सामग्री पर जाएँ

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४२

विकिस्रोतः तः
← अध्यायः ४१ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →

ऋषय ऊचुः ।।
शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ।।
एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम् ।। १ ।।
सूत उवाच ।।
यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ।।
तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः ।। २ ।।
तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ।।
ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः ।। ३ ।।
पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ।।
व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम् ।। ४ ।।
संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ।।
नारायणेति विख्यातः प्रकृतिर्नारायणी मता ।। ५ ।।
तन्नाभिकमले यो वै जातस्स च पितामहः ।।
तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः ।।६।
उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ।।
महादेवेति विख्यातं निर्गुणेन शिवेन हि ।। ७ ।।
तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ।।
रुद्रो नाम स विख्यातो लोकानुग्रहकारकः ।। ८ ।।
ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ।।
स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः ।। ९ ।।
शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ।।
वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा ।। 4.42.१० ।।
समानरूपकर्माणौ समभक्तगतिप्रदौ ।।
समानाखिलसंसेव्यौ नानालीलाविहारिणौ ।।११।।
सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः।।
उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत् ।।१२।।
अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ।।
यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ।। ४३ ।।
ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ।।
इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम् ।।१४।।
सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ।।
स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन ।। १५ ।।
अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ।।
तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः ।। १६ ।।
रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ।।
अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी ।। १७ ।।
अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ।।
तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः ।।१८।।
ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ।।
तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना ।। १९ ।।
सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा।।
सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः ।।4.42.२०।।
तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः।।
स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः ।।२१।।
येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ।।
वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम् ।।२२।।
ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ।।
वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः ।।२३।।
स एव शंकरः साक्षात्सर्वानुग्रहकारकः ।।
कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः।।२४।।
अन्येषां कालमानं च कालस्य कलना न हि ।।
महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः ।।२५।।
तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते।।
सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया।।२६।।
न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ।।
स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः ।। २७ ।।
स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ।।
एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत् ।।२८।।
एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ।।
बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः ।। २९ ।।
एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ।।
जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः ।। 4.42.३० ।।
मुनय ऊचुः ।।
ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ।।
कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च ।। ३१ ।।
व्यास उवाच ।।
एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ।।
स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः ।।३२।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।।४२।।