विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०३१-०३५
← अध्यायाः २६-३० | विष्णुधर्मोत्तरपुराणम् अध्यायाः ३१-३५ वेदव्यासः |
अध्यायाः ३६-४० → |
3.31
मार्कण्डेय उवाच ।।
भावाध्यायमतो वच्मि तन्मे निगदतः शृणु ।।
हासाद्याः कथिता भावाः पञ्चाशत्त्वेकवर्जिताः ।। १ ।।
परचेष्टानुकरणाद्यद्धास्यमुपजायते ।।
स्मितहासाभिहसितैरभिनेयस्य पण्डितैः ।। २ ।।
इष्टार्थविषयप्राप्तौ रतिरित्युपजायते ।।
सौम्यत्वादभिनेया सा वाङ्माधुर्यादिभिस्तथा ।। ३ ।।
इष्टबन्धुवियोगेन धननाशेन पार्थिव ।।
शोको भवति तस्य स्याद्रुदिताभिनयक्रिया ।। ४ ।।
क्रोधश्चतुःप्रकारश्च कर्तव्यो नाट्ययोक्तृभिः ।।
रिपुजो गुरुजश्चैव भृत्यजः प्रणयोद्भवः ।। ५ ।।
निर्यन्त्रितः स शत्रूणां गुरूणां स्वेदसंयुतः ।।
भृत्यानां च दयालुः स्यात्स्त्रीणां च प्रणयोद्भवः ।। ६ ।।
कर्मातिशयनिर्वृत्तौ विस्मयो हर्षसंभवः ।।
सिद्धिस्थाने त्वसौ साध्यो रोमाञ्चहसनादिभिः ।।७।।
असौ मोहाभिनिर्वृत्तौ व्यवसायनयात्मकः।।
उत्साहस्त्वभिनेयः स्यादप्रमादक्रियादिभिः।।८।।
स्वापराधसमुद्भूतं भयं नामेह जायते ।।
वेपथुत्रासपतनैरभिनेयस्य सम्भ्रमैः।।९।।
बीभत्सदर्शनाद्यैस्तु जुगुप्सा नाम जायते।।3.31.१०।।
उद्वेजनैस्सहृल्लेखैरभिनेयो विकूणनैः।।
दारिद्र्येष्टविनाशे च निर्वेदो नाम जायते।।११।।
परस्परविनिःश्वासैस्तस्याभिनयनक्रिया।।
वान्ते विरक्ते श्रान्ते च ग्लानिः स्यात्तपसा तथा।।१२।।
मन्दाक्रमणकम्पाद्यैः क्षामत्वेनं च दर्शयेत् ।।१३।।
चौर्यादिभिर्गृहीतस्य शङ्का नामेह जायते ।।
आकारावरणं तस्याः कार्यं दिगवलोकनम् ।।
परापराधसम्भूता असूया नाम जायते ।। १४ ।।
गुणनाशनविद्वेषैः साभिनेया तथा बुधैः ।।
मद्योपयोगेन मदो जायते च त्रिभिस्तथा ।। १५ ।।
उत्तमाधममध्यत्वात्पुरुषाणां स्वभावतः ।।
दृग्भ्रमेणोत्तमानां स्यान्मध्यानां वाक्प्रलापतः ।। १६ ।।।
अधमानां च पतनैरसम्बद्धपरिक्रमैः ।।
आयासेनाधमनाञ्च श्रमो नामेह जायते।।१७।।
गात्रमर्दनविश्वासजृम्भणैस्तत्प्रयोजयेत् ।।
गर्वेण खेदाद्रागेण ह्यालस्य स्यात्स्वभावतः ।। १८ ।।
तस्य प्रयोगः कर्तव्यः शयनासनसेवनात् ।।
दौर्गत्येन मनस्तापाद्दैन्यं नामेह जायते ।। १९ ।।।
हृदयस्य वितर्केण तस्य त्वभिनयो भवेत् ।।
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैस्तथा ।। 3.31.२० ।।
तत्प्रतीकारशून्यस्य मोहः समुपजायते ।।।
व्यसनेनाभिघातेन वैरानुस्मरणेन च ।।२१ ।।
सर्वेन्द्रियाणां मोहेन स तु कार्यः प्रयोक्तृभिः ।।
स्मरणात्पूर्ववृत्तानां स्मृतिर्नामेह जायते ।। २२ ।।
भृशमुत्क्षेपणात्तस्याः प्रयोगः कार्यलोलनात् ।।
लोकं वृत्तान्तविज्ञानाद् वृत्तिर्नामेह जायते ।।२३।।
प्रयोज्यो लब्धभोगेन अलब्धस्य विवर्जितम् ।।
क्रीडा नामेह भवति चापल्याद्धर्षसंभवा ।। २४ ।।
क्रीडनेन प्रयोज्या सा गुरुवाक्यप्रतिक्रमैः ।।
कृताकार्यस्य राजेन्द्र व्रीडा नामेह जायते ।।२५।।
अधोमुखेन सा कार्या मूले स्वीकरणेन च ।।
ज्ञेया चपलता राजन्न विचार्या क्रियावता ।। २६ ।।
अयमेव प्रयोगस्य तथैव समुदाहृतः ।। ।
मनोरथानां लाभे तु हर्षो नामेह जायते ।।२७।।
सुखप्रसादरोमाञ्चप्रस्वेदैर्दर्शयेद् बुधः ।।
सम्भ्रमाज्जायते राजन्नावेग इति सर्वदा ।।२८।।
आः शब्दैः सहसानर्था दर्शनीया बुधैस्तु ते ।।
विषादस्य समुत्पत्तिः कार्यनाशेन जायते ।। ०९ ।।
निद्रानिःश्वसितव्याजैः साभिनेया तथा भवेत् ।।
उत्कण्ठाकरणैः सर्वैरौत्सुक्यं नाम जायते ।। 3.31.३० ।।
आलस्यगुरुगात्रत्वे ध्यानेनाभिनवैश्च तत् ।।
रात्रिजागरणालस्यमदैर्निद्रेह जायते ।। ३१ ।।
नेत्राभिमर्दनात्कार्या जृम्भणा गात्रगौरवात् ।।
अपस्मारस्तु भवति देवादीनां प्रकोपतः ।। ३२ ।।
निःसंज्ञत्वं समूर्द्धानं तस्येहाभिनयो भवेत् ।।
निद्रासमर्थं सुप्तत्वं स्वपनं तत्र योजयेत् ।। ३३ ।।
निद्रोच्छेदाद्धि बोधन्तु जृम्भणं तत्र योजयेत् ।।
विद्याशौर्यधनादिर्यैरमर्षो नाम जायते ।। ३४ ।।
शिरसः कम्पनैस्तस्य कार्यस्त्वभिनयो बुधैः ।।
