भवति  ।  यजमानदेवत्या वै वपा  ।  राजा महिमा  । यद्वपां महिम्नोभयतः परियजति  ।  यजमानमेव राज्येनोभयतः परिगृह्णाति  । पुरस्तात्स्वाहाकारा वा अन्ये देवाः ।  उपरिष्टात्स्वाहाकारा अन्ये  ।  ते वा एतेऽश्व एव मेध्य उभयेऽवरुध्यन्ते ।  यद्वपां महिम्नोभयतः परियजति  । तानेवोभयान्प्रीणाति  १

3.9.11

वैश्वदेवो वा अश्वः  ।  तं यत्प्राजापत्यं कुर्यात्  ।  या देवता अपिभागाः  ।  ता भागधेयेन व्यर्धयेत्  ।  देवताभ्यः समदं दध्यात्  । स्तेगान्दꣳ ष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरिति  । आज्यमवदानं कृत्वा प्रतिसंख्यायमाहुतीर्जुहोति  ।  या एव देवता अपिभागाः  ।  ता भागधेयेन समर्धयति  ।  न देवताभ्यः समदं दधाति  १

चतुर्दशैताननुवाकाञ्जुहोत्यनन्तरित्यै  । प्रयासाय स्वाहेति पञ्चदशम्  ।  पञ्चदश वा अर्धमासस्य रात्रयः  । अर्धमासशः संवत्सर आप्यते  ।  देवासुराः संयत्ता आसन्  । तेऽब्रुवन्नग्नयः स्विष्टकृतः ।  अश्वस्य मेध्यस्य वयमुद्धारमुद्धरामहै  ।  अथैतानभिभवामेति  ।  ते लोहितमुदहरन्त  ।  ततो देवा अभवन्  २

परासुराः  । यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै  । भवत्यात्मना  ।  परास्य भ्रातृव्यो भवति  । गोमृगकण्ठेन प्रथमामाहुतिं जुहोति ।  पशवो वै गोमृगः  । रुद्रो ऽग्निः स्विष्टकृत्  ।  रुद्रा देव पशूनन्तर्दधाति  ।  अथो यत्रैषाहुतिर्हूयते  ।  न तत्र रुद्र ः! पशूनभिमन्यते  ३

अश्वशफेन द्वितीयामाहुतिं जुहोति  । पशवो वा एकशफम्  ।  रुद्रो ऽग्निः स्विष्टकृत्  । रुद्रा देव पशूनन्तर्दधाति  ।  अथो यत्रैषाहुतिर्हूयते  ।  न तत्र रुद्रः पशूनभिमन्यते  ।  अयस्मयेन कमण्डलुना तृतीयामाहुतिं जुहोत्यायास्यो वै प्रजाः  ।  रुद्रो ऽग्निः स्विष्टकृत्  । रुद्रा देव प्रजा अन्तर्दधाति ।  अथो यत्रैषाहुतिर्हूयते  ।  न तत्र रुद्र ः! प्रजा अभिमन्यते  ४

3.9.12

अश्वस्य वा आलब्धस्य मेध उदक्रामत्  ।  तदश्वस्तोमीयमभवत्  । यदश्वस्तोमीयं जुहोति  ।  समेधमेवैनमालभते  । आज्येन जुहोति  ।  मेधो वा आज्यम्  । मेधोऽश्वस्तोमीयम्  ।  मेधेनैवास्मिन्मेधं दधाति  । षट्त्रिꣳ शतं जुहोति  ।  षट्त्रिꣳ शदक्षरा बृहती  १

बार्हताः पशवः  ।  सा पशूनां मात्रा  ।  पशूनेव मात्रया समर्धयति  ।  ता यद्भूयसीर्वा कनीयसीर्वा जुहुयात्  ।  पशून्मत्रया व्यर्धयेत्  । षट्त्रिꣳ शतं जुहोति  ।  षट्त्रिꣳ शदक्षरा बृहती  । बार्हताः पशवः  ।  सा पशूनां मात्रा  । पशूनेव मात्रया समर्धयति  २

