विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०४१-०४५

विकिस्रोतः तः
← अध्यायाः ३६-४० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ४१-४५
वेदव्यासः
अध्यायाः ४६-५० →

3.41
मार्कण्डेय उवाच ।।
सत्यं च वैणिकं चैव नागरं मिश्रमेव च ।।
चित्रं चतुर्विधं प्रोक्तं तस्य वक्ष्यामि लक्षणम् ।। १ ।।
यत्किञ्चिल्लोकसादृश्यं चित्रं तत्सत्यमुच्यते ।।
दीर्घाङ्गे सप्रमाणं च सुकुमारं सुभूमिकम।।२।।
चतुरस्रं सुसम्पूर्णं न दीर्घं नोल्बणाकृतिम्।।
प्रमाणं स्थानलम्भाढ्यं वैणिकं तन्निगद्यते।।३।।
दृढोपचितसर्वाङ्गं वर्तुलं नद्यनोल्बणम ।।
चित्रं तं नागरं ज्ञेयं स्वल्पमाल्यविभूषणम् ।। ४ ।।
चित्रमिश्रं समाख्यातं समासान्मनुजोत्तम ।।
तिस्रश्च वर्तनाः प्रोक्ताः पत्राहैविकबिन्दुजाः ।। ५ ।।
पत्राकृतिभी रेखाभिः कथितात्र च वर्तना ।।
अतीव कथिता सूक्ष्मा तथाहैरिकवर्तना ।। ६ ।।
तथा च स्तम्भनायुक्ता कथिता बिन्दुवर्तना ।।
दौर्बल्यबिंदुरेखत्वमविभक्तत्वमेव च ।। ७ ।।
बृहदण्डौष्ठनेत्रत्वमविरुद्धत्वमेव च ।।
मानवाकारता चेति चित्रशेषाः प्रकीर्तिताः ।। ८ ।।
स्थानप्रमाणभूलम्बो मधुरत्वं विभक्तता ।।
सादृश्यं पक्षवृद्धिश्च गुणाश्चित्रस्य कीर्तिताः ।। ९ ।
रेखा च वर्तना चैव भूषणं वर्णमेव च ।।
विज्ञेया मनुजश्रेष्ठ चित्रकर्मसु भूषणम् ।। 3.41.१० ।।
रेखां प्रशंसन्त्याचार्या वर्तनां च विचक्षणाः ।।
स्त्रियो भूषणमिच्छन्ति वर्णाढ्यमितरे जनाः ।। ११ ।।
इति मत्वा तथा यत्नः कर्तव्यश्चित्रकर्मणि ।।
सर्वस्य चित्तग्रहणं यथा स्यान्मनुजोत्तम ।। १२ ।।
दुरासनं दुरानीतं पिपासा चान्यचित्तता ।।
एते चित्रविनाशस्य हेतवः परिकीर्तिताः ।। १३ ।।
स्वानुलिप्तावकाशा च निदेशं मधुका शुभा ।।
सुप्रसन्नाभिगुप्ता च भूमिः स्याच्चित्रकर्मणि ।। १४ ।।
सुस्निग्धविस्पष्टसुवर्णरेखं विद्वान्यथादेशविशेषवेशम् ।।
प्रमाणशोभाभिरहीयमान कृतं भवेच्चित्रमतीव चित्रम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० मा० सं० वर्तनो नामैकचत्वारिंशत्तमोऽध्यायः ।। ४१ ।।
3.42
मार्कण्डेय उवाच ।।
यथा देवस्तथा चित्रे कर्तव्यः पृथिवीश्वर ।।
एकैकं रूपके लोम कर्तव्यं पृथिवीक्षिताम् ।। १ ।।
ऋषयश्च सगन्धर्वा दैत्याश्च सह दानवाः ।।
मन्त्रिणश्च महाराज संवत्सरपुरोहितौ ।। २ ।।
कार्या भद्रप्रमाणेन ब्राह्मणाश्च नरेश्वर ।।
ऋषयस्तत्र कर्तव्या जटाजूटोपशोभिताः ।। ३ ।।
कृष्णाजिनोत्तरासङ्गा दुर्बलास्तेजसा युताः ।।
देवताश्चापि गन्धर्वा मुकुटेन विवर्जिताः ।। ४ ।।
कर्तव्यास्ते महाराज शिखरैरुपशोभिताः ।।
