विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०४६-०५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३१-३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ४६-५०
वेदव्यासः
अध्यायाः ५१-५५ →

3.46
।। वज्र उवाच ।। ।।
रूपगन्धरसैर्हीनः शब्दस्पर्शविवर्जितः ।।
पुरुषस्तु त्वया प्रोक्तस्तस्य रूपमिदं कथम् ।। १ ।।
मार्कण्डेय उवाच ।।
प्रकृतिर्विकृतिस्तस्य रूपेण परमात्मनः ।।
अलक्ष्यं तस्य तद्रूपं प्रकृतिस्सा प्रकीर्तिता ।। ।। २ ।।
साकारा विकृतिर्ज्ञेया तस्य सर्वं जगत्स्मृतम् ।।
पूजाध्यानादिकं कर्तुं साकारस्यैव शक्यते ।। ३ ।।
स्वतस्तु देवस्याकारः पूजनीयो यथाविधि ।।
अव्यक्ता हि गतिर्दुखं देहभृद्भिरवाप्यते ।। ४ ।।
अतो भगवतानेन स्वेच्छया तत्प्रदर्शितम् ।।
प्रादुर्भावेष्वथाकारं तं दिशन्ति दिवौकसः ।। ५ ।।
एतस्मात्कारणात्पूजा साकारस्य विधीयते ।।
हेतुमच्च तदाकारं तन्मे निगदतः शृणु ।। ६ ।।
अरुणं रजसा वर्णं तेन पद्माग्रसन्निभः ।।
ब्रह्मा देववरो ज्ञेयस्सर्वभूतनमस्कृतः ।। ७ ।।
ऋग्वेदः पूर्ववदनं यजुर्वेदस्तु दक्षिणम् ।।
पश्चिमं सामवेदः स्यादाथर्वणमथोत्तरम् ।। ८ ।।
ये वेदास्ते मुखा ज्ञेयाश्चतस्रो बाहवो दिशः ।।
आप एव जगत्सर्वं स्थावरं जङ्गमं तथा ।। ९ ।।
ताश्च धारयते ब्रह्मा तेन हस्ते कमण्डलुः ।।
अक्षमाला विनिर्दिष्टा कालस्तु ब्रह्मणः करे ।। 3.46१० ।।
कलनात्सर्वभूतानां काल इत्यभिधीयते ।।
यज्ञो विस्तीर्यते सर्वः शुक्लाशुक्लेन कर्मणा ।। ११ ।।
शुक्लाशुक्लमतो ज्ञेयं वासः कृष्णाजिनं विभोः ।।
भूलोकश्च भुवो लोकः स्वलोकोऽथ महत्तथा।।१२।।
जनस्तपश्च सत्यं च सप्तलोकाः प्रकीर्तिताः ।।
ये लोकास्ते रथे हंसा ब्रह्मणः परमेष्ठिनः।।१३।।
विष्णुनाभौ समुत्पन्नं यत्पद्मं सा महीभुजः ।।
मेरुस्तु कर्णिका तस्य विज्ञेया गजसत्तम ।। १४ ।।
सर्वत्र पार्थिव स्थैर्यं ध्यानबन्धमतः स्थितम् ।।
पद्मासनेन भगवान्विधत्ते पार्थिवेन तु ।। १५ ।।
आत्मनः परमं धाम रूपहीन विचिन्तयेत् ।।
दृष्ट्यर्थं जगतामास्ते ध्यानसम्मीलितेक्षणः ।। १६।।
तथैवोषधयो राजञ्जगद्धारणकारणाः ।।
ब्रह्मणस्ता जटा ज्ञेयाः सर्वगस्य महात्मनः ।। १७ ।।
प्रकाशकानि लोकस्य विद्यास्थानानि यानि च।।
तस्याभरणजातानि ज्ञेयानि परमेष्ठिनः ।। १८ ।।
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ।।
एवं शरीरेण जगत्समग्रं सन्धारयत्येव जगत्प्रधानः ।।१९।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० ब्रह्मरूपनिर्माणो नाम षट्चत्वारिंशत्तमोऽध्यायः ।।४६।।
