मैत्रायणीसंहिता/काण्डं १/प्रपाठकः १०
चातुर्मास्यानि
1.10.1 अनुवाकः1
आग्नेयोऽष्टाकपालः , सौम्यश्चरुः , सावित्रो द्वादशकपालः , सारस्वतश्चरुः , पौष्णश्चरु, र्मारुतः सप्तकपालो , वैश्वदेव्यामिक्षा , द्यावापृथिवीया एककपालो , वाजिनां वाजिनं , आग्नेयोऽष्टाकपालः , सौम्यश्चरुः , सावित्रोऽष्टाकपालः , सारस्वतश्चरुः , पौष्णश्चरुः , ऐन्द्राग्नो द्वादशकपालो , मारुत्यामिक्षा , वारुण्यामिक्षा , काय एककपालो , वाजिनां वाजिनम, ग्नयेऽनीकवते प्रातरष्टाकपालो , मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरु, र्मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनं , इन्द्रस्य निष्काषो , मरुद्भ्यः क्रीडिभ्यः साकं रश्मिभिः सप्तकपालो , आग्नेयोऽष्टाकपालः , सौम्यश्चरुः , सावित्रोऽष्टाकपालः , सारस्वतश्चरुः , पौष्णश्चरुः , ऐन्द्राग्नो द्वादशकपालो , इन्द्राय वृत्रघ्ने चरु , र्वैश्वकर्मण एककपालो , आग्नेयोऽष्टाकपालः , सौम्यश्चरुः , सावित्रोऽष्टाकपालः , सारस्वतश्चरुः , पौष्णश्चरु , र्वायव्या यवागूः प्रतिधुग् वा , इन्द्राय शुनासीराय द्वादशकपालः , सौर्य एककपालः षट्कपालः पुरोडाशो धाना मन्थः , प्रतिपुरुषं पुरोडाशा एकश्चाध्यादित्यश्चरुः ॥
1.10.2 अनुवाकः2
अग्ने वेर् होत्रम् , वेर् दूत्यम् , ऊर्ध्वो अध्वरो अस्थात् , अवतां नो द्यावापृथिवी , स्विष्टकृदिन्द्राय देवेभ्यो भव , अस्य घृतस्य हविषो जुषाणो वीहि स्वाहा ॥
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः । करंभेण सजोषसः ॥
मो षू ण इन्द्रात्र पृत्सु देवास्तु स्म ते शुष्मिन्नवयाः ।
मही चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
यद् ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये ।
यदेनश्चकृमा वयं यदप्सश्चकृमा वयम् ।
तदेकस्यापि चेतसि तदेकस्यापि धर्मणि ।
तस्य सर्वस्यांहसोऽवयजनं असि ॥
अक्रन् कर्म कर्मकृतः सह वाचा मयोभ्वा ।
देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानवः ॥
पूर्णा दर्वे परा पत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणावहा इषं ऊर्जं शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधौ ।
अपामित्यं इव संभर को अम्बाददते ददत् ॥
1.10.3 अनुवाकः3
अत्र पितरो मादयध्वम् ॥
सुसंदृशं त्वा वयं वसो मघवन्मन्दिषीमहि ॥
प्र नूनं पूर्णबन्धुरः स्तुतो यासि वशं अनु योजा न्विन्द्र ते हरी ॥
यदन्तरिक्षं पृथिवीं उत द्यां यन्मातरं पितरं वा जिहिंसिम ।
अग्निर्नस्तस्मादेनसो गार्हपत्या उन्निनेतु दुष्कृताज्जातवेदाः ॥
अमीमदन्त पितरो , नमो वः पितर इषे , नमो वः पितर ऊर्जे , नमो वः पितरः शुष्माय , नमो वः पितरो रसाय , नमो वः पितरो यज्जीवं तस्मै, नमो वः पितरो यद् घोरं तस्मै , स्वधा वः पितरो , नमो नमो वः पितरः ॥ एषा युष्माकं पितर , इमा अस्माकं , जीवा वो जीवन्तः इह सन्तः स्याम ॥
परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः ।
दधथ नो द्रविणं यच्च भद्रं रयिं च नः सर्ववीरं नियच्छत ॥
अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
स प्रत्यङ्ङ् ऐद्धरुणो मध्वो अग्रं स्वां यत्तनूं तन्वामैरयत ॥
अक्षन्नंईमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
मनोन्वाहुवामहे नाराशँसेन स्तोमेन । पितृणां च मन्मभिः ॥
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा ता ओहैः ॥
1.10.4 अनुवाकः4
आखुं ते रुद्र पशुं करोमि , एष ते रुद्र भाग, स्तं जुषस्व सह स्वस्राम्बिकया स्वाहा ॥
अवांब रुद्रमदिमह्यव देवं त्र्यम्बकं ।
यथा नो वस्यसस्करद्यथा नः श्रेयसस्करत् ।।
यथा नो भूयसस्करद्यथा नः प्रतरं तिराद्यथा नो व्यवसाययात् ॥
भेषजं गवे अश्वाय पुरुषाय भेषजं ।
अथो अस्मभ्यं भेषजं सुभेषजं यथासति सुगं मेषाय मेष्यै ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं ।
उर्वारुकमिव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥
रुद्रैष ते भाग, स्तेनावसेन परो मूजवतोऽतीहि ॥
पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥
1.10.5 अनुवाकः5
देवाश्च वा असुराश्चास्मिंल्लोक आसन् त्स प्रजापतिरकामयत प्रासुरान् नुदेय प्रजाः सृजेयेति स चातुर्मास्यानि अपश्यत् , चातुर्मास्यैर्वै सोऽसुरान् प्राणुदत, चातुर्मास्यैः प्रजा असृजत , तद्य एवं विद्वांश्चातुर्मास्यैर्यजते प्र भ्रातृव्यं नुदते प्र प्रजया च पशुभिश्च जायते , अग्निष्टोमाद् वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजत , उक्थ्याद् वरुणप्रघासान् यज्ञक्रतुं निर्मायेमाः प्रजा वरुणेनाग्राहयत् , अतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रमहन् , सृष्टा वा अन्याः प्रजा आसन्नसृष्टा अन्या , अथ प्रजापतिरकामयत प्रजाः सृजेयेति , संवत्सरो वै यज्ञो , यज्ञः प्रजापतिः स एते मिथुने पयसी आत्मन्नधत्तोधन्यं च बह्यं च , अथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् , तैः प्रजा असृजत , ऋतुभ्यो वै ताः प्रजाः प्राजायन्त , ऋतवो वा एतानि पञ्च हवींषि , पञ्च ह्य् ऋतवो , ततः प्रजायते , अग्निरेव प्रावापयत् , सोमो वै रेतोऽदधात् , मिथुनं वा अग्निश्च सोमश्च , सविता प्रासुवत् प्रजननाय , संवत्सरो वै सविता , द्वादश मासाः संवत्सर, स्तस्माद् द्वादशकपालो , अथो वैश्वदेवत्वायैव द्वादशकपालो , उपांशु यजति , अनिरुक्तो हि संवत्सरः , सरस्वत्येव सृष्टासु वाचं अदधात् , पूषणं प्रतिष्ठां अभ्यसृज्यन्त , वाग् वै सरस्वती , पशवः पूषा , मिथुनं वाक् च पशवश्च , मध्यतः प्रजापतिनासृज्यन्त , अन्ततो मिथुनाद्विषूचीः प्राजायन्त , तन्मध्यत एवैतत् प्रजापतिना सृज्यन्ते , अथादोऽन्ततो मिथुनाद्विषूचीः प्रजायन्ते , वार्त्रघ्नानि वा एतानि हवींषि , अग्निना वा अनीकेनेन्द्रो वृत्रमहन् , सोमेन राज्ञा सवितॄप्रसूतः सरस्वत्या चेत्रा पूषैनं वीर्येणान्वतिष्ठत , विजितिर्वा एतानि हवींषि , इन्द्रो वै वृत्रमहन् , स विष्वङ् वीर्येण व्यार्छत् , तदिदं सर्वं प्राविशदप ओषधीर्वनस्पतीन् , तेन देवा अश्राम्यन् , तत्समनयन् , तत् सान्नाय्यस्य सान्नाय्यत्वं , तद्य एवं विद्वान्त् सान्नाय्येन यजत ऋध्नोति ॥