अश्वस्तोमीयꣳ  हुत्वा द्विपदा जुहोति  । द्विपाद्वै पुरुषो द्विप्रतिष्ठः  ।  तदेनं प्रतिष्ठया समर्धयति  । तदाहुः  ।  अश्वस्तोमीयं पूर्वꣳ  होतव्या३ꣳ! द्विपदा३ इति  ।  अश्वो वा अश्वस्तोमीयम्  । पुरुषो द्विपदाः  ।  अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति  ।  तस्माद्द्विपाच्चतुष्पादमत्ति  ।  अथो द्विपद्येव चतुष्पदः प्रतिष्ठापयति  ।  द्विपदा हुत्वा  । नान्यामुत्तरामाहुतिं जुहुयात् ।  यदन्यामुत्तरामाहुतिं जुहुयात्  ।  प्र प्रतिष्ठायाश्च्यवेत  । द्विपदा अन्ततो जुहोति प्रतिष्ठित्यै ३

3.9.13

प्रजापतिरश्वमेधमसृजत  । सोऽस्मात्सृष्टोऽपाक्रामत्  ।  तं यज्ञक्रतुभिरन्वैच्छत्  ।  तं यज्ञक्रतुभिर्नान्वविन्दत्  ।  तमिष्टिभिरन्वैच्छत्  । तमिष्टिभिरन्वविन्दत्  ।  तदिष्टीनामिष्टित्वम्  । यत्संवत्सरमिष्टिभिर्यजते  ।  अश्वमेव तदन्विच्छति  । सावित्रियो भवन्ति  १

इयं वै सविता  ।  यो वा अस्यां नश्यति यो निलयते  ।  अस्यां वाव तं विन्दन्ति  ।  न वा इमाम्कश्चनेत्याहुः  ।  तिर्यङ्नोर्ध्वोऽत्येतुमर्हतीति  । यत्सावित्रियो भवन्ति  ।  सवितृप्रसूत एवैनमिच्छति  । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः  । यत्सायं धृतीर्जुहोति  ।  अश्वस्य यत्यै धृत्यै  २

यत्प्रातरिष्टिभिर्यजते  । अश्वमेव तदन्विच्छति  ।  यत्सायं धृतीर्जुहोति  । अश्वस्यैव यत्यै धृत्यै  ।  तस्मात्सायं प्रजाः क्षेम्या भवन्ति  । यत्प्रात-रिष्टिभिर्यजते  ।  अश्वमेव तदन्विच्छति  । तस्माद्दिवा नष्टैष एति  ।  यत्प्रात-रिष्टिभिर्यजते सायं धृतीर्जुहोति  ।  अहोरात्राभ्यामेवैनमन्विच्छति  ।  अथो अहोरात्राभ्यामेवास्मै योगक्षेमं कल्पयति ३

3.9.14

अप वा एतस्माच्छ्री राष्ट्रं क्रामति  ।  योऽश्वमेधेन यजते  । ब्राह्मणौ वीणागाथिनौ गायतः  ।  श्रिया वा एतद्रू पम्  । यद्वीणा  ।  श्रियमेवास्मिन्तद्धत्तः  ।  यदा खलु वै पुरुषः श्रियमश्नुते  ।  वीणास्मै वाद्यते  । तदाहुः  ।  यदुभौ ब्राह्मणौ गायेताम्  १

प्रभ्रꣳ शुकास्माच्छ्रीः स्यात्  । न वै ब्राह्मणे श्री रमत इति ।  ब्राह्मणोऽन्यो गायेत्  । राजन्योऽन्यः  ।  ब्रह्म वै ब्राह्मणः  । क्षत्रꣳ  राजन्यः  ।  तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति  । तदाहुः  ।  यदुभौ दिवा गायेताम्  । अपास्माद्रा ष्ट्रं क्रामेत्  २

न वा ब्राह्मणे राष्ट्रꣳ  रमत इति ।  यदा खलु वै राजा कामयते  ।  अथ ब्राह्मणं जिनाति  ।  दिवा ब्राह्मणो गायेत्  । नक्तꣳ  राजन्यः  । ब्रह्मणो वै रूपमहः  ।  क्षत्रस्य रात्रिः  ।  तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतो राष्ट्रं परिगृहीतं भवति  । इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्  । इष्टापूर्तं वै ब्राह्मणस्य  ३

