विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०३६-०४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३१-३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३६-४०
वेदव्यासः
अध्यायाः ४१-४५ →

3.36
मार्कण्डेय उवाच ।।
अथ प्रत्यङ्गविभागो भवति तत्र द्वादशाङ्गुलपरीणाहो मूर्धा ।
चतुरंगुलोच्छ्रायं अष्टाङ्गुलं ललाटम् ।
शङ्खौ चतुरङ्गुलौ द्व्यङ्गुलोच्छ्रायौ पञ्चाङ्गुलौ गण्डौ चतुरङ्गुलो हनुः ।
द्व्यङ्गुलौ कर्णौ चतुरङ्गुलोच्छ्रायौ ।
कर्णमध्याङ्गुलं तद्रन्ध्रमुदकम् ।।
पालिरनियमेन । ( कर्णस्य लुटिकापालिः)
नासा चतुरङ्गुला अग्रे द्व्यङ्गुलोच्छ्राया त्रिकायामा च नासापुटावंगुलीविस्तारौ द्विगुणद्विगुणायामौ ।
नासौष्ठमध्यमर्धाङ्गुलम् ।
ओष्ठश्चाङ्गुलः ।
चतुरङ्गुलायाममास्यम्।
अधरोङ्गुलं द्व्यंगुलं चिबुकम् ।
चत्वारिंशद्दन्ताः ।
तेष्वष्टौ दंष्ट्राः ।
अधार्ङ्गुलोच्छ्रिता दन्ताः ।
अङ्गुलद्वादशभागिका दंष्ट्रा ।
अङ्गुल विस्तृता त्र्यङ्गुलायामे नेत्रे ।
नेत्रत्रिभागं कृष्णमंडलम्।
पञ्चभागास्तारा ।
अर्धाङ्गुलिविस्तृते त्र्याङ्गुलायामे भ्रुवौ ।
तयोर्द्व्यंगुलमन्तरम् ।
चतुरङ्गुलं न्नेत्रान्तकर्णविवरम् ।
दशाङ्गुलविस्तृता ग्रीवा।
एकविंशत्यङ्गुलपरिणाहा षोडशाङ्गुलस्तनान्तरम् ।
षडङ्गुलं स्तनजत्र्वन्तरम् ।
षोडश बाहुमूलपरिणाहः।
द्वादशाग्रे सप्ताङ्गुलं करतलम् ।
पंचाङ्गुलं विस्तृतं पंचाङ्गुलप्रमाणा मध्यमिका ।
तत्पूर्वदलहीना प्रदेशिनी ।
तत्तुल्या चानामिका ।
तत्परिहीना कनिष्ठिका सर्वाः समत्रिभागपर्वाः ।
पर्वार्धा नखाः ।
त्र्यङ्गुलमङ्गुष्ठं द्विपर्वः।
जठरपरिणाहो द्वाचत्वारिंशांगुलः ।
वेद्यप्रमाणाभ्यामङ्गुलं नाभिः ।
कटिरष्टादशांगुला विपुला ।
तत्परिधिश्चतुश्चत्वारिंशत् ।
चतुरंगुलविस्तृतौ वृषणौ ।
षडङ्गुलं तावत्परिणाहं मेढ्रम् ।
तन्मध्यत ऊरू चतुरङ्गुलौ ।
तद्द्विगुणपरिणाहाङ्गुलविपुले जानुनी ।
तत्त्रिगुणपरिणाहं जङ्घाग्रम् ।
पञ्चागुलं चतुर्दशपरिणाहं द्वादश दीर्घौ षडङ्गुलविस्तृतौ पदौ त्रिकायताङ्गुष्ठौ ।
अङ्गुष्ठतुल्या प्रदेशिनी ।
तदष्टांगोनाः शेषाः ।
अङ्गुलचतुर्भागहीनोऽङ्गुष्ठनखः ।
तदर्धप्रमाणं प्रदेशिन्याः ।
तदष्टभागः शेषाणाम् ।
सर्वपादमङ्गुलमष्टाङ्गुलोत्सेधः ।
त्र्यङ्गुले पार्ष्णीः।
चतुरङ्गुलोच्छ्रायौ इति हंसप्रमाणं भवति।
भवंति चात्र ।।
शेषाणां पार्थिवेन्द्राणां मानं युक्त्या प्रकल्पयेत।।
अनेनैवानुसारेण स्वमानस्यानुसारतः।।१।।
मधक्षश्चन्द्रगौरस्तु नागराजभुजो बली।।
हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ।। ।।२।।
