सामग्री पर जाएँ

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

ऋषय ऊचुः ।।
सूत ते वचनं श्रुत्वा परानन्दं वयं गताः ।।
विस्तरात्कथय प्रीत्या तदेव व्रतमुत्तमम् ।। १ ।।
कृतं पुरा तु केनेह सूतैतद्व्रतमुत्तमम् ।।
कृत्वाप्यज्ञानतश्चैव प्राप्तं किं फलमुत्तमम् ।। २ ।।
।। सूत उवाच ।।
श्रूयतामृषयस्सर्वे कथयामि पुरातनम्।।
इतिहासं निषादस्य सर्वपापप्रणाशनम् ।। ३ ।।
पुरा कश्चिद्वने भिल्लो नाम्ना ह्यासीद्गुरुद्रुहः।।
कुटुम्बी बलवान्क्रूरः क्रूरकर्मपरायणः ।।४।।
निरन्तरं वने गत्वा मृगान्हन्ति स्म नित्यशः ।।
चौर्य्यं च विविधं तत्र करोति स्म वने वसन् ।।५ ।।
बाल्यादारभ्य तेनेह कृतं किंचिच्छुभं नहि ।।
महान्कालो व्यतीयाय वने तस्य दुरात्मनः ।। ६ ।।
कदाचिच्छिवरात्रिश्च प्राप्तासीत्तत्र शोभना ।।
न दुरात्मा स्म जानाति महद्वननिवासकृत् ।। ७ ।।
एतस्मिन्समये भिल्लो मात्रा पित्रा स्त्रिया तथा।।
प्रार्थितश्च क्षुधाऽविष्टैर्भक्ष्यं देहि वनेचर।।८।।
इति संप्रार्थितः सोऽपि धनुरादाय सत्वरम्।।
जगाम मृगहिंसार्थं बभ्राम सकलं वनम्।।९।।
दैवयोगात्तदा तेन न प्राप्तं किंचिदेव हि।।
अस्तप्राप्तस्तदा सूर्यस्स वै दुःखमुपागतः।।4.40.१०।।
किं कर्तव्यं क्व गंतव्यं न प्राप्तं मेऽद्य किंचन।।
बालाश्च ये गृहे तेषां किं पित्रोश्च भविष्यति ।। ११ ।।
मदीयं वै कलत्रं च तस्याः किंचिद्भविष्यति।।
किंचिद्गृहीत्वा हि मया गंतव्यं नान्यथा भवेत्।।१२।।
इत्थं विचार्य स व्याधो जलाशय समीपगः।।
जलावतरणं यत्र तत्र गत्वा स्वयं स्थितः ।।१३।।
अवश्यमत्र कश्चिद्वै जीवश्चैवागमिष्यति।।
तं हत्वा स्वगृहं प्रीत्या यास्यामि कृतकार्यकः ।।१४।।
इति मत्वा स वै वृक्षमेकं बिल्वेतिसंज्ञकम्।।
समारुह्य स्थितस्तत्र जलमादाय भिल्लकः ।।१५।।
कदा यास्यति कश्चिद्वै कदा हन्यामहं पुनः।।
इति बुद्धिं समास्थाय स्थितोऽसौ क्षुत्तृषान्वितः ।। १६ ।।
तद्रात्रौ प्रथमे यामे मृगी त्वेका समागता ।।
तृषार्ता चकिता सा च प्रोत्फालं कुर्वती तदा ।। १७ ।।
तां दृष्ट्वा च तदा तेन तद्वधार्थमथो शरः ।।
संहृष्टेन द्रुतं विष्णो धनुषि स्वे हि संदधे ।। १८ ।।
इत्येवं कुर्वतस्तस्य जलं बिल्वदलानि च ।।
पतितानि ह्यधस्तत्र शिवलिंगमभूत्ततः ।।१९।।
यामस्य प्रथमस्यैव पूजा जाता शिवस्य च ।।
तन्महिम्ना हि तस्यैव पातकं गलितन्तदा ।।4.40.२०।।
तत्रत्यं चैव तच्छब्दं श्रुत्वा सा हरिणी भिया ।।
व्याधं दृष्ट्वा व्याकुला हि वचनं चेदमब्रवीत्।।२१।।