इष्टापूर्तेनैवैनꣳ  स समर्धयति ।  इत्यजिना इत्ययुध्यथा इत्यमुꣳ  संग्राममहन्निति राजन्यः  । युद्धं वै राजन्यस्य  ।  युद्धेनैवैनꣳ  स समर्धयति ।  अक्ळ्प्ता वा एतस्यर्तव इत्याहुः  ।  योऽश्वमेधेन यजत इति  । तिस्रोऽन्यो गायति तिस्रोऽन्यः ।  षट्त्सम्पद्यन्ते  । षड्वा ऋतवः  ।  ऋतूनेवास्मै कल्पयतः  । ताभ्याꣳ  सꣳ स्थायाम्  । अनोयुक्ते च शते च ददाति  ।  शतायुः पुरुषः शतेन्द्रि यः  ।  आयुष्येवेन्द्रि ये प्रतितिष्ठति  ४

3.9.15

सर्वेषु वा एषु लोकेषु मृत्यवोऽन्वायत्ताः  ।  तेभ्यो यदाहुतीर्न जुहुयात्  । लोकेलोक एनं मृत्युर्विन्देत् ।  मृत्यवे स्वाहा मृत्यवे स्वाहेत्यभिपूर्वमा-हुतीर्जुहोति  ।  लोकाल्लोकादेव मृत्युमवयजते  ।  नैनं लोकेलोके मृत्यु-र्विन्दति  ।  यदमुष्मै स्वाहामुष्मै स्वाहेति जुह्वत्संचक्षीत  ।  बहुं मृत्युममित्रं कुर्वीत  । मृत्यवे स्वाहेत्येकस्मा एवैकां जुहुयात् ।  एको वा अमुष्मिꣳ ल्लोके मृत्युः  १

अशनयामृत्युरेव  । तमेवामुष्मिꣳ ल्लोकेऽवयजते  ।  भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति  । भ्रूणहत्यामेवावयजते  ।  तदाहुः ।  यद्भ्रूणहत्यापात्र्! याथ  । कस्माद्यज्ञेऽपि क्रियत इति  ।  अमृत्युर्वा अन्यो भ्रूणहत्याया इत्याहुः  । भ्रूणहत्या वाव मृत्युरिति  ।  यद्भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति  २

मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा  ।  भ्रूणघ्ने भेषजं करोति  । एताꣳ  ह वै मुण्डिभ औदन्यवः  ।  भ्रूणहत्यायै प्रायश्चित्तिं विदां चकार ।  यो हास्यापि प्रजायां ब्राह्मणꣳ  हन्ति ।  सर्वस्मै तस्मै भेषजं करोति  । जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति  । वरुणो वै जुम्बकः  ।  अन्तत एव वरुणमवयजते  । खलतेर्विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धन्जुहोति  । एतद्वै वरुणस्य रूपं ।रूपेणैव वरुणमवयजते ३

3.9.16

वारुणो वा अश्वः  ।  तं देवतया व्यर्धयति  ।  यत्प्राजापत्यं करोति  ।  नमो राज्ञे नमो वरुणायेत्याह  ।  वारुणो वा अश्वः  ।  स्वयैवैनं देवतया समर्धयति  ।  नमोऽश्वाय नमः प्रजापतय इत्याह  । प्राजापत्यो वा अश्वः  ।  स्वयैवैनं देवतया समर्धयति  । नमोऽधिपतय इत्याह  १

धर्मो वा अधिपतिः  । धर्ममेवावरुन्धे  ।  अधिपतिरस्यधिपतिं मा कुर्वधि-पतिरहं प्रजानां भूयासमित्याह  ।  अधिपतिमेवैनꣳ  समानानां करोति ।  मां धेहि मयि धेहीत्याह  । आशिषमेवैतामाशास्ते  ।  उपाकृताय स्वाहेत्युपाकृते जुहोति  । आलब्धाय स्वाहेति नियुक्ते जुहोति ।  हुताय स्वाहेति हुते जुहोति  ।  एषां लोकानामविजित्यै  २

प्र वा एष एभ्यो लोकेभ्यश्च्यवते  ।  योऽश्वमेधेन यजते  । आग्नेयमैन्द्राग्नमाश्विनम् ।  तान्पशूनालभते प्रतिष्ठित्यै  ।  यदाग्नेयो भवति  । अग्निः सर्वा देवताः  ।  देवता एवावरुन्धे  । ब्रह्म वा अग्निः  ।  क्षत्रमिन्द्रः  । यदैन्द्राग्नो भवति  ३

ब्रह्मक्षत्रे एवावरुन्धे  । यदाश्विनो भवति  ।  आशिषामवरुद्ध्यै  । त्रयो भवन्ति  ।  त्रय इमे लोकाः  । एष्वेव लोकेषु प्रतितिष्ठति  ।  अग्नयेऽꣳहोमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति  ।  दशाक्षरा विराट्  । अन्नं विराट्  ।  विराजैवान्नाद्यमवरुन्धे  । अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति सर्वत्वाय  ४