ब्रह्मवर्चस्विनो विप्राः शुक्लाम्बरधरास्तथा ।। ५ ।।
मन्त्रिणश्च महाराज सांवत्सरपुरोहितौ ।।
सर्वालङ्कारसंयुक्तानेवोल्बणविभूषणान् ।। ६ ।।
मुकुटेन विहीनांस्तु सोष्णीषान्कारयेच्च तान् ।।
दैत्याश्च दानवाश्चैव कर्तव्या भ्रुकुटीमुखाः ।। '७ ।।
वर्तुलाक्षास्तथा कार्या भीमवक्त्रास्तथैव च ।।
तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते ।। ८ ।।
रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप ।।
सपत्नीकाश्च ते कार्या माल्यालङ्कारधारिणः ।। ९ ।।
खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि ।।
मालव्यपरिमाणेन किन्नरोरगराक्षसाः ।। 3.42.१० ।।
रुचकस्य प्रमाणेन यक्षाः कार्या नराधिप ।।
शशकस्य प्रमाणेन प्रधानं मानवं लिखेत् ।। ११ ।।
पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः ।।
मानन्नियमतः कार्यं रूपन्नियमतस्तथा ।। १२।।
स्वानुरूपप्रमाणाश्च सर्वेषां योषितः स्मृताः।।
किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः ।। १३ ।।
नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः ।।
अश्ववक्त्रास्तु कर्तव्याः सर्वालङ्कारधारिणः ।। १४ ।।
गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च ।।
उत्कचा राक्षसाः कार्या विकलाक्षा विभीषणाः ।। १५ ।।
देवकाराश्च कर्तव्या नागाः फणविराजिताः ।।
सालंकारा स्मृताः सर्वे यक्षास्तेऽभिहिता मया ।। १६ ।।
सुराणां प्रमथाः कार्याः प्रमाणेन विवर्जिताः ।।
पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः ।। १७ ।।
नानासत्त्वमुखाः कार्या देवतानां तथा गणाः ।।
नानावेशा महाराज नानायुधधरास्तथा ।। १८ ।।
नानाक्रीडाप्रसक्ताश्च नानाकर्मकरास्तथा ।।
एकरूपास्तु कर्तव्या वैष्णवानां तथा गणाः ।। १९ ।।
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च ।।
वासुदेवसमाः कार्या वासुदेवगणाः शुभाः ।। 3.42.२० ।।
संकर्षणेन सदृशास्तद्गणाश्च तथा स्मृताः ।।
प्रद्युम्नेनानिरुद्धेन तद्गणाः सदृशास्तथा ।। २१ ।।
तत्प्रभावाः स्मृताः सर्वे तदायुधधरास्तथा ।।
नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ।। २२ ।।
तथा मरकताकारा सिन्दूरसदृशप्रभाः ।।
रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः ।। २३ ।।
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसम्मतम् ।।
मालव्यामानतः कार्या लज्जावत्यः कुलस्त्रियः ।। २४ ।।
नात्युन्नतेन वेशेन सालंकारास्तथैव च ।।
दैत्यदानवयक्षाणां राक्षसानां तथैव च ।। २५ ।।
रूपवत्यस्तथा कार्याः पतयो मनुजसत्तम ।।