।।मृग्युवाच ।।
किं कर्तुमिच्छसि व्याध सत्यं वद ममाग्रतः ।।
तच्छुत्वा हरिणीवाक्यं व्याधो वचनमब्रवीत् ।।२२।।
।।व्याध उवाच।।
कुटुम्बं क्षुधितं मेऽद्य हत्वा त्वां तर्पयाम्यहम्।।
दारुणं तद्वचश्श्रुत्वा दृष्ट्वा तं दुर्द्धरं खलम्।।२३।।
किं करोमि क्व गच्छामि ह्युपायं रचयाम्यहम् ।।
इत्थं विचार्यं सा तत्र वचनं चेदमब्रवीत् ।। २४ ।।
।। मृग्युवाच ।।
मन्मांसेन सुखं ते स्याद्देहस्यानर्थकारिणः ।।
अधिकं किं महत्पुण्यं धन्याहं नात्र संशयः ।। २५ ।।
उपकारकरस्यैव यत्पुण्यं जायते त्विह ।।
तत्पुण्यं शक्यते नैव वक्तुं वर्षशतैरपि ।। २५ ।।
परं तु शिशवो मेऽद्य वर्तंते स्वाश्रमेऽखिलाः ।।
भगिन्यै तान्समर्प्यैव प्रायास्ये स्वामिनेऽथ वा ।। २७ ।।
न मे मिथ्यावचस्त्वं हि विजानीहि वनेचर ।।
आयास्येह पुनश्चेह समीपं ते न संशयः ।।२८।।
स्थिता सत्येन धरणी सत्येनैव च वारिधिः ।।
सत्येन जलधाराश्च सत्ये सर्वम्प्रतिष्ठितम् ।।२९।।
।। सूत उवाच ।।
इत्युक्तोऽपि तया व्याधो न मेने तद्वचो यदा।।
तदा सुविस्मिता भीता वचनं साब्रवीत्पुनः ।। 4.40.३० ।।
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि शपथं हि करोम्यहम् ।।
आगच्छेयं यथा ते न समीपं स्वगृहाद्गता ।। ३१ ।।
ब्राह्मणो वेदविक्रेता सन्ध्याहीनस्त्रिकालकम्।।
स्त्रियस्स्वस्वामिनो ह्याज्ञां समुल्लंघ्य क्रियान्विताः ।। ३२ ।।
कृतघ्ने चैव यत्पापं तत्पापं विमुखे हरे ।।
द्रोहिणश्चैव यत्पापं तत्पापं धर्मलंघने ।।३३।।
विश्वासघातके तच्च तथा वै छलकर्तरि ।।
तेन पापेन लिम्पामि यद्यहं नागमे पुनः ।। ३४ ।।
इत्याद्यनेकशपथान्मृगी कृत्वा स्थिता यदा ।।
तदा व्याधस्य विश्वस्य गच्छेति गृहमब्रवीत् ।। ३५ ।।
मृगी हृष्टाजलं पीत्वा गता स्वाश्रममण्डलम् ।।
तावच्च प्रथमो यामस्तस्य निद्रां विना गतः ।।३६।।
तदीया भगिनी या वै मृगी च परिभाविता ।।
तस्या मार्गं विचिन्वन्ती ह्याजगाम जलार्थिनी ।।३७।।
तां दृष्ट्वा च स्वयं भिल्लोऽकार्षीद्बाणस्य कर्षणम् ।।
पूर्ववज्जलपत्राणि पतितानि शिवोपरि ।।३८।।
यामस्य च द्वितीयस्य तेन शंभोर्महात्मनः ।।
पूजा जाता प्रसंगेन व्याधस्य सुखदायिनी ।। ३९ ।।
मृगी सा प्राह तं दृष्ट्वा किं करोषि वनेचर ।।
पूर्ववत्कथितं तेन तच्छ्रुत्वाह मृगी पुनः ।।4.40.४०।।
मृग्युवाच ।।
धन्याहं श्रूयतां व्याध सफलं देहधारणम् ।।
अनित्येन शरीरेण ह्युपकारो भविष्यति ।।४१।।
परन्तु मम बालाश्च गृहे तिष्ठन्ति चार्भकाः ।।