1.10.6 अनुवाकः6
मिथुनं वै दधि च शृतं च , अथ यत् संसृष्टमाण्डमिव मस्त्विव परीव ददृशे गर्भ एव स , तपसो वै प्रजाः प्राजायन्त , तपस्त्वं वा एतद् गच्छति यच् शृतत्वं गच्छति, ततः प्रजायते , अथैषा वैश्वदेव्यामिक्षा , प्रजापतिः प्रजा असृजत , ता वैश्वदेवेनैवासृजत , तस्मादिमा वैश्वदेवीः प्रजा , विश्वान् देवान् यजति , स्तोका वै विश्वे देवा, स्तान् वा एतद्यजति , अथो अमुतःप्रदानाद्धि मनुष्या यज्ञं उपजीवन्ति , योनिर्वा एष प्रजानां , तं मरुतोऽभ्यकामयन्त , ततोंऽहोगृहीता असृज्यन्त , यत् स्वतवद्भ्यः स्वत्वायैव निष्कृत्यै , प्रजननो वा एष पशूनां , यन्मारुतः सप्तकपालो भवति , सप्त हि मरुतो , विण् मरुतो , अथो निरवत्त्या एव मारुतो , अथो ग्राम्यमेवैतेनान्नाद्यमवरुन्धेतो ॥
1.10.7 अनुवाकः7
ता वैश्वदेवेन सृष्टा विषूचीर् व्युदायन् , ताः प्रजापतिर् द्यावापृथिवीयेन पर्यगृह्णात् , यद् द्यावापृथिवीयः प्रजानां सृष्टानां परिगृहीत्यै , यदेककपालो तेन प्राजापत्यः , प्रजापता एव देवतासु प्रतितिष्ठति , यजमानो वा एककपालो , आहवनीयः स्वर्गो लोको , यत्सर्वहुतं करोति हविर्भूतं एवैनं स्वर्गं लोकं गमयति , यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति , यजमानं प्रतितिष्ठन्तं प्रजा अनुप्रतितिष्ठन्ति , ऋजुर् होतव्यः प्रतिष्ठित्यै , सर्वहुतं करोति प्रतिष्ठित्यै , यजमानो वा एककपालः , पशवो घृतं , तदभिपूर्यः , पशुभिरेवैनं समर्धयति , यदभिपूरयेदधरं एनं पशुभ्यः कुर्या, दभुञ्जन्त एनं पशवा उपतिष्ठेयु, राविः पृष्ठः कार्यः, पशुभ्य एवैनं उत्तरं अकर् , भुञ्जन्त एनं पशवा उपतिष्ठते , तन् न सूर्क्ष्यं , अभिपूर्य एव , न हि पशवो न भुञ्जन्ति , यत् प्राङ् पद्येत यजमानः प्रमीयेत , यद् दक्षिणा प्रजामस्य निर्दहेत् , यत् प्रत्यङ् पत्नी प्रमीयेत , यदुदङ् पशूनस्य निर्दहेत् , यदुत्तानः पतेत् पर्जन्योऽवर्षुकः स्यात् , पुनरादायाभिघार्य होतव्यो , यजमानस्य प्रतिष्ठित्यै , वरो दक्षिणा , वरेनैव वरं स्पृणोति , आत्मा हि वर, स्त्रेधासंनद्धं बर्हिर् भवति , त्रेधासंनद्ध इध्म, स्त्रेधाविहितानि चातुर्मास्यानि , संवत्सरं वै चातुर्मास्यानि , संवत्सरेणाग्निं मन्थन्ति , अग्निं वै प्रजा अनुप्रजायन्ते , प्रजननो वा एष मथ्यते , अथो वृषाणं वा एतद्यजमानाय जनयन्ति , वसन्ता यष्टव्यं प्रजननाय , प्रवणे यष्टव्यं प्रजननाय, नोत्तरवेदिमुपवपन्ति प्रजननाय , प्रस्वो भवन्ति , प्र मा जनयानीति , पशवो वै पृषदाज्यं , नानारूपा वै पशवो , तस्मान् नानारूपमाग्नेयं घृतमैन्द्रं