मातरः स्वेन रूपेण तथा कार्या नराधिप ।। २६ ।।
पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुता ।।
विभर्तृकास्तु कर्तव्या स्त्रियः पलितसंयुताः ।। २७ ।।
शुक्लवस्त्रपरीधानाः सर्वालङ्कारवर्जिताः ।।
कुब्जा वामनिका वृद्धा तथा रूपवती भवेत् ।। २८ ।।
राजस्त्रीणां परीवारे वृद्धः स्यात्कञ्चुकी पुनः ।।
रुचकस्य तु मानेन वैश्यमानं विधीयते ।। २९ ।।
शशकस्य तु मानेन शूद्रमानं तथैव च ।।
यथा जात्यनुरूपेण वेषेण मनुजेश्वर ।। 3.42.३० ।।
दैत्यादियोषितां कार्याः परिचारस्त्रियः सदा ।।
महाशिरा महोरस्को महानासो महाहनुः ।। ३१ ।।
पीत स्कन्धभुजग्रीवः परिमाणेन चोच्छ्रितः ।।
त्रितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः ।। ३२ ।।
दृप्तश्चित्रविदा कार्यः सेनायाः पतिरूर्जितः ।। ।
योधाः कार्या महाराज प्रायशो भ्रुकुटीमुखाः ।। ३३ ।।
किंचिदुद्धतवेगाश्च कार्याश्चोद्धतदर्शनाः ।।
अभ्युद्गताश्च कर्तव्या आयुधीयाः पदातयः ।। ३४ ।।
खड्गचर्मधराः कार्याः कर्णाटकवपुर्धराः ।।
वरबाणधराः कार्या नग्नजङ्घाश्च धन्विनः ।। ३५ ।।
नात्युद्धतेन वेषेण सोपानत्कास्तथैव ते ।।
यथोक्तलक्षणाः कार्याः कुञ्जरास्तुरगादयः ।। ३६ ।।
हस्त्यारोहास्तु कर्तव्या मुहुः श्यामास्तु वर्णतः ।।
केशैश्च जूटटमरैः सालंकारास्तथैव च। ।। ३७ ।।
उदीच्यवेशाः कर्तव्यास्तुरगाणां तु सादिनः ।।
उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा ।।३८ ।।
सिरादर्शितकण्ठाश्च तथैवोन्मुखदृष्टयः ।।
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः ।। ३९ ।।
किंचिद्दानवसङ्काशाः प्रायशो दण्डपाणयः ।।
न केकरान्न कपिलान्युद्धे द्वंद्वान्समालिखेत् ।। 3.42.४० ।।
नात्युन्नतेन वेषेण न च शान्तेन शस्यते ।।
पार्श्वबद्धेन खड्गेन प्रतीहारस्तु दण्डवान् ।। ४१ ।।
संवेष्टितशिरस्काश्च कर्तव्या वणिजस्तथा ।।
गायना नर्तका ये वा वाद्यवादविशुद्धये ।। ४२ ।।
उद्धतेन तु वेषेण कार्यास्ते मनुजोत्तम ।।
आसन्नपलिता कार्याः स्वभूषणविभूषिताः ।। ४३ ।।
पौरजानपदाः श्रेष्ठाः शुभवस्त्रविभूषणाः ।।
प्रसृतप्रवणाः प्रह्वाः स्वभावप्रियदर्शिनः ।। ४४ ।।।
स्वकर्मोपस्करव्यग्रः कार्यः कर्मकरो जनः।।
प्रांशवः पीनगात्राश्च पीनग्रीवशिरोधराः ।। ४५ ।।
उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः ।।
वृषाः केसरिणश्चैव याश्चान्याः सत्त्वजातयः ।। ४६ ।।
यथाभूमिनिवेशास्ते लोकं दृष्ट्वा नराधिप ।।
एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ।। ४७ ।
दृष्टं सुसदृशं कार्यं सर्वेषामविशेषतः ।।
चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम् ।। ४८ ।।
बुद्ध्या रूपं यथावेशं वर्णं च मनुजोत्तम ।।
देशेदेशे नराः कार्या यथावत्तत्समुद्भवाः ।।४९।।
देशं नियोगं स्थानं च कर्म बुद्ध्वा च यत्नतः ।।
आसनं शयनं यानं वेशं कार्यं नराधिप ।। 3.42.५० ।।
सरितां सशरीराणां वाहनानि प्रदर्शयेत् ।।
पूर्णकुम्भकराः कार्यास्तथा नामितजानवः ।। ५१ ।।
शैलानां शिखरं मूर्ध्नि दर्शयेन्मनुजोत्तम ।।
द्वीपानां च करैः कार्यं तथा भूमण्डलं शुभम् ।। ९२ ।।
. .. ... ..........राजंस्तथा शिखरपाणयः ।।
रत्नपात्रकराः कार्याः सागरा मनुजोत्तम ।। ५३ ।।
समुद्राणां प्रभास्थाने सलिलं तु प्रदर्शयेत् ।।
आयुधानां च तच्चिह्नं किञ्चिन्मूर्धनि दर्शयेत् ।। ५४ ।।
निधीनां दर्शयेत्कुम्भं शंखं शंखस्य दर्शयेत् ।।
पद्मं पद्मस्य राजेन्द्र शेषाणामनुरूपतः ।। ५५ ।।
कार्यस्यावयवाः कार्याः स्वद्देहसदृशाः पृथक् ।।
दिव्यानां दर्शयेच्चिह्नमक्षमालां च पुस्तकम् ।। ५६ ।।
अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते ।।
आकाशं दशर्येद्विद्वान्विवर्णं खगमाकुलम् ।। ५७ ।।
तथैव दर्शयेद्राजंस्तारकामण्डितं दिवम् ।
भूमिं च जाङ्गलानूपमिश्रां स्वैःस्वैस्तथा गुणैः ।। ५८ ।।
पर्वतं तु शिलाजालैः शिखरैर्धातुभिर्द्रुमैः ।।
निर्झरैर्भुजगैश्चैव दर्शयेन्नृपसत्तम ।। ५९ ।।
वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा ।।
तोयं च दर्शयेद्विद्वाननन्तैर्मत्स्यकच्छपैः ।। 3.42.६० ।।
पद्माक्षैश्च महाराज तथान्यैर्जलजैर्गुणैः ।।
देवतावेश्मभिश्चित्रैः प्रासादापणवेश्मभिः ।। ६१ ।।
नगरं दर्शयेद्विद्वान् राजमार्गैश्च शोभनैः ।।
वमत्या दर्शयेद्ग्रामं किञ्चिदुद्यानभूषितम् ।। ६२ ।।
सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा ।।
स्वभूमिविनिवेशेन वप्राट्टालकपर्वतैः ।। ६३ ।।
पण्ययुक्तास्तु कर्तव्यास्तथैवापणभूमयः ।।
आधानभूमिः कर्तव्या पानयुक्ता नराकुला ।। ६४ ।।
उत्तरीयविहीनांश्च द्यूतसक्तान्प्रदर्शयेत्।।
जिताञ्शोकसमायुक्तान्हृष्टांल्लब्धजयांस्तथा ।। ६५ ।।
चतुरङ्गबलोपेतां प्रहरद्भिर्नरैर्युताम् ।।
मृतावयवरक्ताढ्यां रणभूमिं प्रदर्शयेत् ।। ६६ ।।
चिताकुणपसंयुक्तं श्मशानं च तथा नृप ।।
युक्तं सभारैरुष्ट्राद्यैर्मार्गं सार्थं प्रदर्शयेत् ।। ६७ ।।
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम् ।।
आसन्नतस्करां रात्रिं दर्शयेत्सुप्तमानवाम् ।। ६८
प्राग्रात्रे दर्शयेत्तत्र तथा चैवाभिसारिकाम् ।।
सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुटः ।।६९।।