धार्ष्ट्यजैह्मयादिसम्भूतो ह्यवहित्थोभयात्मकः ।। ३२।।
सर्वांगगोपनात्कार्योऽभिनयो नर्तनस्य च ।।
चौर्यादिजातमर्थस्य ग्लानिः कार्या प्रयोक्तृभिः ।। ३६।।
वातप्रायस्तथोन्मादो यथा ज्ञेयो वियोगजः ।।
असच्चेष्टाप्रलापेन तस्याभिनयकारणम्।। ।। ३७ ।।
व्याधिभिर्वा प्रहारैर्वा मरणं नाम जायते ।।
कर्तव्योभिनयस्तस्य मूढेन्द्रियविचेष्टनैः ।। ३८ ।।
महाभैरवनादाद्यैस्त्रासः समुपजायते ।।
संक्षिप्ताङ्गप्रकम्पाद्यैस्तस्य त्वभिनयो भवेत् ।। ३९ ।।
विचारणार्थे संदेहः कार्यो भूक्षेपकम्पनैः ।।
क्रोधोऽपराधाद्भवति क्रोधाभिनयदर्शनः ।। 3.31.४०।।
भयोपराधजो ज्ञेयो दृग्भयाभिनयात्मकः ।।
मनोरथाप्तिजो हर्षो रोमाञ्चेन प्रदर्शयेत् ।। ४१ ।।
भीतक्रोधश्च उभये रोमाञ्चस्य समुद्भवः ।।
स्वरभेदो भयाद्रौक्ष्यात्स्वरभेदेन दर्शयेत् ।। ४२ ।।
शोकानन्दसमुद्भूतमश्रु स्याद्रोदनेन तु ।।
वर्णावरत्वाद्विज्ञेयं वैवर्ण्यं नाट्ययोक्तृभिः ।।४३।।
वैवर्ण्यं नाभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ।।
ग्लानिः शङ्काभ्यसूया च श्रमश्चपलता तथा ।। ४४ ।।
रोमाञ्चहर्षे निद्रा च उन्मादो मद एव च।।
स्वेदश्चैव वहित्थश्च भावा हास्यरसे स्मृताः ।। ४५ ।।
आलस्योग्र्यजुगुप्साभिर्भावा हि परिवर्जिताः ।।
उद्भावयन्ति शृङ्गारं रसमास्वाद्यसंज्ञकम् ।। ४६ ।।
वेदस्यैव च चिन्ता च दैन्यग्लान्यश्रुपातनम् ।।
जडता मरणं चैव व्याधिश्च करुणारसे ।। ४७ ।।
असम्मोहस्तथोन्मादो विषादो मद एव च ।।
मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ।। ४८ ।।
स्तम्भः स्वेदश्च रोमाञ्चो जुगुप्सा विस्मयस्तथा ।।
प्रवेगो जडता हर्षोऽसूया दैवाद्भुते रसे ।। ।। ४९ ।।
स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ।।
मतिश्चैव तथोग्रत्वममर्षो मद एव च ।। 3.31.५० ।।
रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा ।।
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति वै।।५१।।
ये चान्ये सात्त्विका भावा नानाभिनययोनिजाः ।।
रसेष्वेतेषु ते सर्वे विज्ञेया नाट्यकोविदैः ।।५२।।
बहूनां समवेतानां रूपं यस्य भवेद्बहु ।।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः ।। ५३ ।।
शृङ्गारं त्रिविधं विन्द्याद्वा नेपथ्यक्रियात्मकम् ।।
अङ्गनेपथ्यभावश्च हास्यरौद्रौ प्रकीर्तितौ ।।५४।।
धर्मार्थबन्धुघातेन करुणस्त्रिविधः स्मृतः ।।
युद्धवीरं दयावीरं दानवीरं तथैव च ।। ५५ ।।
रसं वीरमिति प्राहुस्तज्ज्ञास्त्रिविधमेव च ।।
व्याजत्रासापराधैश्च त्रिधा विद्याद्भयानकम् ।। ५६ ।।
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगजम् ।।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ।।५७।।
एकोनपञ्चाशदिमे समग्रा भावव्यवस्था गदिता मया ते ।।
युक्त्या च ये यत्र रसे नियुक्ताः प्रोक्तं तदप्यत्र नरेन्द्रचन्द्र ।। ५८।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे एकोनपञ्चाशद्भावनिरूपणो नामैकत्रिंशत्तमोऽध्यायः ।।३१।।
3.32
श्रीमार्कण्डेय उवाच ।।
अथातो मुद्राहस्तान् व्याख्यास्यामः ।।
वासस्य प्रसारिताङ्गुष्ठस्योपरि यदा कुब्जतर्जनी भवति तदोङ्कारः ।।
करमध्य गतासु सर्वास्वंगुलीषु क्रमात्कुब्जीकृतास्वङ्गुष्ठाद्यासु अ इ उ ए ओ प्रसारितासु अ इ उ ऊ ऐ ओ अं मुकुलः अः मुकुलविशेषः अङ्गुष्ठमूलगतया परहस्ततर्जन्या क्रमात्कवर्गः।
सर्वाधःपरं रेखागतया तवर्गः ।
तदुपरि बवशतयैः पवर्गः।
तर्जन्याद्यस्तु प्रथमपर्वगतया पवर्गः।
अग्रेषु शवर्गः।
मध्यमा नखस्पर्शे र क्ष इति ।
अ वासुदेवः ।
आ सङ्कर्षणः। अं प्रद्युम्नः ।
अः अनिरुद्धः ।
अञ्जलिपुरुषः करयोः परस्परपृष्ठलग्नयोः ।
कनीयस्या कनीयसी चेति, तर्जन्या तर्जनी अङ्गुष्ठेनाङ्गुष्ठ इति तार्क्ष्यमुद्रा ।
पताकः कुञ्चिताग्रस्तालः तिर्यक्प्रसारिताङ्गुष्ठो मकरः।
कुञ्चिताङ्गुलिरर्धचन्द्रः ।
दृश्यशिखरौ कनीयस्यङ्गुल्यग्रलग्नौ ।
संहताङ्गुष्ठः शंखः ।