रोमरुद्धकपोलस्तु गजगामी महामतिः ।।
वृत्तोपचितबाहुस्तु भद्रः पद्मनिभो भवेत् ।।३।।
मुद्गश्यामस्तु मालव्यः कृशमध्यस्तनुच्छविः ।।
आजानुबाहुः पीनांसो दन्तिघोणो महाहनुः ।। ४ ।।
शरद्गौरस्तु रुचकः कम्बुग्रीवो महामतिः ।।
सत्यस्तु सिकतश्चैव बलवांश्च प्रकीर्तितः ।। ५ ।।
रक्तश्यामस्तु शशकः किंचित्कर्बुरकस्तथा ।।
पूर्णगण्डश्च चतुरो मध्वक्षश्च प्रकीर्तितः ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे चित्रसूत्रे प्रमाणवर्णनो नाम षट्त्रिंशत्तममोऽध्यायः ।। ३६ ।।

3.37
मार्कण्डेय उवाच ।।
अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः ।।
स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ।। १ ।।
पुरुषस्य समीपस्था कर्तव्या योषिदीश्वर ।।
नरस्कन्धप्रमाणेन कार्यैका सा यथामिति ।। २ ।।
अङ्गुली द्वौ नरात्क्षामं स्त्रियो मध्यं विधीयते ।।
अधिका च कटिः कार्या तथैव चतुरडुलम् ।। ३ ।।
उरःप्रमाणतः कार्यौ स्तनौ नृप मनोहरौ ।।
नृपाश्च सर्वे कर्तव्या महापुरुषलक्षणाः ।। ४ ।।
जालपादकराः कार्यास्तथा वै चक्रवर्तिनः ।।
ऊर्णेयं च भुवोर्मध्ये तेषां कार्यं तथा शुभम् ।। ।। ५ ।।
रेखाश्च करयोः कार्यास्तिस्रो राज्ञां मनोहराः ।।
शशक्षतजसङ्काशाः शस्त्रा वै क्षामकोटकाः ।। ६ ।।
तदङ्गभङ्गिनः सूक्ष्मा निजस्नेहाभ्यलंकृताः ।।
घनेन्द्रनीलसदृथाः केशाः कार्यास्तथा शुभाः ।। ७ ।।
कुन्तला दक्षिणावर्तास्तरङ्गा सिंहकेसराः ।।
वर्धरा जूटटसरा इत्येताः केशजातयः ।। ८ ।।
चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा ।।
नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ।। ९ ।।
शानाकृतिर्महाराज पञ्चमं परिकीर्तितम् ।।
चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ।। 3.37.१० ।।
मत्स्योदराख्यं कथितं तथा यवचतुष्टयम् ।।
नेत्रमुत्पलपत्राख्यं प्रमाणात्षड्यवं स्मृतम् ।। ११ ।।
पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव ।।
शशाकृतिं च विज्ञेयं तथैव च यवा दश ।। १२ ।।
स्वमानाऽङ्गुलमानस्य यवमानं प्रकल्पयेत् ।।
चापाकारं भवेन्नेत्रं योगभूमिनिरीक्षणात् ।। १३ ।।
मत्स्योदराकृति कार्यं नारीणां कामिनां तथा ।।
नेत्रमुत्पलपत्राभं निर्विकारस्य शस्यते ।। १४ ।।
त्रस्तस्स रुदतश्चैव पद्मपत्रनिभं भवेत् ।।
क्रुद्धस्य वेदनान्तस्य नेत्रं शाराकृतिर्भवेत् ।। १५ ।।
ऋषयः पितरश्चैव देवताश्च नराधिप ।।
स्वप्रभाभरणाः कार्या द्युतिमन्तस्तथैव च ।।
मुष्णन्तस्तेजसां तेजः परेषां नृपसत्तम ।। १६।।