3.47
मार्कण्डेय उवाच।।
परस्य पुरुषस्यैषा संसारे विकृतिर्मता ।।
सर्वा च विकृतिः कृष्णा तेन संसारपालनम् ।। १ ।।
कृष्णरूपं स भगवान्विधत्ते भूतभावनः ।।
ब्रह्मणैव हरेः प्रोक्तं सर्वाभरणधारणम् ।। २ ।।
बिभर्ति वक्षसा ज्ञानं कौस्तुभं विमलं हरिः ।।
कृष्णा दीर्घा विचित्रा च वनमाला प्रकीर्तिता ।। ३ ।।
यथा सर्वमिदं बद्धं जगद्राजंश्चराचरम् ।।
अविद्या वसनं तस्य संसारपरिपालिनी ।। ४ ।।
विद्या शुक्ला विनिर्दिष्टा कृष्णमज्ञानमुच्यते ।।
अज्ञानविद्या मध्यस्था त्वविद्या परिकीर्तिता ।। ५ ।।
न कृष्णा न तथा शुक्ला तेन विद्येयमुत्तमा ।।
अन्तरालं बिभर्त्येव सुवर्णकनकोपमम् ।। ६।।
मनस्तु गरुडो ज्ञेयः सर्वभूतशरीरगम् ।।
तस्माच्छीघ्रतरं नास्ति तथैव बलवत्तरम् ।। ७ ।।
दिशश्चतस्रो धर्मज्ञ तावत्यो विदिशस्तथा ।।
बाहवोऽष्टौ विनिर्दिष्टास्तस्य देवस्य शार्ङ्गिणः ।। ८. ।।
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ।।
विज्ञेयं देवदेवस्य तस्य वक्त्रचतुष्टयम् ।। ९ ।।
वासुदेवश्च भगवांस्तथा सङ्कर्षणः प्रभुः ।।
प्रद्युम्नश्चानिरुद्धश्च बलाद्याः परिकीर्तिताः ।। 3.47.१० ।।
द्वौद्वौ भुजौ तु विज्ञेयौ प्रतिवक्त्रं महात्मनः ।।
वासुदेवस्य करयोर्ज्ञातव्यौ सूर्यरात्रिपौ ।। ११ ।।
सङ्कर्षणस्य कारयोस्तथा मुसललाङ्गले ।।
प्रद्युम्नस्य तथा ज्ञेयौ चापबाणौ महाभुज ।। १२ ।।
आनिरुद्धम्य विज्ञेयो चर्मखङ्गौ विचक्षणैः ।।
पुरुषप्रकृती ज्ञेयौ सूर्याचन्द्रमसावुभौ ।। १३ ।।
एते च वासुदेवस्य करे चक्रगदे मते ।।
कालं च लाङ्गलं विद्धि मृत्युं च मुसलं तथा।। १४।।
ताभ्यां संकर्षणो रुद्रः कर्षतीदं चराचरम्।।
प्रद्युम्नस्य करे वह्नेः शार्ङ्गं चापं तु यत्स्मृतम्।। १५।।
ध्येयं तु परमं लक्ष्यं ताभ्यां छिन्दन्ति योगिनः ।।
ब्रह्मणस्त्वनिरुद्धस्य करे चर्म महाभुज ।। १६ ।।
अज्ञानावरणं जेयं जगत्सृष्टिप्रयोजनम् ।।
वैराग्यं नन्दकं खङ्गं छित्त्वा वै तेन बन्धनम् ।।
नदन्ति योगिनो यस्मात्तस्मात्तन्नन्दकं स्मृतम् ।। १७ ।।
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ।।
एवं शरीरेण जगत्समग्रं बिभर्ति देवः स जगत्प्रधानः ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।।
3.48
।। मार्कण्डेय उवाच ।।
सद्योजातं वामदेवमघोरं च महाभुज ।।
तथा तं पुरुषं ज्ञेयमीशानं पञ्चमं मुखम् ।। १ ।।
सद्योजातं मही प्रोक्ता वामदेवं तथा जलम् ।।