अः कारौ संहतौ स्पष्टाङ्गुलौ पद्मः ।।
कुब्जाङ्गुष्ठो लक्ष्मीः ।
मकरः प्रसारिताङ्गुलिः ।
शेषस्तदुपरि शिखरे भोगशमनः ।
अः कार एव प्रसारितमध्यमाङ्गुलिर्ग ऊउः ।
तत्रैव मध्यमाङ्गुलिः शिखरगृहीता गरुडवाहनम् ।
मध्यमानामिकयोरङ्गुष्ठयोश्चाग्रयोगे चक्रः ।
उपर्युपरि कपित्थयोरुपरि चिबुके गदा ।
कपित्थकुब्जमध्यमिको हलः ।
कर्कटके सुमूलम् ।
कपित्थमध्यभ्रष्टाङ्गुलिः ।
चर्म कपित्थं पृष्ठतलाङ्गुलिः खड्गः शिखरो मध्यभ्रष्टाङ्गुलिर्धनुः ।
तर्जनीमध्यमिकोङ्गुष्ठानां संहतानां वियोगाच्छरः।
मुकुलसञ्चितकनीनिकः कौस्तुभः ।
द्वौ शिखरौ पृथक् वनमाला ।
अः कारो पृथग्लग्नो नृसिंहः ।
शिखरप्रसारितकनीनिकाधो वराहः ।
इ हयशिरः ।
ओं वामनः ।
वितलि स्त्रिविक्रमः ।
अर्धचन्द्रो मत्स्यः।
अधोमुखः कुज्जपताकः कूर्मः।
शिखरप्रसारितकनीयानूर्ध्वमुखाङ्गुष्ठो हंसः।
पताकः कुब्जकरमध्यो दत्तात्रेयः।।
कपित्थः परशुरामः ।
द्वौ शिखरौ युक्तौ दाशरथी।
पताकः कृष्णः। त्रिपताको बलदेवः ।
शिखरो विष्णुः ।
उत्तानपताकः पृथिवी ।
कुब्जः पताकः प्रसारितोङ्गुष्ठ स्तोयः ।
अङ्गुष्ठाग्राङ्गुलिर्नखपरिमार्जितोऽग्निः ।
चलत्पताको वायुः ।
तिर्यङ्मुष्टिप्रसारिततर्जनीकोऽन्तरिक्षम् ।
वितस्तिद्वययोगो वर्तुलीकृतोऽर्कः अनामिकार्धेन वक्रश्चन्द्रः ।
सर्वासुमुकुलितासु प्रसारिते मध्यमा तर्जनी नरनारायणौ ।
तत्रैव प्रसारिताग्रनासिका गुणाः ब्रह्मविष्णुमहेश्वराः ।
वामस्य प्रसारिताङ्गुलेस्तदुपरि तथाविध एव दक्षिणः कपिलः ।
चतस्रोप्यंगुल्यः प्रसारितस्तन्मूले कुञ्चिताङ्गुष्ठश्चान्तरात्मा तोयः ।
प्रसारितकनि ष्ठिको ऋग्वेदः ।
सैवानामिकया सह प्रसारितो यजुर्वेदः ।।
चतुरात्मा प्रसारितांगुष्ठः सामवेदः ।
वेष्ट्यमानास्वंगुलीषु करमध्यगमनेन गायत्री ।
सामवेदोऽधोमुखांगुलिः शिक्षा ।
सैव दक्षिणदिशि नीता कल्पः ।
तर्जन्यंगुष्ठयोगे व्याकरणम् ।
शिखरेंगुष्ठेन तर्जनीमध्यगेन निरुक्तम् ।
खटकामुखाभ्यां ज्योतिषम् ।
अधोमुखश्छन्दोविचितिः ।।
एता रहस्यमुद्रास्ते मयोक्ता नृपसत्तम ।।
अतः परं प्रवक्ष्यामि सामान्यांस्तान्निबोध मे ।।
इति श्रीवि०मा०व०सं० तृतीयखण्डे रहस्यमुद्रावर्णनो नाम द्वात्रिंशत्तमोऽध्यायः।। ३२।।
3.33
मार्कण्डेय उवाच।।
उत्तानं तु करं कृत्वा चतुरांगुलिकुञ्चितम् ।।
अंगुष्ठपार्श्वतो योज्यो भस्ममुद्राप्रकार्तिता ।।१।।
सा तिर्यगुच्छ्रितांगुलिलिङ्गमुद्रा प्रकीर्तिता ।।
अंगुल्यस्त्रयः सकोऽस्याग्रांगुष्ठपरिसंचिताः ।। २ ।।
तर्जनीं प्रसृतां कृत्वा जटामुद्रा प्रकीर्तिता ।।
वेत्रमुद्रा यदा तस्यां नेत्रान्ते तर्जनी भवेत ।। ३ ।।
बन्धस्थां तु प्रकुर्वीत चांगुष्ठं प्रसृतं तथा ।।
उत्तानं मूर्ध्नि संयोज्यं शशाङ्कं तु विनिर्दिशेत् ।।४ ।।
अंगुल्यः प्रसृताः सर्वा वर्तुलाः शृङ्गरूपकाः ।।
मूर्ध्नि कृत्वा तु तां मुद्रां गोवृषं तु विनिर्दिशेत् ।। ५ ।।
तिर्यक्कृत्वा तु तं हस्तं सर्वसङ्कुचितांगुलिम् ।।
अंगुष्ठं मध्यमावेष्ट्य पर्यस्तं तु विनिर्दिशेत् ।। ६ ।।
कनिष्ठिकां सङ्कुचितामंगुष्ठोपरि विन्यसेत् ।।
कनिष्ठानामिकामध्ये दक्षांगुष्ठं प्रकीर्तितम् ।। ७ ।।
उत्तानौ तु करौ कृत्वा अन्योन्यान्तरितांगुली ।।
कनिष्ठिकान्ते चांगुष्ठमनन्तेति प्रकीर्तिता ।। ८ ।।
उत्तानं दक्षिणं हस्तं त्वधो वामं तथोपरि ।।
करजान्योन्यसंयोगाद्धर्मस्य परिकीर्तिता ।। ९ ।।
सा चैव विपरीता तु ज्ञानस्य परिकीर्तितम् ।।
कनिष्ठिके द्वे चांगुष्ठौ युग्मीकृत्वा प्रसारयेत् ।। 3.33.१० ।।
वैराग्यस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ।।
पृष्ठे पृष्ठं तु संयोज्यं करयोरुभयोरपि ।। ११ ।।
कनीन्यंगुष्ठयोगेन भवत्यैश्वर्यमेव च ।।
पद्माकारो भवेद्धस्तः कनिष्ठातर्जनीयुतः ।। १२ ।।
चतस्र उच्छ्रिताः कृत्वा पृष्ठेन्योन्यं तु योजयेत् ।।
अंगुष्ठावेकतः कृत्वा प्रणालं चैव कारयेत् ।। १३ ।।
सकलस्य भवेन्मुद्रा दुष्टानां शमनी शुभा ।।
त्रयः सङ्कुचिता यत्र कनिष्ठांगुष्ठकेकलाः ।। १४ ।।