कर्मव्यग्रजनप्रायः कर्तव्यो वानरस्तथा ।।
द्विजैर्नियमभिर्युक्तां गां सन्ध्यां प्रदर्शयेत् ।। 3.42.७० ।।
तमसो दर्शनं कार्यं वासे संसर्पकैर्नरैः ।।
कुमुदानां विकाशे च ज्योत्स्नां चन्द्रे प्रदर्शयेत् ।।७१।।
दर्शयेत्सरजस्यं च शय्यां कर्णोत्करावृताम् ।।
सद्वृत्तमानवप्रायां वृष्टिं वृष्ट्याम्प्रदर्शयेत्।।७२।।
प्राणिनां क्लेशतप्तानामादित्येन निदर्शनम् ।।
वृक्षैर्वसन्तजैः फुल्लैः कोकिलामधुपोत्कटैः ।। ७३ ।।
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् ।।
क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा ।। ७४ ।।
महिषैः पङ्कमलिनैस्तथा शुष्कजलाशयम् ।।
विहङ्गैर्द्रुमसंलीनैः सिंहव्याघ्रैर्गुहागतैः ।। ७५।।
तोयनम्रघनैर्युक्तं सेन्द्रचापविभूषणैः ।।
विद्युद्विद्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा ।। ७६ ।।
सफलद्रुमसंयुक्तां पक्वसस्यां वसुन्धराम् ।।
सहसपद्मसलिलां शरदं तु तथा लिखेत् ।। ७७ ।।
सवाष्पसलिलस्थानं तथा लूनवसुन्धरम् ।।
सनीहारदिगन्तं च हेमन्तं दर्शयेद्बुधः ।। ७८ ।।
हृष्टवायसमातङ्गं शीतार्तजनसङ्कुलम् ।।
शिशिरं तु लिखेद्विद्वान्हिमच्छन्नदिगन्तरम ।। ७९ ।।
वृक्षाणां पुष्पफलतः प्राणिनां मदतस्तथा।। ।।
ऋतूनां दर्शनं कार्यं लोकान्दृष्ट्वा नराधिप ।। 3.42.८० ।।
रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः ।।
यथायोगं तु युञ्जीत नृत्ताभिहितमत्र च ।।८३ ।।
शुष्कं वर्तनया वस्तु चित्रं तन्मध्यमं स्मृतम् ।।
शुष्कार्द्रमधमं प्रोक्तं चार्द्रमेव तथोत्तमम् ।। ८२ ।।
यथादेयं यथाकालं यथादेशं यथावयः ।।
क्रियमाणं भवेद्धन्यं विपरीतमतोऽन्यथा ।। ८३ ।।
इतिविचक्षणबुद्धिविकल्पितैः करणकान्तिविलासरसादिभिः ।।
लिखितमीक्षणलोचनमादराद्भवति चित्रममीप्सितकामदम् ।। ८४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० रूपनिर्माणं नाम द्विचत्वारिंशत्तमोऽध्यायः ।। ४२ ।।
3.43
मार्कण्डेय उवाच ।।
शृङ्गारहासकरुणवीररौद्रभयानकाः ।।
बीभत्साद्भुतशान्ताश्च नव चित्ररसाः स्मृताः ।। १ ।।
तत्र यत्कांतिलावण्यलेखामाधुर्यसुन्दरम् ।।
विदग्धवशाभरणं शृङ्गारे तु रसे भवेत् ।। २ ।।
यत्कुज्जवामनप्रायमीषद्विकटदर्शनम् ।।
वृथा च हस्तं संकोच्य तत्स्याद्धास्यकरं रसे ।। ३ ।।
याञ्चाविरहासन्त्यागविक्रयव्यसनादिषु ।।
अनुकम्पितकं यत्स्याल्लिखेत्तत्करुणारसे ।।४ ।।
पारुष्यविकृतिक्रोधविषस्त्यर्था न दूषणम् ।।
दीप्रशस्त्राभरणवत्कृतं रौद्ररसे भवेत् ।। ५ ।।
प्रतिज्ञागर्भशौर्यादिष्वर्थेष्वौ दार्यदर्शनम् ।।