तेजस्त्वघोरं विद्यात्तं वायुस्तत्पुरुषं मतम् ।। २ ।।
ईशानं च तथाकाशमूर्द्ध्वस्थं पञ्चमं मुखम् ।।
विभागेनाथ वक्ष्यामि शम्भोर्वदनपञ्चकम् ।। ३ ।।
महादेवमुखं जेयं पूर्वं शम्भोर्महात्मनः ।।
नेत्राणि त्रीणि तस्याङ्ग सोमसूर्यहुताशनाः ।। ४ ।।
दक्षिणं तु मुखं रौद्रं भैरवं तत्प्रकीर्तितम ।।
पश्चिमं यन्मुखं तस्य नन्दिवक्त्रं तदुच्यते ।। ५ ।।
उमा वक्त्रं च विज्ञेयं तस्य देवस्य चोत्तरम् ।।
सदाशिवाख्यं विज्ञेयं पावनं तस्य पञ्चमम् ।। ६ ।।
त्रिलोचनानि सर्वाणि वामदेवं द्विलोचनम् ।।
महादेवमुखं भूमिस्ततः स्याद्भैरवं मुखम् ।। ७ ।।
नन्दिवक्त्रं तथा वायु रौद्रेयं चाप उच्यते ।।
सदाशिवमुखं ज्ञेयमाकाशं यदुनन्दन ।। ८ ।।
दिशो दश भुजास्तस्य विज्ञेयं वदनं प्रति ।।
महादेवकरे ज्ञेया त्वक्षमालाकमण्डलू ।। ९ ।।
सदाशिवमुखे ज्ञेयौ चापबाणौ महाभुज ।।
माहेश्वरं ततश्चापं पिनाकमिति शब्दितम् ।। 3.48.१० ।।
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन ।।
दण्डश्च मातुलुङ्गश्च करयोर्भैरवस्य तु ।। ११ ।।
मृत्यु दण्डौ विनिर्दिष्टौ मातुलुङ्गस्तथा करे ।।
जगद्बीजस्य सर्वस्य ये राजन्परमाणवः ।। १२ ।।
तैः पूर्णं बीजरत्नं तु भैरवस्य करे स्मृतम् ।।
चर्मशूले करे ज्ञेये नन्दिनो यदुनन्दन।। १३ ।।
पूर्वमेव च ते प्रोक्तं धर्मव्याकरणं मया ।।
त्रिशलूदण्डमव्यक्तं शूलेषु व्यक्ततां गतम् ।। १४ ।।
सत्त्वं रजस्तमश्चैव विज्ञातव्यं नृपोत्तम ।।
दर्पणेन्दीवरे ज्ञेये तथा देव्याः करद्वये ।। १५।।
आदर्शं निर्मलं ज्ञानं वैराग्यं च तथोत्पलम् ।।
महादेवस्य देवस्य व्याख्याता ब्राह्मणा जटाः ।। १६।।
ऐश्वर्यं तु कला चान्द्री मूर्ध्नि शम्भोः प्रकीर्तिता ।।
त्रैलोक्यशमनः क्रोधो वासुकिर्नामतः स्मृतः ।। १७ ।।
तृष्णा विशाला चित्रा च व्याघ्रचर्म प्रकीर्तितम् ।।
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।।१८।।
जगदुत्पादकं वस्तु प्रकृतिः सा प्रकीर्तिता ।।
शुक्ला च प्रकृतिः सर्वा तेन शुक्लो महेश्वरः ।। १९।।
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ।।
एवं शरीरेण जगत्समग्रं स धारयत्येव जगत्प्रधानः ।। 3.48.२० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महादेवरूपनिर्माणो नामाष्टाचत्वारिंशत्तमोऽध्यायः ।। ४८ ।।
3.49
वज्र उवाच ।।
नासत्ययोर्ममाचक्ष्व रूपनिर्माणमच्युत ।।
नासत्यरूपयोश्चैव त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ ।।
द्विभुजौ देवभिषजौ कर्तव्यौ देवसंयुतौ ।।२।