उत्तानं दक्षिणांगुष्ठं वामांगुष्ठेन वेष्टयेत् ।।
दक्षिणांगुलिभिश्चात्र वामांगुष्ठं तु वेष्टयेत् ।। १५ ।।
वामस्यांगुलिभिश्चात्र त्वंगुली परिवेष्टयेत् ।।
तर्जन्यौ कुञ्चितौ कृत्वा मुद्रा निष्कलरूपिणी ।।१६।।
उत्तानौ तु करौ कृत्वा अंगुष्ठांगुलिकुञ्चितौ ।।
करमध्यस्थिता ह्येता नखाँस्तासां तु गोपयेत् ।। १७ ।।
पृष्ठं पृष्ठे तु संयोज्य त्वंगुष्ठौ विन्यसेत्समम् ।।
मालाकारं ततः कृत्वा देव्या मुद्रा प्रकीर्तिता ।। १८ ।।
अंगुष्ठोंगुष्ठके योज्यः कनिष्ठायां कनिष्ठिका ।।
करमध्ये तु तां कृत्वा षडाभ्यामेकतः कुरु ।। १९ ।।
सकुच्य तु षडेतानि शक्त्याकारं तु कारयेत् ।।
स्कंदस्य तु स्मृता मुद्रा अभेद्या त्रिदशैरपि ।। 3.33.२० ।।
अधोमुखं करं कृत्वा तिस्रोंगुल्यस्तु कुञ्चिताः ।।
त्रिताला मध्यमा तत्र किंचित्सङ्कुचिता भवेत् ।। २१ ।।
तर्जन्यां योजयांगुष्ठे दन्ताकारं तु दर्शयेत ।।
विघ्नराजस्य मुद्रैषा सर्वविघ्नप्रणाशिनी ।। २२ ।।
उत्तानौ प्रसृतौ हस्तौ तर्जन्यंगुष्ठसंवृतौ ।।
अस्य वामौ तु संयोज्य शक्रमुद्रा प्रकीर्तिता ।। २३ ।।
संकोच्य करजां मध्यां हस्तयोरुभयोरपि ।।
प्रसृतांगुष्ठमुत्तानां योज्या मुद्रा हुताशने ।। २४ ।।
अधोमुखं करं कृत्वा यस्य स्यात्कुंचितांगुलिः।।
विरूपाक्षस्य मुद्रैषा भवेन्मध्या प्रसारिता ।। २५ ।।
उत्ताने प्रसृतांगुल्यः करे भवति वारुणी ।।
तामेव तु यदा तिर्यक्तदा भवति मारुती ।। २६।।
निकुंचिताश्च ताः सर्वाः कौबेरी तु प्रकीर्तिता ।।
मध्ये प्रसारितास्तिस्रो मुद्रेशानी प्रकीर्तिता ।। २७ ।।
ब्रह्मजा पद्ममुद्रा स्याद्भोगोऽनंतस्य कीर्तिता ।।
वामासक्तस्य वामां तु दक्षिणानामपक्रमे ।। २८ ।।
तयोरग्राणि गृह्णीत तर्जन्यग्रद्वयेन तु ।।
संकोचयेत्षडेतानि स्वांगुष्ठे तर्जनीं न्यसेत् ।। २९ ।।
वज्र एषः समाख्यातः शक्तिः पूर्वमुदाहृता ।।
करौ बाहुद्वयं चैव दण्डमुद्रा प्रसारिता ।। 3.33.३० ।।
कनिष्ठानामिके द्वेद्वे अन्तर्यांगुष्ठकुंचितौ ।।
चत्वारः प्रसृता युग्मः खड्गमुद्रा प्रकीर्तिता ।। ३१ ।।
वर्तुलां तर्जनीं कृत्वा अंगुष्ठोपरि विन्यसेत् ।।
दक्षिणं तर्जनी चैव तस्यास्ये तु नियोजयेत् ।। ३२ ।।
दक्षिणं कुंचितं कृत्वा तिस्रो वामाः प्रसारिताः ।।
मुष्टिं कृत्वा तु वामेन त्वंगुष्ठं तु समुच्छ्रयेत ।। ३३ ।।
अंगुष्ठेन तु संगृह्य पताका प्रसृता करा ।।
तिर्यक्करं तु कृत्वा वै सङ्कुच्य चतुरंगुलीः ।। ३४ ।।
अंगुष्ठं प्रसृतं कृत्वा गदामुद्रा तथा परा ।।
अन्योन्यं योजयेद्धस्तौ कनिष्ठांगुष्ठयोजितौ ।। ३५ ।।
तदेव युग्मं प्रसृता शूलमुद्रा प्रकीर्तिता ।।
नित्यं प्रसारयेद्धस्तं स्वल्पाकारं तु योजयेत् ।। ३६ ।।
मध्यमेकन्यसेद्द्वेद्वे प्रसृताग्रे नियोजयेत् ।।
तर्जनीद्वयं संकुच्य मध्यमापृष्ठसंस्थिता ।। ३७ ।।
द्रव्यरूपा स्मृता ह्येषा आत्मभावे नियोजयेत् ।।
उत्तानौ तु करौ कृत्वा षडेतेंगुलयः स्मृताः ।। ३८ ।।
समानाः सुसमानाश्च योजिता वैष्णवी भवेत् ।।
तर्जन्यौ कुंचिते कृत्वा मध्यमा पृष्ठतो न्यसेत् ।। ३९ ।।
कनिष्ठोपरि चांगुष्ठौ वृतमुद्रा प्रकीर्तिता ।।
उत्तानं वामहस्तं च दक्षिणं चाप्यधोमुखम् ।। 3.33.४० ।।
मध्यमानामिके द्वे द्वे संकुच्यांगुष्ठसंस्थिते ।।
तर्जनीकन्यका चैव मध्यमाभ्यां समाक्रमेत् ।। ४१ ।।
द्वितीया द्रव्यरूपी च गन्धमुद्रा प्रकीर्तिता ।।
उत्तानौ तु करौ कृत्वा कनिष्ठानामिका तथा ।। ४२ ।।
संकोचयित्वा चत्वारो मध्यमे द्वे प्रसारयेत् ।।
अंगुष्ठगे च तर्जन्यौ पुष्पमुद्रा प्रकीर्तिता ।। ४३ ।।
उत्तानौ तु करौ कृत्वा षडंगुलिनिकुंचितौ ।।
प्रसृते तर्जनीं कृत्वा चाग्रमग्रे नियोजयेत् ।। ४४ ।।
तयोर्मूले तथांगुष्ठौ धूममुद्रा प्रकीर्तिता ।।
तर्जन्या तर्जनी यत्र कनीयस्या कनीयसी ।। ४५ ।।
चतस्र उच्छ्रिताः कृत्वा पृष्ठं पृष्ठे नियोजयेत् ।।
अंगुष्ठावुच्छ्रितौ कृत्वा दीपमुद्रा प्रकीर्तिता ।। ४६ ।।
उच्छ्रितांगुलयः सर्वाः कनीयोरुभयोरपि ।।
पृष्ठं पृष्ठे तु संयोज्य अंगुष्ठाग्रे नियोजयेत् ।। ४७ ।।
