सामग्री पर जाएँ

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४२ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ४३
वेदव्यासः

सूत उवाच ।।
श्रूयतामृषयः सर्वे शिवज्ञानं यथा श्रुतम्।।
कथयामि महागुह्यं पर मुक्तिस्वरूपकम् ।। १ ।।
कनारदकुमाराणां व्यासस्य कपिलस्य च ।।
एतेषां च समाजे तैर्निश्चित्य समुदाहृतम्।।२।।
इति ज्ञानं सदा ज्ञेयं सर्वं शिवमयं जगत् ।।
शिवः सर्वमयो ज्ञेयस्सर्वज्ञेन विपश्चिता ।।३।।
आब्रह्मतृणपर्यन्तं यत्किंचिद्दृश्यते जगत् ।।
तत्सर्वं शिव एवास्ति स देवः शिव उच्यते।।४।।
यदेच्छा तस्य जायेत तदा च क्रियते त्विदम् ।।
सर्वं स एव जानाति तं न जानाति कश्चन ।।५।।
रचयित्वा स्वयं तच्च प्रविश्य दूरतः स्थितः।।
न तत्र च प्रविष्टोसौ निर्लिप्तश्चित्स्वरूपवान् ।।६।।
यथा च ज्योतिषश्चैव जलादौ प्रतिबिंबता ।।
वस्तुतो न प्रवेशो वै तथैव च शिवः स्वयम्।।७।।
वस्तुतस्तु स्वयं सर्वं क्रमो हि भासते शुभः।।
अज्ञानं च मतेर्भेदो नास्त्यन्यच्च द्वयम्पुनः।।८।।
दर्शनेषु च सर्वेषु मतिभेदः प्रदर्श्यते।।
परं वेदान्तिनो नित्यमद्वैतं प्रतिचक्षते।।९।।
स्वस्याप्यंशस्य जीवांशो ह्यविद्यामोहितो वशः।।
अन्योऽहमिति जानाति तया मुक्तो भवेच्छिवः।।4.43.१०।।
सर्वं व्याप्य शिवः साक्षाद् व्यापकः सर्वजन्तुषु।।
चेतनाचेतनेशोपि सर्वत्र शंकरस्स्वयम् ।।११।।
उपायं यः करोत्यस्य दर्शनार्थं विचक्षणः।।
वेदान्तमार्गमाश्रित्य तद्दर्शनफलं लभेत्।।१२।।
यथाग्निर्व्यापकश्चैव काष्ठेकाष्ठे च तिष्ठति।।
यो वै मंथति तत्काष्ठं स वै पश्यत्यसंशयम्।।१३।।
भक्त्यादिसाधनानीह यः करोति विचक्षणः।।
स वै पश्यत्यवश्यं हि तं शिवं नात्र संशयः ।।१४।।
शिवःशिवःशिवश्चैव नान्यदस्तीति किंचन।।
भ्रान्त्या नानास्वरूपो हि भासते शङ्करस्सदा ।।१५।।
यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ।।
उपाधितो हि नानात्वं लभते शंकरस्तथा ।। १६ ।।
कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ।।
केवलं भ्रान्तिबुद्ध्यैव तदाभावे स नश्यति ।। १७ ।।
तदा बीजात्प्ररोहश्च नानात्वं हि प्रकाशयेत् ।।
अन्ते च बीजमेव स्यात्तत्प्ररोहश्च नश्यति ।। १८ ।।
ज्ञानी च बीजमेव स्यात्प्ररोहो विकृतीर्मता ।।
तन्निवृत्तौ पुनर्ज्ञानी नात्र कार्या विचारणा ।। १९ ।।
सर्वं शिवः शिवं सर्वं नास्ति भेदश्च कश्चन ।।
कथं च विविधं पश्यत्येकत्वं च कथं पुनः ।। 4.43.२० ।।