3.9.17

यद्यश्वमुपतपद्विन्देत्  । आग्नेयमष्टाकपालं निर्वपेत्  ।  सौम्यं चरुम् ।  सावित्रमष्टाकपालम्  । यदाग्नेयो भवति  ।  अग्निः सर्वा देवताः  । देवताभिरेवैनं भिषज्यति  ।  यत्सौम्यो भवति  ।  सोमो वा ओषधीनाꣳ  राजा  । याभ्य एवैनं विन्दति  १

ताभिरेवैनं भिषज्यति  । यत्सावित्रो भवति  ।  सवितृप्रसूत एवैनं भिषज्यति  । एताभिरेवैनं देवताभिर्भिषज्यति ।  अगदो हैव भवति  ।  पौष्णं चरुं निर्वपेत्  ।  यदि श्लोणः स्यात्  ।  पूषा वै श्लौण्यस्य भिषक्  ।  स एवैनं भिषज्यति  । अश्लोणो हैव भवति  २

रौद्रं  चरुं निर्वपेत्  ।  यदि महती देवताभिमन्येत  ।  एतद्देवत्यो वा अश्वः  । स्वयैवैनं देवतया भिषज्यति  ।  अगदो हैव भवति ।  वैश्वानरं द्वादशकपालं निर्वपेन्मृगाखरे यदि नागच्छेत्  ।  इयं वा अग्निर्वैश्वानरः  । इयमेवैनमर्चिभ्यां परिरोधमानयति ।  आ हैव सुत्यमहर्गच्छति  । यद्यधीयात्  ३

अग्नयेऽꣳहोमुचेऽष्टाकपालः  । सौर्यं पयः  ।  वायव्य आज्यभागः  । यजमानो वा अश्वः  ।  अꣳहसा वा एष गृहीतः  । यस्याश्वो मेधाय प्रोक्षितोऽध्येति ।  यदꣳहोमुचे निर्वपति  ।  अꣳहस एव तेन मुच्यते  ।  यजमानो वा अश्वः  । रेतसा वा एष व्यृध्यते  ४

यस्याश्वो मेधाय प्रोक्षितोऽध्येति  ।  सौर्यꣳ रेतः  ।  यत्सौर्यं पयो भवति  । रेतसैवैनꣳ  स समर्धयति ।  यजमानो वा अश्वः  । गर्भैर्वा एष व्यृध्यते  ।  यस्याश्वो मेधाय प्रोक्षितोऽध्येति  । वायव्या गर्भाः  ।  यद्वायव्य आज्यभागो भवति  ।  गर्भैरेवैनꣳ  स समर्धयति ।  अथो यस्यैषाश्वमेधे प्रायश्चितिः क्रियते  ।  इष्ट्वा वसीयान्भवति  ५

3.9.18

तदाहुः  । द्वादश ब्रह्मौदनान्त्सꣳस्थिते निर्वपेत् ।  द्वादशभिर्वेष्टिभिर्यजेतेति  । यदिष्टिभिर्यजेत  ।  उपनामुक एनं यज्ञः स्यात्  । पापीयाꣳस्तु स्यात्  ।  आप्तानि वा एतस्य छन्दाꣳ सि  ।  य ईजानः  । तानि क एतावदाशु पुनः प्रयुञ्जीतेति ।  सर्वा वै सꣳ स्थिते यज्ञे वागाप्यते  १

साप्ता भवति यातयाम्नी ।क्रूरीकृतेव हि भवत्यरुष्कृता  ।  सा न पुनः प्रयुज्येत्याहुः  । द्वादशैव ब्रह्मौदनान्त्सꣳ स्थिते निर्वपेत्  । प्रजापतिर्वा ओदनः  ।  यज्ञः प्रजापतिः  । उपनामुक एनं यज्ञो भवति  ।  न पापीयान्भवति  । द्वादश भवन्ति  ।  द्वादश मासाः संवत्सरः  । संवत्सर एव प्रतितिष्ठति  २