सम्यग्विचार्य नृपतिः स्वधिया यथोक्तं ह्येतत्प्रमाणमनुरूपमनिन्दितं च ।।
स्थानैरनेककिरणैः स्थिरभूमिलम्भैः कार्यं तदेव सकुमारमजिह्मरेखम् ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० सामान्यमानवर्णनो नाम सप्तत्रिंशत्तमोऽध्यायः ।। ३७ ।।
3.38
।। मार्कण्डेय उवाच।।
नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम।।
प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं मृदु सत्तम। १।।
देवतानां करं राजन्प्रजाहितकरं भवेत्।।
समे गोक्षीरवर्णाभे स्निग्धे जिह्माग्रपक्ष्मले ।। २ ।।
प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने ।।
कृष्णतारे विशाले च नयने श्रीसुखप्रदे ।। ३ ।।
चतुरस्रं सुसम्पूर्णं प्रसन्नं शुभलक्षणम् ।।
अत्रिकोणमवक्रं च अधिकारमुखं भवेत् ।। ४ ।।
दीर्घमण्डलचक्राणि त्रिकोणादीनि यानि च ।।
वर्ज्यानि तानि देवानां प्रजासु शिवमिच्छता ।। ५ ।।
कार्या हसप्रमाणेन देवा यदुकुलोद्वह ।।
तेषां च लोम कर्त्तव्यमक्षिपक्ष्मसु च भ्रुवोः ।। ६ ।।
अतः शेषेषु गात्रेषु देवाः स्युर्लोमवर्जिताः ।।
द्विरष्टवर्षाकाराश्च तथा कार्या दिवौकसः ।। ७ ।।
प्रसन्नवदना नित्यं तथा च स्मितदृष्टयः ।।
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ।। ८ ।।
भूषितास्तेऽथ कर्तव्याः शुभस्रग्दामधारिणः।।
श्रोणीसूत्रेण महता पादाभरणचारिणा ।। ९ ।।
यज्ञोपवीतवंतश्च सावतंसास्तथैव च ।।
जान्वधोलम्बिना कार्याः शोभिना कटिवाससा ।। 3.38.१ ०।।
वामे मनुजशार्दूल दक्षिणं जानु दर्शयेत् ।।
अंशुकं च तथा कार्यं देवतानां मनोहरम् ।। ११ ।।
प्रभा च तेषां कर्तव्या मूर्ध्नि मूर्ध्नः प्रमाणतः ।।
मण्डलाभा महाराज देवतातोऽनुकारिणी ।। १२ ।।
ऊर्ध्वा दृष्टिरधोदृष्टिस्तिर्यक् तेषां विवर्जयेत ।।
हीनाधिका वा दीना वा क्रुद्धा रूक्षा तथैव च ।। १३ ।।
ऊर्ध्वा तु मरणायोक्ता शोकायाधः प्रकीर्तिता ।।
तिर्यग्धनविनाशाय हीना भवति मृत्यवे ।। १४ ।।
अधिका शोकजननी दीना च नृपसत्तम ।।
रूक्षा धनक्षयाय स्यात्क्रुद्धा भयविवर्धिनी ।। १५ ।।
शातोदरी न कर्तव्या न कार्या चाधिकोदरी ।।
सक्षता च न कर्तव्या तथा यदुकुलोद्वह ।। १६ ।।
हीनाधिकप्रमाणा च रूक्षवर्णा तथैव च ।।
विवृतेन च वक्त्रेण नता च यदुनन्दन ।। १७ ।।
प्रमाणहीनैरङ्गैश्च त्वधिकैरपि पार्थिव ।।
शातोदरी क्षुद्भयदा मरणायाधिकोदरी ।। १८ ।।
सक्षता मरणायोक्ता हीना धनविनाशिनी ।।
अधिका शोकजननी रूक्षवर्णा भयप्रदा ।। १९ ।।
विवृत्तेन च वक्त्रेण कुलनाशकरी भवेत् ।।
प्राच्याभा धननाशाय दक्षिणेन च मृत्यवे ।। 3.38.२० ।।
पश्चिमेन सुतघ्नी च चोदग्भयविवृद्धये ।।