दध्यैन्द्राग्नं पृषदाज्यं देवतया , प्राणापानौ वा इन्द्राग्नी , मिथुनं प्राणापानौ , मिथुनयोनयः प्रजा , मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते , तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते , यदि वसन्ता यजेत द्विरुपस्तृणीयात् , सकृदभिघारयेत् , ओषधयो वै पशवो , ओषधीष्वेव पशून् प्रतिष्ठापयति , यदि प्रावृषि यजेत सकृदुपस्तृणीयाद् , द्विरभिघारयेत् , वृष्ट्यैव पशूनभिजिघर्ति ॥
1.10.8 अनुवाकः8
प्राणेभ्यो वै ताः प्रजाः प्राजायन्त , प्राणा वा एतानि नव हवींषि , नव हि प्राणा , आत्मा देवता , ततः प्रजायते , नव प्रयाजा , नवानुयाजा , द्वा आज्यभागौ , अष्टौ हवींषि , अग्नये समवद्यति , वाजिनो यजति , तत् त्रिंश, स्त्रिंशदक्षरा विराड् , विराज्येव प्रतितिष्ठति , विराजो वै योनेः प्रजापतिः प्रजा असृजत , विराजो वा एतद् योनेर्यजमानः प्रजायते , त्रिंशत्त्रिंशद्वै रात्रयो मासो , यो मासः स संवत्सरः, संवत्सरः प्रजापति, स्तत् प्रजापतेश्च वा एतद्विराजश्च योनेर् मिथुनाद्यजमानः प्रजायते , एकैकया वा आहुत्या द्वादश द्वादश रात्रीरयुवत, ता यावतीः संख्याने तावतीः संवत्सरस्य रात्रयः , संवत्सरमेव भ्रातृव्याद् युवते , वैश्वदेवेन चतुरो मासोऽयुवत , वरुणप्रघासैः परांश्चतुरः , साकमेधैः परांश्चतुर, स्तान् एव भ्रातृव्याद् युवत , ऋतुयाजी वा अन्यश्चातुर्मास्ययाज्यन्यो , यो वसन्तोऽभूत् प्रावृडभूञ्शरदभूदि, ति यजते स ऋतुयाजी , अथ यस्त्रयोदशं मासं संपादयति त्रयोदशं मासं अभियजते स चातुर्मास्ययाजी , ऋजूंस्त्रीन् इष्ट्वा चतुर्थमुत्सृजेत , ऋजू द्वौ परा इष्ट्वा तृतीयम् उत्सृजेत , ये वै त्रयः संवत्सरास्तेषां षट्त्रिंशत् पूर्णमासा , यौ द्वौ तयोश्चतुर्विंशति, स्तद् येऽमी षट् त्रिंशत्यधि तानस्यां चतुर्विंशत्यामुपसंपादयति , एष वाव स त्रयोदशो मास, स्तं एवैतत् संपादयति , तमभियजते , वैश्वदेवेन यजेत पशुकामो , न वरुणप्रघासैर्न साकमेधैः , सर्वो वै पुरुषः साहस्रो जायते, यावत्तरसं त्वेवैति, प्रजननं वा एतद्धविर्यद् वैश्वदेवं , यद् वैश्वदेवेन यजते प्रजननाय वा एतद्यजते , स्वां मात्रां गछानीति , स यदा सहस्रं पशून् गछेदथ वरुणप्रघासैर्यजेत , यदेवादः सहस्रमगंस्तस्यैतदंहोऽवयजति ॥
1.10.9 अनुवाकः9
यद् बर्हिः प्रयाजेषु यजति ओषधीस्तद्यजति , यद् बर्हिरनुयाजेषु फलं तत् , यद् बर्हिर्वारितीनां यदेवादः फलात् प्रजायते तदेतद्यजति , यद् दुर उपस्थं तत् , यदुषासानक्ता व्युष्टिं चैव निम्रुक्तिं च , यज्जोष्ट्री यदेव जातं च जनिष्यमाणं च , यद् ऊर्जाहुती यदेवात्ति च पिबति च , यद् दैव्या होतारेमे एव , यत् तिस्रो देवी , र्वाग् वै तिस्रो देवी , र्वाचं वा एतद्यजति , अथो छन्दांसि वै वाक् , छन्दांसि वा एतद्यजति , तनूनपाद्वै यज्ञोऽप्रसृतो , नराशंसःप्रसृतो , तस्मात्तनूनपातं प्रयाजेषु यजति , अप्रसृतो हि तर्हि यज्ञो , तस्मादु नराशंसं अनुयाजेषु यजति , प्रसृतो हि तर्हि यज्ञो , वनस्पतिं यजति , सोमो वै वनस्पतिः , सौमीरिमाः प्रजाः , प्रजास्व् एव रसं दधाति , त्वष्टारं यजति , त्वष्टा हि रूपाणि विकरोति , वाजिनो यजति , पशवो वै वाजिन, स्तान् वा एतद्यजति , अथो छन्दांसि वै वाजिन , श्छन्दांसि वा एतद्यजति , पशवो वै वाजिन, स्तन्न संस्थाप्यम् , यत् संस्थापयेत्तान् एव संस्थापयेत् , असंस्थिता ह्येते सददि प्रजायन्ते , न वा एष सुयज्ञ इव , संस्थिते हि प्रहृतेषु परिधिषु जुहोति , यदव्यवानन् यजति तेन यज्ञः क्रियते , अनुयजति समिष्ट्या एव प्रतिष्ठित्यै , बर्हिरनुषिञ्चन् गृह्णाति , ऋषभेष्वेव रेतो दधाति , ऊर्ध्वज्ञुरासीनो यजति , ऊर्ध्वज्ञवो हि पशवः पशुषु रेतो दधति , अथो ऊर्ध्वज्ञुर् हि प्रजापतिः प्रजा असृजत , दिग्भ्यो जुहोति , इमा एव दिशो रसेन व्युनक्ति , प्राचीमुत्तमां जुहोति , प्राचीमेव दिशं पुनरुपावर्तन्ते , समुपह्वयन्ते , सोमपीथ इव ह्येष , ऋत्विजः प्राश्नन्ति ॥ वाजिनो मे यज्ञं वहान् ॥ इति समावञ्शो भक्षयन्ति , समावञ्श एव वाजं विभजन्ते , आत्मना प्राश्नाति , आत्मन्न् एव वाजं धत्ते ॥
1.10.10 अनुवाकः10
ता वैश्वदेवेन सृष्टास्तस्मिंस्तरुणिमनि वरुणोऽगृह्णात् , तदाहुर, ति वै ताः प्रजापतिम् अचरन् , ता अतिचरन्तीर्वरुणेनाग्राहयत् , तस्मात् पिता नातिचरितवा इति , वैश्वदेवेन वै प्रजापतिः प्रजा असृजत , तस्य मरुतो हव्यं व्यमथ्नत , ततोंऽहोगृहीता असृज्यन्त, ताभ्यो भेषजमैच्छत् , तद्वा आत्मन्न् एवैच्छत् , स एतत् पय आत्मनोऽधि निरमिमीत , तेनाभ्योंऽहोऽवायजत् , तदंहसो वा एषावेष्टिर्यद्वरुणप्रघासा , यद्वरुणप्रघासैर्यजते सर्वस्यांहसोऽवेष्ट्यै , जग्धाद्वै ताः प्रजा वरुणोऽगृह्णात् , तस्माद्वरुणप्रघासा , यावत् कुमारेऽम्णो जात एनस्तावदस्मिन्न् एनो भवति यो वरुणप्रघासैर्यजते , सावित्रोऽष्टाकपालो भवति , गायत्रो वै देवानां सविता द्वादशकपाल ऐन्द्राग्नो देवतया , यद्वै तद्वरुणगृहीता अवेव्लीयन्तेव तदास्विन्द्राग्नी बलं अधत्तां , शिथिरा वै ताः प्रजा वरुणोऽगृह्णात् , तास्विन्द्राग्नी बलं अधत्तां , ओजो वै वीर्यमिन्द्राग्नी , ओजो वा एतद्वीर्यं मध्यतः प्रजानां धीयते , न वै ताः प्राणन् , ता अप्राणतीर्वरुणोऽगृह्णात् , प्राणापानौ वा इन्द्राग्नी , प्राणापानौ वा एतन् मुखतः प्रजानां धीयते , अथैतानि पञ्च हवींषि संतत्यै , निरवत्त्यै मारुती , निर्वरुणत्वाय वारुणी , कन्त्वाय कायो , यद्वै तद्वरुणगृहीताभ्यः कमभवत् तस्मात् कायः , प्रजापतिर्वै कः , प्रजापतिर्वै ताः प्रजा वरुणेनाग्राहयत् , यत् काय आत्मन एवैना वरुणान् मुञ्चति ॥
1.10.11 अनुवाकः11