भर्त्रे तांश्च समर्प्यैव ह्यागमिष्याम्यहं पुनः ।।४२।।
व्याध उवाच ।।
त्वया चोक्तं न मन्येहं हन्मि त्वां नात्र संशयः ।।
तच्छुत्वा हरिणी प्राह शपथं कुर्वती हरे ।। ४३ ।।
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि नागच्छेयं पुनर्यदि ।।
वाचा विचलितो यस्तु सुकृतं तेन हारितम् ।। ४४ ।।
परिणीता स्त्रियं हित्वा गच्छत्यन्यां च यः पुमान् ।।
वेदधर्मं समुल्लंघ्य कल्पितेन च यो व्रजेत् ।। ४५ ।।
विष्णुभक्तिसमायुक्तः शिवनिन्दां करोति यः ।।
पित्रोः क्षयाहमासाद्य शून्यं चैवाक्रमेदिह ।। ४६ ।।
कृत्वा च पारतापं हि करोति वचनं पुनः ।।
तेन पापेन लिंपामि नागच्छेयं पुनर्यदि ।। ४७ ।।
सूत उवाच ।।।
इत्युक्तश्च तया व्याधो गच्छेत्याह मृगीं च सः ।।
सा मृगी च जलं पीत्वा हृष्टाऽगच्छत्स्वमाश्रमम् ।। ४८ ।।
तावद्द्वितीयो यामो वै तस्य निद्रां विना गतः ।।
एतस्मिन्समये तत्र प्राप्ते यामे तृतीयके ।। ४९ ।।
ज्ञात्वा विलंबं चकितस्तदन्वेषणतत्परः ।।।
तद्यामे मृगमद्राक्षीज्जलमार्गगतं ततः।।4.40.५०।।
पुष्टं मृगं च तं दृष्ट्वा हृष्टो वनचरस्स वै ।।
शरं धनुषि संधाय हन्तुं तं हि प्रचक्रमे ।।५१।।
तदैवं कुर्वतस्तस्य बिल्वपत्राणि कानिचित् ।।
तत्प्रारब्धवशाद्विष्णो पतितानि शिवोपरि ।। ५२ ।।
तेन तृतीययामस्य तद्रात्रौ तस्य भाग्यतः ।।
पूजा जाता शिवस्यैव कृपालुत्वं प्रदर्शितम् ।।५३।।
श्रुत्वा तत्र च तं शब्दं किं करोषीति प्राह सः ।।
कुटुम्बार्थमहं हन्मि त्वां व्याधश्चेति सोब्रवीत् ।। ५४ ।।
तच्छ्रुत्वा व्याधवचनं हरिणो हृष्टमानसः ।।
द्रुतमेव च तं व्याधं वचनं चेदमब्रवीत् ।। ५५ ।।
हरिण उवाच ।।
धन्योहं पुष्टिमानद्य भवत्तृप्तिर्भविष्यति ।।
यस्यांगं नोपकाराय तस्य सर्वं वृथा गतम् ।। ५६ ।।
यो वै सामर्थ्ययुक्तश्च नोपकारं करोति वै ।।
तत्सामर्थ्यं भवेद्व्यर्थं परत्र नरकं व्रजेत् ।। ५७ ।।
परन्तु बालकान् स्वांश्च समर्प्य जननीं शिशून् ।।
आश्वास्याप्यथ तान् सर्वानागमिष्याम्यहं पुनः ।। ५८ ।।
इत्युक्तस्तेन स व्याधो विस्मितोतीव चेतसि ।।
मनाक् शुद्धमनानष्टपापपुंजो वचोऽब्रवीत् ।। ५९ ।।
व्याध उवाच ।।
ये ये समागताश्चात्र तेते सर्वे त्वया यथा ।।
कथयित्वा गता ह्यत्र नायान्त्यद्यापि वंचकाः ।। 4.40.६० ।।
त्वं चापि संकटे प्राप्तो व्यलीकं च गमिष्यसि ।।
मम सञ्जीवनं चाद्य भविष्यति कथं मृग ।। ६१ ।।
मृग उवाच ।।
शृणु व्याध प्रवक्ष्यामि नानृतं विद्यते मयि ।।