प्रमाणहीना नाशाय अधिका देशनाशिनी ।। २१ ।।
अश्लक्ष्णा मरणायोक्ता क्रुद्धा रूपविनाशिनी ।।
प्रमाणहीनां प्रतिमां तथा लक्षणवर्जिताम् ।। २२ ।।
आवाहिताञ्च विप्रेन्द्रैर्नाविशन्ति दिवौकसः ।।२३।।
आविशंति तु तां नित्यं पिशाचा दैत्यदानवाः ।।
तस्मात्सर्वप्रयत्नेन मानहीनां विवर्जयेत् ।। २४ ।।
चित्रलक्षणसंयुक्तं प्रशस्तं सर्वमुच्यते ।।
आयुष्यं च यशस्यं च धनधान्यविवर्धनम् ।। २५ ।।
तदेव लक्षणापेतं धनधान्यविनाशनम् ।।
देवा नरेन्द्र कर्त्तव्याः शोभावन्तः सदैव तु ।।
मृगेंद्रवृषनागानां हंसानां गतिभिः समाः ।। २६ ।।
सलक्षणं चित्रमुशन्ति धन्यं देशस्य कर्तुर्वसुधाधिपस्य ।।
तस्मात्प्रयत्नेन सलक्षणं तत्कार्यं नरैर्यत्नपरैर्यथावत ।। २७ ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिमालक्षणवर्णनन्नामाष्टत्रिंशत्तमोऽध्यायः ।। ३८ ।।
3.39
मार्कण्डेय उवाच ।।
शुभाकारविहाराणि नानावर्णधराणि च।।
नव स्थानानि रूपाणां शृणु तान्यनुपूर्वशः ।। १ ।।
ऋज्वागतं भवेत्पूर्वमनृजु तदनन्तरम् ।।
साचीकृतशरीरं च भवत्यर्धविलोचनम् ।। २ ।।
ततः पार्श्वागतं नाम पुरावृत्तमनन्तरम् ।।
पृष्ठागतमधः कार्यं पुरावृत्तं समानतम् ।। ३ ।।
एतान्यनेकभेदानि नव स्थानानि भूषिते ।।
एकैकस्येह भवतः शृणु मे नृप लक्षणम् ।। ४ ।।
तत्राभिमुखमेवादौ स्पष्टमानगुणान्वितम् ।।
सुसम्पूर्णं सुचार्वङ्गं सुश्लक्ष्णमलवर्तकम् ।। ५।।
सुशुद्धं मधुरं स्पष्टरेखासंस्कारभूषितम् ।।
यद्भवेत्स्थानमक्षीणगात्रं पृष्ठगतं तु तत् ।। ६ ।।
मुखस्यादावतोऽक्षीणं वक्षस उदरं तथा ।।
कट्या च स्कन्ध देशाच्च ऊरुतश्च क्षयं गता ।। ७ ।।
नासापुटाधरोष्ठानां चतुर्थांशं च बुद्धिमत् ।।
क्षयं नीतं त्रिभागं च यस्य गात्रेभ्य एव च ।। ८ ।।
कान्तारूपं परं स्थानं स्थानलम्भोपपादितम् ।।
एतदेवर्जुनामोक्तमनेककरणान्वितम् ।। ९।।
यत्तिर्यग्भूमिलम्भेन नेत्रहारि सुवर्तनम्।।
सुकुमारं चतुर्भागं क्षीणं सर्वांगशोभनम् ।। 3.39.१० ।।
अध्यर्धभ्रूललाटे चाप्यध्यर्धघ्राणमुत्कटम् ।।
भागक्षयावशेषार्धं कलापक्षीणलोचनम् ।। ११ ।।
कलावलुप्तभ्रूलेखं लिखितं स्निग्धलेखया ।।
न च च्छायागतं कालं न चावऋजुकोपनम् ।। १२ ।।
खेकारिकत्वाच्च नृप साचीकृतमिहोच्यते ।।
अर्धं नेत्रं मुखे यस्य लुप्तमवभ्रुवे तथा ।। १३ ।।
भङ्गो ललाटमात्रश्च दृश्यानां सारमेव तु ।।
मात्रार्धां चैकतो गण्डं दृश्यमर्धकृतक्षयम् ।। १४ ।।
मात्रार्धं कण्डरेखाया यवमाविष्कृतं हनोः ।।
उरसोऽर्धं मुखं लिप्तं नाभ्यास्याच्छिष्टमंगुलम् ।। १५ ।।
अध्यर्धशेषा च कटी अन्यच्च दर्शनीकृतम् ।।