नैवेद्यमुद्रा कथिता फलकारकरा शुभा ।।
अंगुल्यः संहताः सर्वास्तथा संकुचिताश्च याः ।। ४८ ।।
पुष्पमुद्रा विनिर्दिष्टा द्वितीया यदुनन्दन ।।
अंगुष्ठौ चैकतः कृत्वा अनामा च कनीयसी।।४९।।
मध्यमे द्वे च संकोच्य अनामा पृष्ठतो न्यसेत् ।।
दत्त्वा चैव तु तर्जन्यौ मध्यमाः परिविन्यसेत् ।। 3.33.५० ।।
महामुद्रा भवत्येषा सर्वद्रव्यप्रपूरणी ।।
अनामा मध्यमे द्वे तु अन्योन्यान्तरिते कृते ।। ५१ ।।
संयोज्य मध्यमे स्वाग्रं तर्जनीद्वयमेव च ।।
कनिष्ठाद्ये तथा द्वेद्वे स्वाग्रे नाम्नि नियोजयेत् ।। ५२ ।।
अर्धस्थितौ तथांगुष्ठौ अमृताख्या प्रकीर्तिता ।।
चण्डीशमुद्रा कथिता अञ्जलिः कुब्जतर्जनी ।। ।। ५३ ।।
अस्त्रमुद्रा भवेद्राजन् पद्मः स्यात्संहताञ्जलिः ।।
दक्षिणेन तु हस्तेन मुष्टिं बद्ध्वा प्रयत्नतः ।। ५४ ।।
अडुष्ठमुन्नतं कृत्वा वामाङ्गुष्ठे तु निक्षिपेत् ।।
दक्षिणां च तथा मुष्टिं वामाङ्गुल्या तु वेष्टयेत् ।। ५५ ।।
सद्योजातस्य मुद्रैषा कथिता पापनाशिनी ।।
इयमेव विपर्यस्ता वामदेवस्य कीर्तिता ।। ५६ ।।
करसम्पुटकं कृत्वा वामां नासां तु कारयेत् ।।
दक्षिणे मध्यमाकुंच्य अङ्गुष्ठौ कुञ्चयेत्तथा।। ५७ ।।
शूलाकारं ततः कृत्वा हदयं परिवर्तयेत् ।।
अघोरस्य स्मृता मुद्रा सर्वविघ्नविनाशिनी ।। ५८ ।।
उत्तानौ तु करौ कृत्वा अनामाद्वयकुञ्चितौ ।।
तस्यामुपरि चाङ्गुष्ठौ तर्जन्यौ द्वे च कुञ्चिते ।। ५९ ।।
मध्यानामे तु ते द्वे तु कनिष्ठामेकतो न्यसेत् ।।
मुद्रैषा वज्रसंज्ञस्य सर्वदुष्टनिवारणी ।। 3.33.६० ।।
कनिष्ठानामिके द्वेद्वे अन्तरान्तरयोजिते ।।
आकुञ्च्यान्तरिते योज्ये शेषे चैव प्रसारिते ।। ६१ ।।
ईशानस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ।।
तर्जन्यौ कुञ्चिते कृत्वा तथैव च कनीयसी ।। ६२।।
अधोमुखां स्पृष्टनखां स्थितां मध्ये करस्य तु ।।
चतस्रश्चोच्छ्रिताः पृष्ठे त्वङ्गुष्ठावेकतः कुरु ।। ६३ ।।
नालव्यवसितौ द्वौ तु मुद्रा व्योम्नः प्रकीर्तिता ।।
मुष्टिं बद्ध्वा तु वामेन तर्जनीं सम्प्रसारयेत् ।। ६४ ।।
ग्राह्या दक्षिणमुष्ट्या तु मुद्रा सर्वात्मना भवेत् ।।
वाममुष्टौ तथाङ्गुष्ठं दक्षिणं प्रक्षिपेद्बुधः ।। ६५ ।।
करजा पृष्ठतो योज्या मुद्रैषा शिवसंज्ञिता।।
अङ्गुल्योन्तर्हिताः सर्वा वर्तुला गर्भसंस्थिता ।। ६६ ।।
प्रसृता मध्यमा युक्ता शिखामुद्रा प्रकीर्तिता ।।
अधोमुखास्तु वै तिस्रः तिर्यक्ताश्च सुसंस्थिताः ।। ६७ ।।
कनीयस्युपरि त्वासां ताश्च सर्वा अधोमुखाः ।।
तासामुपरि चाङ्गुष्ठे दक्षिणं सम्प्रयोजयेत ।। ६८ ।।
वामे धर्मज्ञमुद्रैषा कथिता लाङ्गलस्य तु ।।
बन्धे त्वनामिका त्वस्मिन्मुद्रा ह्यस्त्रस्य कीर्तिता ।। ६९ ।।
उत्तानौ तु करौ कृत्वा उभावेकत्र योजयेत ।।
करजास्तु स्मृताः सर्वा मुद्रा गायत्रसंज्ञिताः ।। 3.33.७० ।।
मुष्टौ प्रसारयेदेकामंगुलीं तु क्रमान्नृप ।।
तर्जन्यन्तां कनिष्ठाद्यां शक्तिमुद्रा प्रकीर्तिता ।। ७१ ।।
हृदि न्यस्तोऽञ्जलिर्ज्ञेयो नमस्कारो नराधिप ।।
कपित्थयजनीं गृह्य शिखरेण ध्वजो भवेत ।। ७२ ।।
अङ्गुष्ठे योज्य तर्जन्यौ हस्तोत्तानौ स्मृताङ्गुली ।।
मणिबन्धौ निपीड्यैव शशिकर्णी भवेन्नृप ।। ७३ ।।
सम्पुटीकृत्य हस्तौ द्वौ किञ्चित्सङ्कुचिताङ्गुलिः ।।
मुकुला तु समाख्याता पङ्कजं प्रसृतैव सा ।।७४ ।।
उत्तानो तु सृतौ हस्तौ कृत्वाङ्गुष्ठौ तु कुञ्चितौ ।।
मध्यसंस्थौ करौ कृत्वा आवाहन्यास्तु लक्षणम् ।। ७५ ।।
अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गुलिवेष्टितौ ।।
उभौ चाभिमुखौ हस्तौ योजयित्वा तु रिष्ट्ररा ।। ७६ ।।
उत्तानं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ।।
भ्रामयेद्वर्तुलाङ्गुष्ठा मुद्रा प्रोक्ता विसर्जने ।। ७७ ।।
वितस्तिद्वयसंयोगाद्भद्रमुद्रा प्रकीर्तिता ।।
मुष्टिः प्रमार्जिता ज्ञेया लिङ्गमुद्रा तथैव च ।। ७८।।
सन्दष्टे मार्जितावोष्ठौ तीर्णमुद्रा प्रकीर्तिता ।।