सत्येन सर्वं ब्रह्माण्डं तिष्ठत्येव चराचरम् ।।६२।।
यस्य वाणी व्यलीका हि तत्पुण्यं गलितं क्षणात् ।।
तथापि शृणु वै सत्यां प्रतिज्ञां मम भिल्लक ।। ६३ ।।
सन्ध्यायां मैथुने घस्रे शिवरात्र्यां च भोजने ।।
कूटसाक्ष्ये न्यासहारे संध्याहीने द्विजे तथा ।। ६४ ।।
शिवहीनं मुखं यस्य नोपकर्ता क्षमोऽपि सन् ।।
पर्वणि श्रीफलस्यैव त्रोटनेऽभक्ष्यभक्षणे ।। ६५ ।।
असंपूज्य शिवं भस्मरहितश्चान्नभुक् च यः ।।
एतेषां पातकं मे स्यान्नागच्छेयं पुनर्यदि ।। ६६ ।।
शिव उवाच ।।
इति श्रुत्वा वचस्तस्य गच्छ शीघ्रं समाव्रज ।।
स व्याधेनैवमुक्तस्तु जलं पीत्वा गतो मृगः ।। ६७ ।।
ते सर्वे मिलितास्तत्र स्वाश्रमे कृतसुप्रणाः ।।
वृत्तांतं चैव तं सर्वं श्रुत्वा सम्यक् परस्परम्।।६८।।
गन्तव्यं निश्चयेनेति सत्यपाशेन यंत्रिताः ।।
आश्वास्य बालकांस्तत्र गन्तुमुत्कण्ठितास्तदा ।। ६९ ।।
मृगी ज्येष्ठा च या तत्र स्वामिनं वाक्यमब्रवीत् ।।
त्वां विना बालका ह्यत्र कथं स्थास्यंति वै मृग ।। 4.40.७० ।।
प्रथमं तु मया तत्र प्रतिज्ञा च कृता प्रभो ।।
तस्मान्मया च गन्तव्यं भवद्भ्यां स्थीयतामिह ।। ७१ ।।
इति तद्वचनं श्रुत्वा कनिष्ठा वाक्यमब्रवीत् ।।
अहं त्वत्सेविका चाद्य गच्छामि स्थीयतां त्वया।।७२।।
तच्छ्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ।।
भवत्यौ तिष्ठतां चात्र मातृतः शिशुरक्षणम्।।७३।।
तत्स्वामिवचनं श्रुत्वा मेनाते तन्न धर्मतः ।।
प्रोचुः प्रीत्या स्वभर्तारं वैधव्ये जीवितं च धिक् ।।७४।।
बालानाश्वास्य तांस्तत्र समर्प्य सहवासिनः ।।
गतास्ते सर्व एवाशु यत्रास्ते व्याधसत्तमः ।। ७५ ।।
ते बाला अपि सर्वे वै विलोक्यानुसमागताः ।।
एतेषां या गतिः स्याद्वै ह्यस्माकं सा भवत्विति ।। ७६ ।।
तान् दृष्ट्वा हर्षितो व्याधो बाणं धनुषि संदधे ।।
पुनश्च जलपत्राणि पतितानि शिवोपरि ।। ७७ ।।
तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ।।
तस्य पापन्तदा सर्वं भस्मसादभवत् क्षणात् ।। ७८ ।।
मृगी मृगी मृगश्चोचुश्शीघ्रं वै व्याधसत्तम ।।
अस्माकं सार्थकं देहं कुरु त्वं हि कृपां कुरु ।। ७९ ।।
।। शिव उवाच ।।
इति तेषां वचश्श्रुत्वा व्याधो विस्मयमागतः ।।
शिवपूजाप्रभावेण ज्ञानं दुर्लभमाप्तवान् ।। 4.40.८० ।।
एते धन्या मृगाश्चैव ज्ञानहीनास्सुसंमताः ।।
स्वीयेनैव शरीरेण परोपकरणे रताः ।।८१।।
मानुष्यं जन्म संप्राप्य साधितं किं मयाधुना ।।
परकायं च संपीड्य शरीरं पोषितं मया ।। ८२ ।।