3.9.19

एष वै विभूर्नाम यज्ञः  । सर्वꣳ  ह वै तत्र विभु भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै प्रभूर्नाम यज्ञः  । सर्वꣳ  ह वै तत्र प्रभु भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वा ऊर्जस्वान्नाम यज्ञः  । सर्वꣳ  ह वै तत्रोर्जस्वद्भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै पयस्वान्नाम यज्ञः  १

सर्वꣳ  ह वै तत्र पयस्वद्भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै विधृतो नाम यज्ञः  । सर्वꣳ  ह वै तत्र विधृतं भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै व्यावृत्तो नाम यज्ञः  ।  सर्वꣳ  ह वै तत्र व्यावृत्तं भवति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै प्रतिष्ठितो नाम यज्ञः  । सर्वꣳ  ह वै तत्र प्रतिष्ठितं भवति  २

यत्रैतेन यज्ञेन यजन्ते  ।  एष वै तेजस्वी नाम यज्ञः  ।  सर्वꣳ ह वै तत्र तेजस्वि भवति  ।  यत्रैतेन यज्ञेन यजन्ते  ।  एष वै ब्रह्मवर्चसी नाम यज्ञः  ।  आ ह वै तत्र ब्राह्मणो ब्रह्मवर्चसी जायते  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वा अतिव्याधी नाम यज्ञः  ।  आ ह वै तत्र राजन्योऽतिव्याधी जायते  ।  यत्रैतेन यज्ञेन यजन्ते  ।  एष वै दीर्घो नाम यज्ञः  ।  दीर्घायुषो ह वै तत्र मनुष्या भवन्ति  । यत्रैतेन यज्ञेन यजन्ते  ।  एष वै क्ळ्प्तो नाम यज्ञः  । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः ।  यत्रैतेन यज्ञेन यजन्ते  ३

3.9.20

तार्प्येणाश्वꣳ  संज्ञपयन्ति ।  यज्ञो वै तार्प्यम्  । यज्ञेनैवैनꣳ  समर्धयन्ति  । यामेन साम्ना प्रस्तोतानूपतिष्ठते ।  यमलोकमेवैनं गमयति  । तार्प्ये च कृत्यधीवासे चाश्वꣳ संज्ञपयन्ति  ।  एतद्वै पशूनाꣳ रूपम्  ।  रूपेणैव पशूनवरुन्धे  । हिरण्यकशिपु भवति  ।  तेजसोऽवरुद्ध्यै  १

रुक्मो भवति  । सुवर्गस्य लोकस्यानुख्यात्यै ।  अश्वो भवति  । प्रजापतेराप्त्यै  ।  अस्य वै लोकस्य रूपं तार्प्यम्  । अन्तरिक्षस्य कृत्यधीवासः  ।  दिवो हिरण्यकशिपु  । आदित्यस्य रुक्मः  ।  प्रजापतेरश्वः ।  इममेव लोकं तार्प्येणाप्नोति  २

अन्तरिक्षं कृत्यधीवासेन  । दिवꣳ  हिरण्यकशिपुना  । आदित्यꣳ  रुक्मेण  । अश्वेनैव मेध्येन प्रजापतेः सायुज्यꣳ सलोकतामाप्नोति  ।  एतासामेव देवतानाꣳ  सायुज्यम् ।  सार्ष्टिताꣳ  समानलोकतामाप्नोति  । योऽश्वमेधेन यजते  ।  य उ चैनमेवं वेद  ३

3.9.21

आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त  ।  तेऽङ्गिरस आदित्येभ्यः  । अमुमादित्यमश्वꣳ  श्वेतं भूतं दक्षिणामनयन्  ।  तेऽब्रुवन् ।  यं नोऽनेष्ट  ।  स वर्योऽभूदिति  ।  तस्मादश्वꣳ सवर्येत्याह्वयन्ति  ।  तस्माद्यज्ञे वरो दीयते  । यत्प्रजापतिरालब्धोऽश्वोऽभवत्  ।  तस्मादश्वो नाम  १

यच्छ्वयदरुरासीत्  । तस्मादर्वा नाम  ।  यत्सद्यो वाजान्त्समजयत्  । तस्माद्वाजी नाम  ।  यदसुराणां लोकानादत्त  । तस्मादादित्यो नाम  ।  अग्निर्वा अश्वमेधस्य योनिरायतनम्  । सूर्योऽग्नेर्योनिरायतनम्  ।  यदश्वमेधेऽग्नौ चित्य उत्तरवेदिमुपवपति  ।  योनिमन्तमेवैनमायतनवन्तं करोति  २