सर्वाभरणसंपन्नौ विशेषाच्चारुलोचनौ ।।
तयोरोषधयः कार्या दिव्या दक्षिणहस्तयोः ।। ३ ।।
वामयोः पुस्तकौ कार्यौ दर्शनीयौ तथा द्विज ।।
एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव ।। ४ ।।
नारीयुगं तु कर्तव्यं सुरूपं चारुदर्शनम् ।।
तयोश्च नामनी प्रोक्ते रूपसंपत्तथाकृतिः ।। ५ ।।
मधूकपुष्पसंकाशा रूपसंपत्प्रकीर्तिता।।
प्राकृतिः कथिता लोके शरकाण्डनिभा तथा ।।
न तु भाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा ।।६।।
नासत्ययो रूपमिदं तवोक्तं मयाद्य मुख्यं यदुवंशमुख्य ।।
ध्यानेन सर्वामयनाशकारि सम्पूजितं वा भुवि मानवानाम् ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नासत्यरूपनिर्माणो नामैकोनपञ्चाशत्तमोऽध्यायः ।।४९।।
3.50
वज्र उवाच।।
शक्रकीनाशवरुणधनदानां भृगूत्तम ।।
सहेतुकं समाचक्ष्व रूपनिर्माणमच्युत ।।१ ।।
मार्कण्डेय उवाच ।।
चतुर्दन्ते गजे शक्रः श्वेतः कार्यः सुरेश्वरः ।।
वामोत्सङ्गगता कार्या रक्षमाणा तथा शची ।।२।।
नीलवस्त्रः सुवर्णाभः सर्वाभरणवाँन्तथा ।।
तिर्यग्ललाटगेनाक्ष्णा कर्तव्यश्च विभूषितः।।३।।
शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची ।।
पद्माङ्कुशौ तु कर्तव्यौ शक्रदक्षिणहस्तयोः ।।४।।
वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ।।
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ।।५।।
दक्षिणं पृष्ठविन्यस्तं देवनाथस्य कारयेत् ।।
ब्रह्मणैव विनिर्दिष्टं तस्याभरणधारणम् ।। ६ ।।
तेनैव तस्य कथितं तथा बाहुचतुष्टयम् ।।
त्रिनेत्रता च तस्योक्ता देवदेवेन शम्भुना ।। ७ ।।
रुक्माभवर्णता तस्य तेजसां धामकारणात् ।।
यन्नीलं वसनं तस्य तदाकाशं प्रकीर्तितम् ।। ८ ।।
आज्ञा तस्याङ्कुशो हस्ते सर्वभूतवशङ्गरी ।।
पद्मस्थां सहपद्मेन विभूतिं भुवनाधिप ।। ९ ।।
करेण धारयञ्छ्रीमान्मघवान्सुरसत्तमः ।।
दुष्टसंशमनं क्रोधो वज्रः शक्रकरः स्मृतः ।। 3.50.१० ।।
वासुदेवः स्मृतः शक्रस्तेन लक्ष्मीः शची मता ।।
तस्याः करे च सन्तानं ज्ञेया सन्तानमञ्जरी ।। ११ ।।
अर्थस्त्वैरावणो ज्ञेयो दन्तास्तस्य तु कीर्तिताः ।।
दैवमन्त्रप्रभूत्साहशक्तयस्तु महाबलाः ।। १२ ।
एतद्रूपं वासुदेवस्य शाक्रं तुभ्यं प्रोक्तं देवराजस्य राजन् ।।
याम्यं रूपं तेऽधुनाहं ब्रवीमि यस्यायत्ते सुख दुःखे नराणाम् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसम्वादे शक्ररूपनिर्माणो नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।