ऋतं वै सत्यं यज्ञो , अनृतं स्त्री , अनृतं वा एषा करोति या पत्युः क्रीता सत्यथान्यैश्चरति , अनृतं एव निरवदाय ऋतं सत्यं उपैति यन् मिथुया प्रतिब्रूयात् ,प्रियतमेन याजयेत् , अथ यद्वाचयति मेध्यामेवैनां करोति , आमपेषा भवन्ति सर्वस्यांहसोऽवेष्ट्यै , यद् भृज्येयुरनवेष्टमंहः स्यात् , पात्रेभ्यो वै ताः प्रजा वरुणोऽगृह्णात् , यत्पात्राणि पात्रेभ्य एवैना वरुणान् मुञ्चति , प्रतिपुरुषं भवन्ति , प्रतिपुरुषं एवांहोऽवयजति , एकमधि भवति , गर्भेभ्यस्तेन निरवदयते , अन्नाद्वै ताः प्रजा वरुणोऽगृह्णात् , शूर्पेणान्नं बिभ्रति , तस्माञ् शूर्पेण जुहुतः , स्त्रीपुंसौ जुहुतो , मिथुना एव प्रजा वरुणान् मुञ्चतः , पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः , पुरस्तादेवांहोऽवयजतो , यत् पात्राणि , य एव द्विपादः पशवो मिथुनास्तेषामेतत् पुरस्तादंहोऽवयजतो , अथ यन्मेषश्च मेषी च , य एव चतुष्पादः पशवो मिथुनास्तेषामेतदुपरिष्टादंहोऽवयजत , उभयत एवांहोऽवयजतः पुरस्ताच्चोपरिष्टाच्च ॥
1.10.12 अनुवाकः12
यद्वै प्रजा वरुणो गृह्णाति शम्यं चैव यवं चापि न गृह्णाति , हेमन्तो हि वरुणः , या एवावरुणगृहीतौ ताभ्यां एवैना वरुणान् मुञ्चति , वरुणो वै यवो वरुणदेवत्यः, स्वेनैवैना भागधेयेन वरुणान् मुञ्चति , अनृताद्वै ताः प्रजा वरुणोऽगृह्णात् , यदेता अनृतपशू अनृतादेवैना वरुणान् मुञ्चतो , मिथुनौ भवतो , मिथुना एव प्रजा वरुणान् मुञ्चतो , लोमशौ भवतो मेध्यत्वाय , ये हि पशवो लोम जगृहुस्ते मेधं प्रापुः , शमीपर्णानि भवन्ति शंत्वाय , भूर्जो वै नामैष वृक्षः , कार्या एतस्य स्रुचः , प्रजापतिर्वा अन्नाद्यमवरुन्धं नाशक्नोत् , तं शतेध्मेनावारुन्द्ध , परःशतानि कार्याणि अन्नाद्यस्यावरुद्यैरु , सहस्रेध्मो ह त्वेवांहसो ऽवेष्टिं विव्याच , परःसहस्राणि कार्याणि सर्वस्यांहसोऽवेष्ट्यै , यदा पात्राणि जुह्वत्यथाग्निं संमार्ष्टि , यस्मिन्न् एवांहोऽवायाक्षुस्तस्मिन्न् उत्पूते देवता यजा इति , इन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायच्छत् , तेषां वा एतानि शीर्षाणि यत् खर्जूराः , सोमपीथो वा एषोऽस्या उदैषत् , यत् करीराणि , सौम्यानि वै करीराणि, सौमी ह त्वेवाहुतिरमुतो वृष्टिं च्यावयति , यत् करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्यैयः ॥
1.10.13 अनुवाकः13
प्रजापतेर्वा एतज् ज्येष्ठं तोकं यत् पर्वता, स्ते पक्षिण आसन् , ते परापातमासत यत्र यत्राकामयन्त , अथ वा इयं तर्हि शिथिरासीत् , तेषामिन्द्रः पक्षानछिनत् , तैरिमामदृंहत् , ये पक्षा आसंस्ते जीमूता अभवन् , तस्मादेते सददि पर्वतं उपप्लवन्ते , योनिर् ह्येषामेष , ततो यः प्रथमो रसः प्राक्षरत्तानि करीराण्यभवन् , तदेतदुत् प्रावृषि जीमूताः प्लवन्ते , यजन्ते वरुणप्रघासैः , करीराणि भवन्ति , वृष्टिं तैः संतनोति , तस्मात्तर्हि भूयिष्ठं वर्षति , वृष्टिं हि संतनोति , न वै वैश्वदेव उत्तरवेदिमुपवपन्ति , उपात्र वपन्ति , प्रजाताः प्रजाः प्रतिगृभ्णादिति , येयम् उत्तरा वेदिर् या अत्रीः प्रजास्तासां एषा योनिस्ता एतामनुप्रजायन्ते , येयं दक्षिणा वेदिर् या