योनिमानायतनवान्भवति  ।  य एवं वेद  ।  प्राणापानौ वा एतौ देवानाम्  । यदर्काश्वमेधौ  ।  प्राणापानावेवावरुन्धे  ।  ओजो बलं वा एतौ देवानाम्  ।  यदर्काश्वमेधौ ।  ओजो बलमेवावरुन्धे  । अग्निर्वा अश्वमेधस्य योनिरायतनम् ।  सूर्योऽग्नेर्योनिरायतनम्  । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिं चिनोति ।  तावर्काश्वमेधौ  । अर्काश्वमेधावेवावरुन्धे  ।  अथो अर्काश्वमेधयोरेव प्रतितिष्ठति  ३

3.9.22

प्रजापतिं वै देवाः पितरम्  ।  पशुं भूतं मेधायालभन्त  ।  तमालभ्योपावसन्  । प्रातर्यष्टास्मह इति  ।  एकं वा एतद्देवानामहः  । यत्संवत्सरः  ।  तस्मादश्वः पुरस्तात्संवत्सर आलभ्यते  । यत्प्रजापतिरालब्धोऽश्वोऽभवत् ।  तस्मादश्वः  । यत्सद्यो मेधोऽभवत्  १

तस्मादश्वमेधः  । वेदुकोऽश्वमाशुं भवति  ।  य एवं वेद ।  यद्वै तत्प्रजापतिरालब्धोऽश्वोऽभवत्  ।  तस्मादश्वः प्रजापतेः पशूनामनुरूपतमः  ।  आस्य पुत्रः प्रतिरूपो जायते  ।  य एवं वेद ।  सर्वाणि भूतानि सम्भृत्यालभते  ।  समेनं देवास्तेजसे ब्रह्मवर्चसाय भरन्ति  । योऽश्वमेधेन यजते  २

य उ चैनमेवं वेद  । एतद्वै तद्देवा एतां देवताम् ।  पशुं भूतं मेधायालभन्त  । यज्ञमेव  ।  यज्ञेन यज्ञमयजन्त देवाः  । कामप्रं यज्ञमकुर्वत  ।  तेऽमृतत्वमकामयन्त  । तेऽमृतत्वमगच्छन्  ।  योऽश्वमेधेन यजते  । देवानामेवायनेनैति  ३

प्राजापत्येनैव यज्ञेन यजते कामप्रेण  ।  अपुनर्मारमेव गच्छति  । एतस्य वै रूपेण पुरस्तात्प्राजापत्यमृषभं तूपरं बहुरूपमालभते  । सर्वेभ्यः कामेभ्यः  ।  सर्वस्याप्त्यै  । सर्वस्य जित्यै  ।  सर्वमेव तेनाप्नोति  । सर्वं जयति  ।  योऽश्वमेधेन यजते  ।  य उ चैनमेवं वेद  ४

3.9.23

यो वा अश्वस्य मेध्यस्य लोमनी वेद  । अश्वस्यैव मेध्यस्य लोमꣳ ल्लोमञ्जुहोति ।  अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी ।यत्सायम्प्रातर्जुहोति  ।  अश्वस्यैव मेध्यस्य लोमꣳ ल्लोमञ्जुहोति  । एतदनुकृति ह स्म वै पुरा  ।  अश्वस्य मेध्यस्य लोमꣳ ल्लोमञ्जुह्वति  ।  यो वा अश्वस्य मेध्यस्य पदे वेद  ।  अश्वस्यैव मेध्यस्य पदेपदे जुहोति  । दर्शपूर्णमासौ वा अश्वस्य मेध्यस्य पदे १ 

यद्दर्शपूर्णमासौ यजते  । अश्वस्यैव मेध्यस्य पदेपदे जुहोति ।  एतदनुकृति ह स्म वै पुरा  । अश्वस्य मेध्यस्य पदेपदे जुह्वति ।  यो वा अश्वस्य मेध्यस्य विवर्तनं वेद  । अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति  ।  असौ वा आदित्योऽश्वः  ।  स आहवनीयमागच्छति  । तद्विवर्तते  ।  यदग्निहोत्रं जुहोति  । अश्वस्यैव मेध्यस्य विवर्तनेविवर्तने जुहोति  । एतदनुकृति ह स्म वै पुरा  ।  अश्वस्य मेध्यस्य विवर्तनेविवर्तने जुह्वति  २