अध्यर्धाक्षं परिज्ञेयमाकारेणैवमादिना ।। १६ ।।
च्छायागतमिति प्रोक्तं पर्यायेणैतदेव तु ।।
यस्यावलोक्यते पार्श्वं दक्षिणं सव्यमेव वा ।। १७ ।।
कृत्स्नमन्यर्क्षयातं तदङ्गमङ्गगतिस्तथा ।।
एकाक्षमेकभ्रूलेखमरनामा ललाटवत् ।। १८ ।।
एकं श्रोत्रं यदर्धं स्याच्चिबुकार्धं शिरोरुहम् ।।
गृहीतमानलावण्यमाधुर्यादिगुणान्वितम् ।। १९ ।।
पार्श्वागतमिति प्रोक्तं तत्स्याद्भित्तिकसंज्ञितम् ।।
अपाक्रुद्धे कलक्षीणे कण्ठदेशे तथैव च ।। 3.39.२०।।
बाहुगण्डललाटेषु कालाख्यं क्षयमागतम् ।।
बाहुवक्षःकटितटस्थितिगु............... ।। २१ ।।
द्विकलं द्विकलं ज्ञात्वा यथाभागं कृषीकृतम् ।।
अनुरूपप्रमाणेन नातितीक्ष्णाङ्गमेव च ।। २२ ।।
एतद्गण्डपरावृत्तं स्थानं च परिकीर्तितम् ।।
पृष्ठतो यदपि व्यक्तं देहबन्धं मनोहरम् ।। २३ ।।
वक्रभ्रुकुटिसर्वज्ञसन्धिबन्धनमेव च ।।
ईषच्च दर्शितापाङ्गकपोलजठरे पुनः ।। २४ ।।
प्रकाशितैकपार्श्वेन सुस्थिरं दृष्टिहारि च ।।
स्वहीनमानलावण्यमाधुर्यादिगुणान्वितम् ।। २५ ।।
लेखेषु पुस्तदेशेषु पृष्ठागतमिति स्मृतम् ।।
यस्योर्धमङ्गपत्येन भागेन समवस्थितम् ।। २६ ।।
स्थितेर्ष्याभमुखेर्धाङ्गे परिवृत्तिवशाद्भवेत् ।।
किञ्चिच्छायागतौ कार्यावुपरिष्टादधः पुरः ।। २७ ।।
अर्धार्धगतसारूप्यं चिरसग्राम्यसंस्थितम् ।।
मध्येन नेत्ररम्येन यथायोगविलोपिना ।। २८ ।।
विज्ञेयं दधतः कार्यं परिवृत्तं नरेश्वर ।।
समग्रदृष्टिस्फिग्देशं दष्टपादतलं तु यत् ।। २९ ।।
अर्वतः क्षीणदृष्टार्धं दृश्या शेषं कटिस्थलम् ।।
लुप्तपादाङ्गुलितलं दृश्याशेषतलद्वयम् ।। 3.39.३० ।।
चतुरस्रं सुसम्पूर्णमभयानकदर्शनम् ।।
प्रकाशीकृतबाहुञ्च सुदष्टमुखकन्धरम् ।। ३१।।
लुप्तं जङ्घैकतो ज्ञेयं नाम्ना स्थानं समानतः ।।
नीचान्येतानि सर्वाणि तथोक्तैरभिराजितम् ।। ३२ ।।
लक्षितैर्लक्षितव्यानि त्वयानुक्रमशो नव ।।
एषां प्रज्ञावशेषेण विकाराणि बहून्यपि ।। ३३ ।।
एकैकशश्च भूभागैः कर्तव्यानि यथावधि ।।
त्वया सन्तः समासाद्य सम्यङ् मानं तु भूतले ।। ३४ ।
स्थानानीमानि मानाद्यैर्गुणैर्लेख्यानि यत्नतः ।।
नवैवैतानि दृष्टानि सर्वभावेष्वनिन्दित ।। ।। ३५ ।।
स्थानानि नाधिकमतः परमस्ति हि किंचन ।।
जीवलोकं परिक्रम्य सततं स्थाणुजङ्गमम् ।।३६।।
उत्तमाधममध्येषु प्रमाणगुणतः सदा।।
चित्रं विचित्रं त्रिविधं प्रमाणं त्रयमेव च ।।३७ ।।
क्षयवृद्धी च कार्त्स्येन मया तेऽभिहितेऽनघ।।
अतः परं प्रवक्ष्यामि क्षयवृद्धिविधिं क्रमात।।३८।।
चित्रविद्भिरसंज्ञेयं समासेनेतरेण च ।।
त्रयोदशविधैवात्र क्षयवृद्धिरुदाहृता ।। ३९ ।।