सस्मयं सभ्रुकुटिवद्वीरं वीररसेऽद्भुतम् ।।६।।
दुष्टदुर्दर्शनोन्मत्तहिंस्रव्यापादकादि यत ।।
तत्स्याद्भयानकरसे प्रयोगे चित्रकर्मणः ।।७।।
श्मशानगर्हितं घातकरणं स्थानदारुणम्।।
यच्चित्रं चित्रवच्छ्रेष्ठं तद्बीभत्सरसे भवेत ।।८।।
यदा विनीतरोमाञ्चचिन्तां तार्क्ष्यमुखानतम् ।।
प्रदर्शयति चान्योऽन्यं तदद्भुतरसाश्रयम् ।।९ ।।
यद्यत्सौम्याकृतिध्यानधारणासनबन्धनम् ।।
तपस्विजनभूयिष्ठं तत्तु शान्ते रसे भवेत् ।। 3.43.१० ।।
शृङ्गारहास्य शान्त्याख्या लेखनीया गृहेषु ते ।। ११ ।।
परशेषा न कर्तव्या कदाचिदपि कस्यचित् ।।
देववेश्मनि कर्तव्या रसाः सर्वे नृपालय ।। १२ ।।
राजवेश्मनि नो कार्या राज्ञां वासगृहेषु ते ।।
सभावेश्मसु कर्तव्या राज्ञां सर्वरसा गृहे ।। १३ ।।
वर्जयित्वा सभां राज्ञो देववेश्म तथैव च ।।
युद्धश्मशान करुणामृतदुःखार्तकुत्सितान् ।। १४ ।।
अमङ्गल्यांश्च न लिखेत्कदाचिदपि वेश्मसु ।।
निधिशृंगान्वृषान्राजन्निधिहस्तान्नताङ्गजान् ।। १५ ।।
निधि विद्याधरा राजनृषयो गरुडस्तथा ।।
हनूमांश्च सुमङ्गल्या ये च लोके प्रकीर्तिताः ।। १६ ।।
लिखितव्या महाराज गृहेषु सततं नृणाम् ।।
चित्रकर्म न कर्तव्यमात्मना स्वगृहे नृप ।। १७ ।।
दौर्बल्यं स्थूलरेखत्वमविभक्तत्वमेव च ।।
वर्णानां सङ्करश्चात्र चित्रदीपाः प्रकीर्तिताः ।।१८ ।।
।स्थानप्रमाणं भूलम्भो मधुरत्वं विभक्तता ।।
सादृश्यं क्षयवृद्धी च गुणाष्टकमिदं स्मृतम् ।। १९ ।।
स्थानहीनं गतरसं शुन्यदृष्टिमलीमसम् ।।
चेतनारहितं वा स्यात्तदशस्तं प्रकीर्तितम् ।। 3.43.२० ।।
लसतीव च भूलम्बो बिभ्यतीव तथा नृप।।
हसतीव च माधुर्यं सजीव इव दृश्यते ।। २१ ।।
सश्वास इव यच्चित्रं तच्चित्रं शुभलक्षणम् ।।
हीनाङ्गं मलिनं शून्यं बद्धव्याधिभयाकुलैः ।। २२ ।।
वृत्तं प्रकीर्णकेशैश्च सुमंगल्यैर्विवर्जयेत् ।।
प्रतीतं च लिखेद्धीमान्नाप्रतीतेः कथंचन ।। २३ ।।
शास्त्रज्ञैः सुकृतैर्दक्षैश्चित्रं हि मनुजाधिप ।।
श्रियमावहति क्षिप्रमलक्ष्मीं चापकर्षति ।। २४ ।।
निर्णेजयति चोत्कण्ठां निरुणद्ध्यागतं शुभम् ।।
शुद्धां प्रथयति प्रीतिं जनयत्यतुलामपि ।। २५ ।।
दुःस्वप्नदर्शनं हन्ति प्रीणाति गृहदैवतम् ।।
न तु शून्यमिवाभाति यत्र चित्रं प्रतिष्ठितम् ।। २६ ।।
..............दकर्णं चाप्यनलंकृतम् ।।
शल्यविद्धं च वृद्धं च यः करोति स चित्रवित् ।। २७ ।।
तरङ्गाग्निखिखाधूमं वैजयन्त्यस्वरादिकम् ।।
वायुगत्या लिखेद्यस्तु विज्ञेयो मत्तचित्रवित् ।। २८ ।।
सुप्तं च चेतनायुक्तं मृतं चैतन्यवर्जितम् ।।
निम्नोन्नतविभागं च यः करोति स चित्रवित् ।। २९ ।।