प्रसारितौ भुजौ कृत्वा भुजाग्रौ कुञ्चितौ तथा ।। ७९ ।।
अग्राग्रौ कुञ्चितांशेन करपल्लवसन्निभौ ।।
तर्जनीं कुञ्चितां कृत्वा अङ्गुष्ठोपरि विन्यसेत् ।। 3.33.८० ।।
निकुब्जौ बाहुदण्डौ तु बध्नीयाच्च पृथक्पृथक ।।
कैरिणी नाम मुद्रैषा कथिता सूर्यदेवता ।। ८१ ।।
पद्माकारौ करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ।।
अङ्गुल्या कारयेत्तस्मिन्विश्वमुद्रेति कीर्तिता ।। ८२ ।।
सम्मुखौ तु करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ।।
कनिष्ठामध्यमे योज्यौ तर्जन्यौ मध्यमे तथा ।। ८३ ।।
हृदि मूर्ध्नि शिखाबन्धे मुद्रेयं व्योमसंज्ञिता ।।
मुष्टिबन्धोच्छ्रितां कृत्वा मध्यहस्तस्य तर्जनीम् ।। ८४ ।।
तालशब्दकृतासौ तु मुद्रा चास्रस्य कीर्तिता ।।
मध्यमा तर्जनी चैव सव्यहस्तस्य चोच्छ्रिते ।। ८५ ।।
कनिष्ठानामिके कुब्जे साङ्गुष्ठेनैव संज्ञिता ।।
नेत्रप्रदर्शिता ज्ञेया गोवृषागमने तथा ।। ८६ ।।
उत्तानौ तु करौ कृत्वा सर्वाङ्गुल्यो विकुञ्जिताः ।।
कृत्वा चोपरि चाङ्गुष्ठं चालयेत पुनः पुनः ।। ८७ ।।
सर्वासामेव शक्तीनां मुद्रैषा सम्प्रकीर्तिता ।।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।।८८ ।।
अमोघा विद्युता चैव नवमा सर्वतोमुखी ।।
इति नामानि शक्तीनां सरहस्यानि निर्दिशेत् ।। ८९ ।।
सम्मुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ।।
इयं मुद्रा नमस्कारे रवि सान्निध्यकारिणी ।। 3.33.९० ।।
अनामिकायाः सन्देशो रविमुद्रा प्रकीर्तिता ।।
सोममुद्रा मध्यमया भीममुद्रा ह्यनामया ।। ९१ ।।
कनीयस्या बुधे मुद्रा उन्मूले जीवसंज्ञिता ।।
अनामिकामूलगा तु शुक्रमुद्रा प्रकीर्तिता।।९२ ।।
मध्यमामूलगांगुष्ठा शनिमुद्रा प्रकीर्तिता ।।
तर्जनीमूलगांगुष्ठे राहु मुद्रा प्रकीर्तिता ।। ९३ ।।
तर्जनी चलनाज्ज्ञेया केतुमुद्रा नराधिप ।।
वामहस्तेन शिखराः क्रोधमुद्रा प्रकीर्तिता ।। ९४ ।।
सम्पुटौ तु करौ कृत्वा वामोच्छ्रायां नराधिप ।।
एषा वराहमुद्रा तु सर्वकर्मकरी शुभा ।। ९५ ।।
वामेन वेष्टितौ हस्तौ दक्षिणा भैरवी भवेत् ।।
हस्तावधो मुखौ यत्र दृष्टिश्चाधस्तथा भवेत् ।। ९६ ।।
पातालभञ्जिनी नाम मुद्रैषा कथिता नृप ।।
कपित्थानामिका दीर्घास्तम्भनी तु निगद्यते ।। ९७ ।।
करमध्यात्तु संग्राह्यमिव मध्येन चाहतम् ।।
एवं मध्येन संयुक्ता क्रोधिनी परिकीर्तिता ।। ९८ ।।
सहमध्या तु संग्राह्या खातमध्ये द्विधाहतम् ।।
एवमध्येन संयुक्ता वीर्यमुद्रा प्रकीर्तिता ।। ९९ ।।
एवमध्येन संयुक्तं भैरवी चापरा भवेत् ।।
क्षेत्रमध्या तु संग्राह्या इरमध्येन संयुतम् ।। 3.33.१०० ।।
एवमध्येन च क्रान्तं स्तम्भनी चापरा भवेत् ।।
लसन्मध्या तु संग्राह्यमेकमध्येन चाहतम् ।। १०१ ।।
पातालभञ्जनी नाम मुद्रेयमपरा भवेत् ।।
तर्जनी मध्यमा चैव तथा चैव त्वनामिकाम् ।। १०२ ।।
मध्यपर्वसु संयुक्तां पृष्ठतः कारयेत्करे ।।
शङ्खमुद्रेयमुद्दिष्टा पूर्वमुक्ता तथापरा ।।] ०३ ।।
प्रसार्य सर्वाश्चाङ्गुल्यः करपृष्ठे च योजयेत् ।।
चक्रमुद्रा भवेत्तेषां पूर्वमुक्ता तथापरा ।। १०४ ।।
कटिभागप्रदेशे तु मुष्टिस्तु त्रिशिरा भवेत् ।।
गदा मुद्रा भवत्येषा सर्वविघ्नप्रणाशिनी ।। १०५ ।।
अन्योन्याभिमुखौ कृत्वा करौ संवेष्टिताङ्गुली ।।
सहाङ्गुष्ठेन निर्दिष्टा मुद्रा कौस्तुभसंज्ञिता ।। १०६ ।।
संस्पृश्य वह्निशिखिरां वामचक्रिणकं स्पृशेत् ।।
इयं मुद्रा विनिर्दिष्टा वनमालेति पार्थिव ।। १०७ ।।
अनामीनाशने द्रव्ये स्रजं द्रव्य करद्वये ।।
जंघामध्यगतौ कृत्वा चिबुकोऽर्धसमायुतौ ।। १०८ ।।
मुखं विवृतकं कुर्याज्ज्वलज्जिह्वा तु लेलिहा ।।
एषा मुद्रा महामुद्रा नारसिंहीति कीर्तिता।।१०९।।
अङ्गुष्ठं मुष्टिना ग्राह्यं ह्यमुद्रां परिकीर्तिता ।।
मुष्टिं बद्ध्वैव चाङ्गुष्ठे तिर्यग्गं कारयेच्छिरः।।3.33.११०।।
स्पष्टा तु तर्जनीमुष्टौ शिखामुद्रा प्रकीर्तिता ।।
तर्जनीप्रान्तसंलग्ने द्वे मुष्टी कवचं भवेत् ।। १११।।
मुष्टी बद्ध्वा तु हस्तौ द्वे उभयांगुलियोजितौ।।