कुटुम्बं पोषितं नित्यं कृत्वा पापान्यनेकशः ।।
एवं पापानि हा कृत्वा का गतिर्मे भविष्यति ।। २३ ।।
कां वा गतिं गमिष्यामि पातकं जन्मतः कृतम् ।।
इदानीं चिंतयाम्येवं धिग्धिक् च जीवनं मम ।। ८४ ।।
इति ज्ञानं समापन्नो बाणं संवारयंस्तदा ।।
गम्यतां च मृगश्रेष्ठा धन्याः स्थ इति चाब्रवीत् ।। ८५ ।।
शिव उवाच ।।
इत्युक्ते च तदा तेन प्रसन्नश्शंकरस्तदा ।।
पूजितं च स्वरूपं हि दर्शयामास संमतम् ।।८६।।
संस्पृश्य कृपया शंभुस्तं व्याधं प्रीतितोऽब्रवीत् ।।
वरं ब्रूहि प्रसन्नोऽस्मि व्रतेनानेन भिल्लक ।। ८७ ।।
 व्याधोऽपि शिवरूपं च दृष्ट्वा मुक्तोऽभवत्क्षणात्।।
पपात शिवपादाग्रे सर्वं प्राप्तमिति बुवन् ।।८८।।
शिवोऽपि सुप्रन्नात्मा नाम दत्वा गुहेति च ।।
विलोक्य तं कृपादृष्ट्या तस्मै दिव्यान्वरानदात् ।।।८९।।
शिव उवाच ।।
शृणु व्याधाद्य भोगांस्त्वं भुंक्ष्व दिव्यान्यथेप्सितान् ।।
राजधानीं समाश्रित्य शृंगवेरपुरे पराम् ।।4.40.९०।।
अनपाया वंशवृद्धिश्श्लाघनीयः सुरैरपि ।।
गृहे रामस्तव व्याध समायास्यति निश्चितम् ।।९१।।
करिष्यति त्वया मैत्री मद्भक्तस्नेहकारकः ।।
मत्सेवासक्तचेतास्त्वं मुक्तिं यास्यसि दुर्लभाम् ।।९२।।
एतस्मिन्नंतरे ते तु कृत्वा शंकरदर्शनम् ।।
सर्वे प्रणम्य सन्मुक्तिं मृगयोनेः प्रपेदिरे ।। ९३ ।।
विमानं च समारुह्य दिव्यदेहा गतास्तदा ।।
शिवदर्शनमात्रेण शापान्मुक्ता दिवं गताः ।। ९४ ।।
व्याधेश्वरः शिवो जातः पर्वते ह्यर्बुदाचले ।।
दर्शनात्पूजनात्सद्यो भुक्तिमुक्तिप्रदायकः ।।९५।।
व्याधोपि तद्दिनान्नूनं भोगान्स सुरसत्तम ।।
भुक्त्वा रामकृपां प्राप्य शिवसायुज्यमाप्तवान् ।। ९६ ।।
अज्ञानात्स व्रतञ्चैतत्कृत्वा सायुज्यमाप्तवान् ।।
किं पुनर्भक्तिसंपन्ना यान्ति तन्मयतां शुभाम्।।९७।।
विचार्य्य सर्वशास्त्राणि धर्मांश्चैवाप्यनेकशः।।
शिवरात्रिव्रतमिदं सर्वोत्कृष्टं प्रकीर्तितम्।।९८।।
व्रतानि विविधान्यत्र तीर्थानि विविधानि च ।।
दानानि च विचित्राणि मखाश्च विविधास्तथा ।।९९।।
तपांसि विविधान्येव जपाश्चैवाप्य नेकशः ।।
नैतेन समतां यान्ति शिवरात्रिव्रतेन च ।।4.40.१००।।
तस्माच्छुभतरं चैतत्कर्तव्यं हितमीप्सुभिः ।।
शिवरात्रिव्रतन्दिव्यं भुक्ति मुक्तिप्रदं सदा ।। १०१ ।।
एतत्सर्वं समाख्यातं शिवरात्रिव्रतं शुभम् ।।
व्रतराजेति विख्यातं किमन्यच्छ्रोतुमिच्छसि ।। १०२ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ।। ४०।।