स्थानानां बहुसंस्थत्वादङ्गावयवसम्भवा ।।
स्थानं पृष्ठ गतं पूर्वमवर्जुगतमेव च ।। 3.39.४० ।।
मध्यार्धार्धं तथार्धार्धं साचीकृतमुखं तथा ।।
नतं गण्डपरावृत्तं पृष्ठागतमथापि च।। ४१।।
पार्श्वागतं च विज्ञेयमुल्लेपं चलितं तथा ।।
उत्तानं वलितं चेति स्थानानि तु त्रयोदश ।। ४२ ।।
कार्याण्येतानि सर्वाणि नामसंस्थानतो नृप ।।
मण्डलानीह वैशाखप्रत्यालीढक्रियाक्रमैः ।। ४३ ।।
समाश्चार्द्धसमाः पादाः सुस्थितानि चलानि च ।।
समासमपदस्थं च द्विविधं स्थानकं भवेत ।। ४४ ।।
तद्गत्वा पदभूयिष्ठं स्थानं समपदं स्मृतम् ।।
मण्डलञ्च द्वितीयं स्यात्स्थानान्यन्यानि यानि च ।। ४५ ।।
तान्येकसमपादानि विचित्राणि चलानि च ।।
तत्र वैशाखमालीढं प्रत्यालीढं च धन्विनाम् ।। ४६ ।।
चित्रगोमूत्रकगतं विषमं खड्गचर्मिणाम् ।।
चलितं खलितायस्तमालीढैकपद क्रमम् ।। ४७ ।।
शक्तितोमरपाषाणभिन्दिपालादिधारिणाम् ।।
सुवल्गितं चक्रशूलगदाकुणपधारिणाम् ।। ४८ ।।
एकपादसमस्थानं द्वितीयेन तु विद्गलम् ।।
शरीरं च सलीलं स्यात्सावष्टंभैः क्वचिद्द्रुतम् ।। ४९ ।।
लीलाविलासविभ्रान्तं विशाल जघनस्थलम् ।।
स्थिरैकपादविन्यासं स्त्रीरूपं विलिखेद्बुधः ।। 3.39.५० ।।
प्रमाणहीनस्तु जनोऽनुभूयात्कालस्य भावस्य बलात्पृथिव्याम् ।।
इति प्रचिन्त्यात्मधिया बुधेन कार्यं प्रमाणं क्षयवृद्धियोगे ।। ५१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवत्रसंवादे चित्रसूत्रे क्षयवृद्धिर्नामैकोनचत्वारिंशत्तमोऽध्यायः ।। ३९ ।।

3.40
।। मार्कण्डेय उवाच ।। ।।
त्रिप्रकारेष्टिकाचूर्णं त्र्यंशं क्षिप्त्वा मृदस्ततः ।।
गुग्गुलं समधूच्छिष्टं मधुकं मुरुकं गुडम् ।। १ ।।
कुसुम्भं तैलसंयुक्तं कृत्वा दध्यात्समांशकम्।।
त्रिभागमग्निदग्धाया सुधायास्तत्र चूर्णयेत्।२।।
बिल्वजं द्व्यंशमिश्रं तत्प्रक्षिप्य मषकं कषम्।।
वालुकांशं ततो दद्यात्स्वानुरूपेण बुद्धिमान्।।३।।
ततः शकलतोयेन प्लावयेत्पिच्छिलेन तम्।।
परिक्लिन्नं समग्रं तन्मासमात्रं निधापयेत्।।४।।
मार्दवं मासमात्रेण गतमुद्धृत्य यत्नतः ।।
दद्यात्प्रलेपं निपुणः शुष्कं कुड्ये विमृश्य तु ।।५ ।।
श्लक्ष्णं समं स्ववष्टब्धं निम्नोन्नतविनाकृतम् ।।
न चातिवनतां यातं न चातितनुताङ्गतम् ।। ६ ।।
यदा शुष्कं भवेत्कुड्यं तत्प्रलिप्तमसत्कृतम् ।।
तया मृदा सर्जरसा तैलभागावियुक्तया ।। ७ ।।
श्लक्ष्णीकुर्यात्प्रयत्नेन लेपनैः श्लक्ष्णमञ्जनैः ।।
मुहुर्मुहुश्च क्षीरेण सिक्ता मार्जनयत्नतः ।। ८ ।।
सद्यः शोषमुपायातं कुड्यं तन्मनुजेश्वर ।।
अपि वर्षशतस्यान्ते न प्रणश्येत्तु कर्हिचित् ।। ९ ।।