एतेषां खलु सर्वेषामानुलोम्यं प्रशस्यते ।।
सम्मुखत्वमथैतेषां चित्रे यत्नाद्विवर्जयेत् ।। 3.43.३० ।।
यथाचित्रं तथैवोक्तं खातपूर्वं नराधिप ।।
सुवर्णरूप्यताम्रादि तच्च लोहेषु दर्शयेत् ।। ३१ ।।
शिलादारुषु लोहेषु प्रतिमाकरणं भवेत्।।
अनेनैव विधानेन यथा चित्रमुदाहृतम्।।३२।।
तथानेन विधानेन पुस्तकर्म विधीयते ।।
द्विविधं तच्च कथितं घनं सुषिरमेव च।।३३।।
घनर्लौंहैः शिलाभिश्च दारुमृद्भिः सदा भवेत् ।।
चर्मणा सुषिरः कार्यो दारुलोहैस्तथैव च ।। ३४ ।।
देयो मृत्तिकया लेपः पुस्ते चर्मकृते दृढः ।।
सूत्रेऽनेन विधानेन चित्रवस्त्रे तथा लिखेत् ।। ३५ ।।
एतदुद्देशमात्रेण यदा ते कथितं नृप ।।
अशक्यो विस्तराद्वक्तुं बहुवर्षशतैरपि ।। ।। ३६ ।।
यदत्र नोक्तं तन्नृत्ताद्विज्ञेयं वसुधाधिप ।।
नृतेऽपि नोक्तं तच्चित्रं नात्र योज्यं नराधिप ।। ३७ ।।
कलानां प्रवरं चित्रं धर्मकामार्थ मोक्षदम् ।।
मङ्गल्यं प्रथमं चैतद्गृहे यत्र प्रतिष्ठितम् ।। ३८ ।।
यथा सुमेरुः प्रवरो नगानां यथण्डजानां गरुडः प्रधानः ।।
यथा नराणां प्रवरः क्षितीशस्तथा कलानामिह चित्रकल्पः ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शृङ्गारादिभावकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ।। ४३ ।।
समाप्तं चित्रसूत्रम् ।।
3.44
वज्र उवाच।।
देवतारूपनिर्माणं कथयस्य ममानघ।।
यस्मात्सन्निहिता नित्यं शास्त्रवत्सा कृता भवेत्।।१।।
मार्कण्डेय उवाच।।
देवतारूपनिर्माणं वदतः शृणु पार्थिव।।
आदावेव प्रवक्ष्यामि त्रिमूर्तेस्तव पार्थिव ।। २ ।।
विष्णोरमितवीर्यस्य प्रतिमालक्षणं शुभम् ।।
ब्राह्मी तु राजसी मृतिस्तस्य सर्वप्रवर्तिनी ।। ३ ।।
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी ।।
तामसी च तथा रौद्री ज्ञेया संहारकारिणी ।। ४ ।।
ब्रह्माणं कारयेद्विद्वान्देवं सौम्यं चतुर्मुखम् ।।
बद्धपद्मासनं तोष्यं तथा कृष्णाजिनाम्बरम् ।। ५ ।।
जटाधरं चतुर्बाहुं सप्तहंसे रथे स्थितम् ।।
वामे न्यस्तं करतले तस्यैकं दोर्युगं भवेत् ।। ६ ।।
एकस्मिन्दक्षिणे पाणावक्षमाला तथा शुभा ।।
कमण्डलुर्द्वितीये च सर्वाभरणधारिणः ।। ७ ।।
सर्वलक्षणयुक्तस्य शान्तरूपस्य पार्थिव ।।
पद्मपत्रदलाग्राभं ध्यानसम्मीलितेक्षणम् ।। ८ ।।
अर्चायां कारयेद्देवं चित्रे वा पुस्तकर्मणि ।।
देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम् ।। ९ ।।
कौस्तुभोद्भासितोरस्कं सर्वाभरणधारिणम् ।।
सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा ।। 3.44.१० ।।
मुखाश्च कायाश्चत्वारो बाहवो द्विगुणास्तथा ।।