यथैकं चैव सूर्याख्यं ज्योतिर्नानाविधं जनैः ।।
जलादौ च विशेषेण दृश्यते तत्तथैव सः ।। २१ ।।
सर्वत्र व्यापकश्चैव स्पर्शत्वं न विबध्यते ।।
तथैव व्यापको देवो बध्यते न क्वचित्स वै ।। २२ ।।
साहंकारस्तथा जीवस्तन्मुक्तः शंकरः स्वयम् ।।
जीवस्तुच्छः कर्मभोगो निर्लिप्तः शंकरो महान् ।। २३ ।।
यथैकं च सुवर्णादि मिलितं रजतादिना ।।।४
अल्पमूल्यं प्रजायेत तथा जीवोऽप्यहंयुतः ।। २४ ।।
यथैव हि सुर्वणादि क्षारादेः शोधितं शुभम्।।
पूर्ववन्मूल्यतां याति तथा जीवोऽपि संस्कृतेः ।।२५।।
प्रथमं सद्गुरुं प्राप्य भक्तिभाव समन्वितः ।।
शिवबुद्ध्या करोत्युच्चैः पूजनं स्मरणादिकम् ।। २६ ।।
तद्बुध्या देहतो याति सर्वपापादिको मलः ।।
तदाऽज्ञानं च नश्येत ज्ञानवाञ्जायते यदा ।। २७ ।।
तदाहंकारनिर्मुक्तो जीवो निर्मलबुद्धिमान् ।।
शङ्करस्य प्रसादेन प्रयाति शङ्करताम्पुनः ।।२८।।
यथाऽऽदर्शस्वरूपे च स्वीयरूपं प्रदृश्यते ।।
तथा सर्वत्रगं शम्भु पश्यतीति सुनिश्चितम् ।।२९।।
जीवन्मुक्तस्य एवासौ देहः शीर्ण शिवे मिलेत् ।।
प्रारब्धवशगो देहस्तद्भिन्नो ज्ञानवान् मतः ।। 4.43.३० ।।
शुभं लब्ध्वा न हृष्येत कुप्येल्लब्ध्वाऽशुभं न हि ।।
द्वंद्वेषु समता यस्य ज्ञानवानुच्यते हि सः ।। ३१ ।।
आत्मयोगेन तत्त्वानामथवा च विवेकतः ।।
यथा शरीरतो यायाच्छरीरं मुक्तिमिच्छतः ।। ३२ ।।
सदाशिवो विलीयेत मुक्तो विरहमेव च ।।
ज्ञानमूलन्तथाध्यात्म्यं तस्य भक्तिश्शिवस्य च ।। ३३ ।।
भक्तेश्च प्रेम संप्रोक्तं प्रेम्णश्च श्रवणन्तथा ।।
श्रवणाच्चापि सत्संगस्सत्संगाच्च गुरुर्बुधः ।।३४।।
सम्पन्ने च तथा ज्ञाने मुक्तो भवति निश्चितम् ।।
इति चेज्ज्ञानवान्यो वै शंभुमेव सदा भजेत् ।।३५।।
अनन्यया च भक्त्या वै युक्तः शम्भुं भजेत्पुनः ।।
अन्ते च मुक्तिमायाति नात्र कार्या विचारणा ।।३६।।
अतोऽधिको न देवोऽस्ति मुक्तिप्राप्त्यै च शंकरात्।।
शरणं प्राप्य यश्चैव संसाराद्विनिवर्तते ।। ३७ ।।
इति मे विविधं वाक्यमृषीणां च समागतैः ।।
निश्चित्य कथितं विप्रा धिया धार्यं प्रयत्नतः ।। ३८ ।।
प्रथमं विष्णवे दत्तं शंभुना लिंगसन्मुखे ।।
विष्णुना ब्रह्मणे दत्तं ब्रह्मणा सनकादिषु ।। ३९ ।।
नारदाय ततः प्रोक्तं तज्ज्ञानं सनकादिभिः ।।
व्यासाय नारदेनोक्तं तेन मह्यं कृपालुना ।। 4.43.४० ।।
मया चैव भवद्भ्यश्च भवद्भिर्लोकहेतवे ।।
स्थापनीयं प्रयत्नेन शिवप्राप्तिकरं च तत् ।। ४१ ।।
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।।