गदामुद्रा समाख्याता सर्वकर्मकरी शुभा ।। १ १२।।
तर्जनी तु तथाङ्गुष्ठे प्रतिश्लिष्टौ तु कारयेत् ।।
शेषाः प्रसारिताङ्गुल्यो नेत्रमुद्रा भवेन्नृप।।११३।।
अनाम्योऽर्धेलिनौ कृत्वा तर्जन्यानां समं श्रयात्।।
मध्यमौ चोन्नतौ कृत्वा अङ्गुष्ठौ श्लेषितौ समौ।।।११४।।
एषा मुदा समाख्याता दिव्या च शिरसो नृप।।
अञ्जलिः प्रमदा मुद्रा क्षिप्रं देवप्रसारितम् ।। ११५।।
वन्दने हृदया मत्ता पूर्वदक्षिणतोऽपरा ।।
ऊर्ध्वोऽङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः ।। ११६।।
संन्यस्य तस्य चाङ्गुष्ठौ यस्या ऊर्ध्वं प्रतिष्ठितम् ।।
वासुदेवस्य मुद्रैषा बद्धा स्यात्पापनाशिनी ।। ११७ ।।
हस्तयोरुभयोरेव कनिष्ठाङ्गुष्ठगर्भकौ ।।
शेषाः प्रसारितः श्लिष्टा मुद्रा सङ्कर्षणस्य तु ।। ११८ ।।
तर्जन्यावर्धतः श्लिष्टौ समाङ्गुष्ठौ तु श्लेषितौ ।।
एषा मुष्टिं ततः कृत्वा मुद्रा प्रद्युम्नसंज्ञिका ।। ११९ ।।
अङ्गुल्यौ वलितौ यत्र सूर्पाकारौ तु कारयेत्।।
वेष्ट्याङ्गुष्ठावधः कार्यावनिरुद्धे तु कारयेत ।। 3.33.१२० ।।
इत्युद्देशे तु ते प्रोक्ता मुद्राहस्ता मया नृप ।।
दर्शयेन्मन्त्रयुक्तानां परां सिद्धिमभीप्सिताम् ।।१२१।।
यथामन्त्रं यथादेवं यथाविधिरतंद्रितः ।।
मन्त्रेषु देवतायुक्ता बह्व्यो मुद्राः प्रकीर्तिताः ।।१२२।।
तासां मन्त्रं तु विज्ञेयं नियोगो नृप इष्यते ।। १२३ ।।
एतावदुक्तं नृप नृत्तशास्त्रं समासतः पार्थिववंशमुख्य ।।
निःशेषमेतद्गदितं महार्थं विस्तारतः सर्वजगत्प्रधानम् ।।१२४।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रमुद्रा नाम त्रयस्त्रिंशत्तमोऽध्यायः ।। ३३ ।।
3.34
वज्र उवाच ।।
नृत्तमुत्पादितं केन ऋषिणा दैवतेन वा ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
एकार्णवे पुरा लोके नष्टस्थावरजंगमे ।।
शेषपर्यङ्कशयने सुप्ते मधुनिषूदने ।। २ ।।
संवाह्यमानचरणे लक्ष्म्या यदुकुलोद्वह ।।
नाभ्यां तस्य समुत्पन्नं पद्मं पद्मनिभेक्षण ।। ।। ३ ।।
तत्र जातः स्वयं ब्रह्मा देवः शुभचतुर्मुखः ।।
दैवैः सह महाभाग सशरीरैर्नराधिप ।। ४ ।।
पद्मोदबिन्दु सम्भूतौ तत्रैव मधुकैटभौ ।।
रजस्तमोमयौ चोरौ दानवौ तौ भयानकौ ।। ५ ।।
ततो जगृहतुर्वेदान्ब्रह्मणस्तौ नराधिप ।।
हत वेदस्ततो ब्रह्मा तुष्टाव मधुसूदनम् ।। ६ ।।
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।।
दानवापहृता वेदा अन्धो जातोस्मि शत्रुहन् ।। ७ ।।
एवमुक्तस्तदा विष्णुर्ब्रह्मणा पुरुषोत्तमः ।।
उत्थाय सलिलात्तस्माद्बभ्राम सलिलाशये ।। ८ ।।
अङ्गहारैः सुललितैस्तथा पदपरिक्रमैः ।।
तथा भ्रमन्तन्तं देवं ददर्शायतलोचना ।। ९ ।।
अतीव ललितं लक्ष्मीर्जातरागा विशेषतः ।।
देवोप्यश्वशिरो भूत्वा पातालतलगः क्षणात ।। 3.34.१० ।।
स दैत्यान्दृष्टवान्वेदांस्त्यक्त्वाश्वशिरसस्तनुम् ।।
जघान तौ महाकायौ दानवौ मधुकैटभौ ।। ११ ।।
हत्वा वेदसहायस्तु सम्प्राप्तो ब्रह्मणोऽन्तिके ।।
ददौ वेदांस्ततस्तस्मै देवदेवः स्वयम्भुवे ।। १२ ।।
दत्त्वा वेदांस्ततः प्राह सृष्टिं कुरु पितामह।।
वेदग्रामयुतो ब्रह्मा सर्गं चक्रे ततः प्रभुः ।। १३ ।।
शेषस्याङ्कगतं देवं लक्ष्मीः पप्रच्छ पार्थिव।।
लक्ष्म्युवाच ।।
देवदेव जगन्नाथ शङ्खचक्रगदाधर ।। १४ ।।
परिक्रमं मया तोये दृष्टः सललितः प्रभो ।।
अतीव रमणीयाङ्ग किं तत्प्रब्रूहि मे प्रभो।।१५।।
श्रीभगवानुवाच।।
नृत्तमुत्पादितं ह्येतन्मया पद्मनिभेक्षणे।।
अङ्गहारैः सकरणैः संयुक्तं सपरिक्रमैः।।१६।।
नृत्तेनाराधयिष्यन्ति भक्तिमन्तस्तु मां शुभे ।।
त्रैलोक्यस्यानुकरणं नृत्ते देवि प्रतिष्ठितम् ।। १७ ।।
एतावदुक्त्वा तां देवो ब्रह्माणं वाक्यमव्रवीत ।।
गृहाण नृत्तं धर्मज्ञ लक्ष्यलक्षणसंयुतम् ।। १८ ।।
एतावदुक्त्वा ब्रह्माणं ग्राहयामास केशवः ।।
तद्गृहीत्वा ततो ब्रह्मा ददौ रुद्राय वेधसे ।।
गृहीत्वा तच्च रुद्रोपि तोषयामास केशवम् ।।
तेन नृत्तेन सततं देवेशं भक्तवत्सलम् ।। 3.34.२० ।।
एवमुत्पादितं नृत्तं वासुदेवेन पार्थिव ।।