सौम्यं तु वदनं पूर्वं नारसिंहं तु दक्षिणम् ।।११।।
कापिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ।।
तस्य दक्षिणहस्तेषु बाणाक्षमुसलादयः ।।१२ ।।
चर्म चीरं धनुश्चेन्द्रचापेषू वनमालिनः ।।
कार्याणि विष्णोर्धर्मज्ञ शृणु रूपं पिनाकिनः।।१३।।
देवदेवं महादेवं वृषारूढं तु कारयेत् ।।
तस्य वकत्राणि कार्याणि पञ्च यादवनन्दन ।। १४ ।।
सर्वाणि सौम्यरूपाणि दक्षिणं विकटं मुखम् ।।
कपालमालिनं भीमं जगत्संहारकारकम् ।। १५।।
त्रिनेत्राणि च सर्वाणि वदनं ह्युत्तरं विना ।।
जटाकलापे महति तस्य चन्द्रकला भवेत् ।। १६ ।।
तस्योपरिष्टाद्वदनं पञ्चमं तु विधीयते ।।
यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत् ।। १७ ।।
दशबाहुस्तथा कार्यो देवदेवो महेश्वरः ।।
अक्षमालां त्रिशूलं च शरदण्डमथोत्पलम् ।। १८ ।।
तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज ।।
वामेषु मातुलिङ्गं च चापादर्शौ कमण्डलुम् ।। १९ ।।
तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः ।।
वर्णास्तथा च कर्तव्याश्चन्द्रांशुसदृशप्रभाः।।3.44.२०।।
एतत्त्रिमूर्तेस्तव रूपमुक्तं माहानुभावस्य जनार्दनस्य।।
पद्मस्वरूपं तव वच्मि राजन्यत्रार्चनं कार्यमथेश्वराणाम् ।।२१।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० त्रिमूर्तिनिर्माणन्नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।
3.45
मार्कण्डेय उवाच ।।
सौवर्णं राजतं ताम्रमारकूटमयं तथा ।।
द्विहस्तमात्रं कर्तव्यं कमलं चारुकेसरम् ।। १ ।।
तस्याष्टभागाः कर्तव्याः कर्णिका नृप वर्तुला ।।
अष्टभागोच्छ्रिता चैव पत्रे न्यस्ता तु कारयेत् ।।२।।
एकतोनत्रिपञ्चाशत्कर्णिकायां तु कारयेत् ।।
वर्तुला कर्णिकाच्छेदा यवमात्रसमन्विताः ।। ३ ।।
षोडशांशेन कर्तव्यं तद्धि विस्तरतस्तथा ।।
शेषं पत्रैस्तु सुस्निग्धैः पूरयेदष्टभिस्तथा ।। ४ ।।
तस्य प्रतिष्ठा कर्तव्या तत्र देवांस्तु पूजयेत् ।।
ब्रह्माणं पूजयेत्तत्र तत्र सम्पूजयेद्धरिम् ।। ५ ।।
तत्र सम्पूजयेद्रुद्रं तत्र सम्पूजयेच्छ्रियम् ।।
तत्र सम्पूजयेच्छक्रं देवराजं जगत्पतिम ।। ६ ।।
तत्र सम्पूजयेत्सूर्यं शशिनं तत्र पूजयेत् ।।
यमेव मनसोद्दिश्य देवं पद्मं प्रतिष्ठितम् ।।
तमेव पूजयेत्तत्र नान्यं देवं कथञ्चन ।। ७ ।।
पद्मस्य रूपं कथितं तवैतत्पद्मं समग्रा वसुधा निरुक्ता ।।
तत्रार्चनं कार्यमथेश्वराणां तत्रार्चितास्ते वरदा भवन्ति ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पद्मरूपनिरूपणो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ।। ४५ ।।