गोपनीयं प्रयत्नेन किमन्यच्छ्रोतुमिच्छथ ।। ४२ ।।
व्यास उवाच ।।
एतच्छुत्वा तु ऋषय आनन्दं परमं गताः ।।
हर्षगद्गदया वाचा नत्वा ते तुष्टुवुर्मुहुः ।। ४३
ऋषय ऊचुः ।।
व्यासशिष्य नमस्तेऽस्तु धन्यस्त्वं शैवसत्तमः ।।
श्रावितं नः परं वस्तु शैवं ज्ञानमनुत्तमम् ।।४४।।
अस्माकं चेतसो भ्रान्तिर्गता हि कृपया तव ।।
सन्तुष्टाश्शिवसज्ज्ञानं प्राप्य त्वत्तो विमुक्तिदम् ।।४५।।
सूत उवाच ।।
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च।।
अभक्ताय महेशस्य न चाशुश्रुषवे द्विजाः।।४६।।
इतिहासपुराणानि वेदाच्छास्त्राणि चासकृत् ।।
विचार्य्योद्धृत्य तत्सारं मह्यं व्यासेन भाषितम् ।। ४७ ।।
एतच्छ्रुत्वा ह्येकवारं भवेत्पापं हि भस्मसात् ।।
अभक्तो भक्तिमाप्नोति भक्तस्य भक्तिवर्द्धनम्।।४८।।
पुनश्श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुते पुनः।।
तस्मात्पुनःपुनश्श्राव्यं भुक्तिमुक्तिफलेप्सुभिः।।४९।।
आवृत्तयः पंच कार्याः समुद्दिश्य फलं परम्।।
तत्प्राप्नोति न सन्देहो व्यासस्य वचनं त्विदम्।।4.43.५०।।
न दुर्लभं हि तस्यैव येनेदं श्रुतमुत्तमम् ।।
पंचकृत्वस्तदावृत्त्या लभ्यते शिवदर्शनम्।।५१।।
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ।।
इदं श्रुत्वा पंचकृत्वो धिया सिद्धिं परां गताः ।। ५२ ।।
श्रोष्यत्यद्यापि यश्चेदं मानवो भक्तितत्परः ।।
विज्ञानं शिवसंज्ञं वै भुक्तिं मुक्तिं लभेच्च सः ।। ५३ ।।
।। व्यास उवाच ।।
इति तद्वचनं श्रुत्वा परमानन्दमागताः ।।
समानर्चुश्च ते भूतं नानावस्तुभिरादरात ।।५४।।
नमस्कारैः स्तवैश्चैव स्वस्तिवाचनपूर्वकम्।।
आशीर्भिर्वर्द्धयामासुः संतुष्टाश्छिन्नसंशयाः ।। ५५ ।।
परस्परं च संतुष्टाः सूतस्ते च सुबुद्धयः ।।
शंभुं देवं परं मत्वा नमंति स्म भजंति च ।। ५६ ।।
एतच्छिवसुविज्ञानं शिवस्यातिप्रियं महत् ।।
भुक्तिमुक्तिप्रदं दिव्यं शिवभक्तिविवर्द्धनम् ।।५७।।
इयं हि संहिता पुण्या कोटिरुद्राह्वया परा।।
चतुर्थी शिव पुराणस्य कथिता मे मुदावहा ।।५८।।
एतां यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।
स भुक्त्वेहाखिलान्भोगानंते परगतिं लभेत् ।। ।। ५९ ।।
इति श्रीशिवमहापुराणे चतुर्विंशतिसाहस्र्यां वैयासिक्यां संहितायां तदन्तर्गतायां चतुर्थ्यां कोटिरुद्रसंहितायां ज्ञाननिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।

।। समाप्तेयं शिवमहापुराणान्तर्गतकोटिरुद्रसंहिता चतुर्थी ।। ।। ।। ।।