अनेनैव प्रकारेण द्विविधैर्वर्णकैर्युताः ।।
कर्तव्याश्चित्रवपुषा विविधा मणिभूमयः ।। 3.40.१० ।।
कुड्ये शुष्के तिथौ शस्ते रूक्षे च गुणसंयुते ।।
चित्रायोगे विशेषेण श्वेतवासा यतात्मवान्।। ।। ११ ।।
ब्राह्मणान्पूजयित्वा तु स्वस्ति वाच्य प्रणम्य च ।।
तद्विदश्च यथान्यायं गुरूँश्च गुरुवत्सलः ।। १२ ।।
प्राङ्मुखो देवताध्यायी चित्रकर्म समाचरेत् ।।
श्वेतकाद्रवकृष्णाभिर्वर्तिकाभिर्यथाक्रमम् ।। १३ ।।
आलिख्य स्थापयेद्विद्वान्प्रमाणे स्थानके तथा ।।
ततस्तु रञ्जयेद्रङ्गैर्यथास्थानानुरूपतः ।। १४ ।।
श्यामा गौरी तथा तस्य च्छविः स्यात्तां प्रदर्शयेत् ।।
तस्याश्च लक्षणं प्रोक्तं प्राप्ताया नृप विस्तरे ।। १५ ।।
मूलरङ्गाः स्मृताः पञ्च श्वेतः पीतो विलोमतः ।।
कृष्णो नीलश्च राजेन्द्र शतशोन्तरतः स्मृताः ।। १६।।
पूर्णरङ्गविभागेन भावकल्पनया तथा।।
स्वबुद्ध्या कारयेद्रङ्गाञ्शतशोऽथ सहस्रशः ।। १७ ।।
नीलेष्वतिव्यतिकृतिः पालाश इति शस्यते ।।
स शुद्धः श्वेतमिश्रश्च नीलाभ्यधिक एव च ।। १८ ।।
एकाधिकं च भवति च्छवीनामनुरूपतः ।।
श्वेताधिको वा न्यूनो वा समांशश्चेति स त्रिधा ।।१९।।
स एकस्तम्भनायुक्तो बहुधैवं विकल्पते ।।
तेन दूर्वांकुरा पीतः कपित्थहरितः शुभाः ।। 3.40.२० ।।
मुद्गश्यामप्रकृतयः कर्तव्याश्छवयो नृप! ।।
नीलः पाण्डुरसम्पृक्तो विरङ्गः सोऽप्यनेकधा ।। २१ ।।
अन्योन्याभ्यधिकं न्यूनं समांशवशकल्पना ।।
तेन नीलोत्पलनिभा माषसच्छायसुप्रभा ।। २२ ।।
क्रियते च्छवयो रम्या यथायोगविनिश्चयात् ।।
लाक्षया श्वेतया युक्ता लाक्षारोधपिनद्धया।
रक्ता रक्तोत्पलश्यामा च्छविर्भवति शोभना।।
सापि नानाविधानन्यान्वर्णान्विकुरुते बहून् ।।२४।।
रङ्गद्रव्याणि कनकं रजतं ताम्रमेव च ।।
अभ्रकं गजवन्तं च सिन्दूरं त्रपुरेव च ।। २५ ।।
हरितालं सुधा लाक्षा तथा हिङ्गुलकं नृप ।।
नीलं च मनुजश्रेष्ठ तथान्ये सन्त्यनेकशः ।। २६ ।।
देशेदेशे महाराज कार्यास्ते स्तम्भनायुताः ।।
लोहानां पत्रविन्यासं भवेद्वापि रसक्रिया ।। २७ ।।
संकटं लोहविन्यस्तमभ्रकं द्रावणं भवेत ।।
एवं भवति लोहानां लेखने कर्मयोग्यता ।। २८ ।।
अभ्रकद्रावणं प्रोक्तं सुरसेन्द्रजभूमिजे ।।
चम्भांकुथोऽथ बकुला निर्यासस्तम्भनाद्भवेत ।।
सर्वेषामेव रङ्गाणां सिन्दूरक्षीर इष्यते ।। २९ ।।
मातङ्गदूर्वारसपट्टबद्धैः संस्तम्भितं चित्रमुदारपुच्छैः ।।
धौतं जलेनापि न नाशयेत तिष्ठत्यनेकान्यपि वत्सराणि ।। 3.40.३० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रङ्गव्यतिकरो नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।