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ।। २१ ।।
ततः प्रभृति देवेशः शङ्करः शङ्करो नृणाम् ।।
नृत्तेनाराधयन्नास्ते देवं चक्रगदाधरम् ।। २२ ।।
नृत्तेश्वरत्वं चावाप तुष्टाव मधुसूदनम् ।।
सोऽपि तुष्यति नृत्तेन सम्यगाराधितो हरः ।। २२ ।।
अन्ये च देवास्तुष्यन्ति सम्यङ् नृत्तेन तोषिताः ।।
आप्यायनं परं ह्येतत्कथितं तु दिवौकसाम् ।।२४।।
एतदेव हि देवत्वं दीव्यतां सततं दिवि ।।
पुष्पनैवेद्यदानेभ्यो नृत्तदानं विशिष्यते।। २५ ।।
स्वयं नृत्तेन यः कुर्याद्देवदेवस्य पूजनम् ।।
विशेषेण महाभाग तस्य तुष्यति केशवः ।। २६ ।।
नृत्तं गीतं तथा वाद्यं दत्त्वा देवाय विष्णवे ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। २७ ।।
नृत्तेन वृत्तिं यः कुर्यात्स तु वर्ज्यः प्रयत्नतः ।।
कुशीलवाद्यैर्यः कुर्यान्नृत्तविक्रयकारकः ।। २८ ।।
देवताराधनं कुर्याद्यस्तु नृत्तेन धर्मवित् ।।
स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ।। २९ ।।
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ।।
ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ।। 3.34.३० ।।
मूढानामुपदेशं तत्स्त्रीणां सौभाग्यवर्धनम् ।।
शान्तिकं पौष्टिकं काम्यं वासुदेवेन निर्मितम् ।।३१।।
एतावदुक्तं तव नृत्तशास्त्रं समासतो लोकहिताय राजन ।।
नृत्तेन यत्नः पुरुषेण कार्यो लोकद्वयञ्जेतुमभीप्सता वै ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रवर्णनो नाम चतुस्त्रिंशत्तमोऽध्यायः।।३४।।
3.35
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि चित्रसूत्रं तवानघ।।
उर्वशीं सृजतः पूर्वे चित्रसूत्रं नृपात्मज।।१।।
नारायणेन मुनिना लोकानां हितकाम्यया।।
प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः ।। २ ।।
सहकाररसं गृह्य उर्व्यां चक्रे वरस्त्रियम् ।।
चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः ।। ३ ।।
यां दृष्ट्वा व्रीडिताः सर्वा जग्मुस्ता देवयोषितः ।।
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम् ।। ४ ।।
ग्राहयामास स तदा विश्वकर्माणमच्युतम् ।।
यथा नृत्ते तथा चित्रे त्रैलोक्यानुकृतिः स्मृता ।। ५ ।।
दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः ।।
कराश्च ये महानृत्ते पूर्वोक्ता नृपसत्तम ।। ६ ।।
त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम् ।।
नृत्ते प्रमाणं येनोक्तं तत्प्रवक्ष्याम्यतः शृणु ।। ७ ।।
हंसो भद्रोऽथ मालव्यो रुचकः शशकस्तथा ।।
विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षणम् ।। ८ ।।
उच्छ्रायायामतुल्यास्ते सर्वे ज्ञेयाः प्रमाणतः ।।
स्वेनेवाङ्गुलमानेन शतमष्टाधिकं भवेत् ।।९ ।।
प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम् ।।
चतुर्भिरधिकं ज्ञेयं मालव्यस्य तथा नृप ।। 3.35.१० ।।
शतं च रुचकस्योक्तं दशोनं शशकस्य च ।।
द्वादशाङुलविस्तारस्ताल इत्यभिधीयते ।। ११ ।।
अङ्गुल्फन्तच्चतुर्भागं पादोच्छ्रायः प्रकीर्तितः ।।
द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ।। १२ ।।
जंघातुल्यौ तथा चोरू नाभिस्तालं तु मेढ्रतः ।।
तावच्च नाभिहदयं हृदयात्कण्ठ एव च ।। १३ ।।
कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ।।
तालषड्भागमप्युक्तं ललाटोपरि मस्तकम् ।। १४ ।।
मध्ये मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ।।
तालः प्रोक्तः करो राजन्बाहू सप्तदशाङ्गुलौ ।। १५ ।।
प्रबाहू तावदेवोक्तौ वक्षसोर्धमथाष्टकम्।
एतदायामतः प्रोक्तं मानं हंसस्य पार्थिव।।१६।।
अनेनैवानुसारेण शेषाणामपि कल्पयेत्।।
आयामपरिणाहाभ्यां समाः सर्वे नराधिप।।१७।।
सामान्यतस्ते नृपवर्य मानं प्रोक्तं मया हंस नराधिपस्य ।।
प्रत्यङ्गमानं च मयोच्यमानं समासतस्त्वं शृणु राजसिंह।। १८।।
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे आयामोच्छ्रायमानवर्णनो नाम पञ्चत्रिंशत्तमोऽध्यायः ।। ३५ ।।