शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४१
← अध्यायः ४० | शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता) अध्यायः ४१ वेदव्यासः |
अध्यायः ४२ → |
ऋषय ऊचुः ।।
मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह ।।
अवस्था कीदृशी तत्र भवेदिति वदस्व नः ।। १ ।।
सूत उवाच ।।।
मुक्तिश्चतुर्विधा प्रोक्ता श्रूयतां कथयामि वः ।।
संसारक्लेशसंहर्त्री परमानन्ददायिनी ।। २ ।।
सारूप्या चैव सालोक्या सान्निध्या च तथा परा ।।
सायुज्या च चतुर्थी सा व्रतेनानेन या भवेत् ।।३।।
मुक्तेर्दाता मुनिश्रेष्ठाः केवलं शिव उच्यते।।
ब्रह्माद्या न हि ते ज्ञेया केवलं च त्रिवर्गदाः ।।४।।
ब्रह्माद्यास्त्रिगुणाधीशाश्शिवस्त्रिगुणतः परः ।।
निर्विकारी परब्रह्म तुर्यः प्रकृतितः परः ।।५।।।
ज्ञानरूपोऽव्ययः साक्षी ज्ञानगम्योऽद्वयस्स्वयम् ।।
कैवल्यमुक्तिदस्सोऽत्र त्रिवर्गस्य प्रदोऽपि हि ।।६।।
कैवल्याख्या पंचमी च दुर्लभा सर्वथा नृणाम् ।।
तल्लक्षणं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।। ७ ।।
उत्पद्यते यतः सर्वं येनैतत्पाल्यते जगत् ।।
यस्मिंश्च लीयते तद्धि येन सर्वमिदं ततम् ।। ८ ।।
तदेव शिवरूपं हि पठ्यते च मुनीश्वराः ।।
सकलं निष्कलं चेति द्विविधं वेदवर्णितम् ।। ९ ।।
विष्णुना तच्च न ज्ञातं ब्रह्मणा न च तत्तथा ।।
कुमाराद्यैश्च न ज्ञातं न ज्ञातं नारदेन वै ।।4.41.१०।।
शुकेन व्यास पुत्रेण व्यासेन च मुनीश्वरैः।
तत्पूर्वैश्चाखिलैर्देवैर्वेदैः शास्त्रैस्तथा न हि।।११।।
सत्यं ज्ञानमनंतं च सच्चिदानन्दसंज्ञितम्।।
निर्गुणो निरुपाधिश्चाव्ययः शुद्धो निरंजनः ।।१२।।
न रक्तो नैव पीतश्च न श्वेतो नील एव च ।।
न ह्रस्वो न च दीर्घश्च न स्थूलस्सूक्ष्म एव च।।१३।।
यतो वाचो निवर्तंते अप्राप्य मनसा सह।।
तदेव परमं प्रोक्तं ब्रह्मैव शिवसंज्ञकम्।।१४।।
आकाशं व्यापकं यद्वत्तथैव व्यापकन्त्विदम्।।
मायातीतं परात्मानं द्वन्द्वातीतं विमत्सरम् ।।१५।।
तत्प्राप्तिश्च भवेदत्र शिवज्ञानोदयाद्ध्रुवम् ।।
भजनाद्वा शिवस्यैव सूक्ष्ममत्या सतां द्विजाः।।१६।।
ज्ञानं तु दुष्करं लोके भजनं सुकरं मतम् ।।
तस्माच्छिवं च भजत मुक्त्यर्थमपि सत्तमाः ।। १७ ।।
शिवो हि भजनाधीनो ज्ञानात्मा मोक्षदः परः ।।
भक्त्यैव बहवः सिद्धा मुक्तिं प्रापुः परां मुदा ।।१८।।
ज्ञानमाता शंभुभक्तिर्मुक्तिभुक्तिप्रदा सदा ।।
सुलभा यत्प्रसादाद्धि सत्प्रेमांकुर लक्षणा ।। १९ ।।
सा भक्तिर्विविधा ज्ञेया सगुणा निर्गुणा द्विजाः ।।
वैधी स्वाभाविकी याया वरा सासा स्मृता परा ।। 4.41.२० ।।
नैष्ठिक्यनैष्ठिकीभेदाद्विविधैव हि कीर्तिता।।
षड्विधा नैष्ठिकी भेदाद्द्वितीयैकविधा स्मृता ।।२१।।
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।।
तयोर्बहुविधत्वाच्च विस्तारो न हि वर्ण्यते ।।२२।।
ते नवांगे उभे ज्ञेये श्रवणादिकभेदतः ।।
सुदुष्करे तत्प्रसादं विना च सुकरे ततः ।। २३ ।।
भक्तिज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ।।
तस्माद्भेदो न कर्तव्यस्तत्कर्तुस्सर्वदा सुखम् ।। २४ ।।
विज्ञानं न भवत्येव द्विजा भक्तिविरोधिनः ।।
शंभुभक्तिकरस्यैव भवेज्ज्ञानोदयो द्रुतम् ।।२५।।
तस्माद्भक्तिर्महेशस्य साधनीया मुनीश्वराः ।।
तयैव निखिलं सिद्धं भविष्यति न संशयः ।। २६ ।।
इति पृष्टं भवद्भिर्यत्तदेव कथितं मया ।।
तच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २७ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मुक्तिनिरूपणं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।