आद्याः प्रजास्तासां एषा योनि, स्ता एतामनुप्रजायन्ते , उभयीरेव प्रजाः प्रजनयत्यत्रीश्चाद्याश्च , अयं वाव हस्ता आसीन्नायम् , तद् येयं दक्षिणा वेदिस्तयेमं अविन्दन् , तस्मादेष एतस्य परिवेष्टा , कनीयान् हि , तस्मात् कनीयान् ज्यायांसं परिवेवेष्टि , समे प्राची भवतः , समौ हीमौ प्राञ्चौ हस्ता असंभिन्ने भवतः सर्वस्यांहसोऽवेष्ट्यै , यत् संभिन्युन्रनवेष्टमंहः स्यात् , एकस्यां पश्चात् संभिनत्ति अनुसंतत्यै , उपेमां वपति , नेमां अन्वभ्यारोहयत् , क्षत्रं वा इन्द्रो , विण् मरुतो , नाना यजतः पापवसीयसस्य व्यावृत्त्यै , यदेवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति , तस्माद्यद् राजा करोति तद्विट् करोति , न वै वैश्वदेवे त्रिंशदाहुतयः सन्ति न साकमेधेषु , वरुणप्रघासेषु वाव त्रिंशदाहुतयो , वैराजो वै पुरुषो , दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा , यत्तर्ह्यवभृथमभ्यवयन्ति यजमानस्य निर्वरुणत्वाय , यद्वै यज्ञस्य स्वगाकृतिं न प्राप्नोति तद्वरुणो गृह्णाति , यन् निष्काषेणावभृथमभ्यवयन्ति , यदेवात्र वरुणस्य न्यक्तं तस्यैषा निरवत्तिर , नपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय , परोगोष्ठं मार्जयन्ते , परोगोष्ठमेव वरुणं निरवदयन्ते , एधोऽस्येधिषीमहीति , निर्वरुणा एव भूत्वैधितुमुपयन्ति , समिदसि समेधिषीमही, ति समिद्यासि एव ॥
1.10.14 अनुवाकः14
प्रजाः सृष्ट्वांहोऽवयज्य सोऽकामयत , वृत्रं हन्यामिति , स एताभिर्देवताभिः सयुग् भूत्वा मरुद्भिर्विशाग्निनानीकेनोपप्लायत , स वृत्रमेत्य वृत्रं दृष्ट्वोरुस्कम्भगृहीतोऽनभिधृष्णुवन्नतिष्ठत् , तं मरुतोऽध्यैयन्त , तेऽत्यैषन् , तस्य यदा मर्मागच्छन्नथाचेष्टत् , सं वा एनं तदतपन् , तस्मात् सांतपना , अग्निना वा अनीकेनेन्द्रो वृत्रमहन् , तदनीकत्वायैवैषो , अथो अग्निर्वै देवानां सेनानी, स्तत् सेनोत्थापनीयमेवैतत् , इन्द्रो वै वृत्राय वज्रं उद्यमं नाशक्नोत् , स एतं मरुद्भ्यो भागं निरवपत् , तं वीर्याय समतपन् , तं तेन वीर्येणोदयच्छन् , सं वा एनं तदतपन् , तस्मात् सांतपना , मध्यंदिने चरुर् निरुप्य, स्तर्ह्युभा अन्तौ तपति, चरुः स्यात् , तं हि सर्वतस्तपति , देवा वै वृत्रस्य मर्म नाविन्दन् , तं मरुतः क्षुरपविना व्ययुः , सं वा एनं तदतपन् , तस्मात् सांतपनाः ॥
1.10.15 अनुवाकः15
ते वै श्वो भूते वृत्रं हनिष्यन्ता उपावसन् , ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति, त एतं ओदनं अपचन् , तेन पशूनचिकयु, स्तेऽविदुर्यतरान् वा इम उपावर्स्य्भन्ति त इदं भविष्यन्तीति, तेभ्यो वा एतेन प्रातिष्ठन् , तान् एतेनायच्छन् , तत् पशूनां वावैषा यति, स्ते वै श्वोविजयिनोऽवसन् , तेऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति ,त एतं ओदनं अपचन् , तेऽब्रुवन् , माहुतमशिष्मेति , तं मरुद्भ्यो गृहमेधेभ्योऽजुहवुः , पशवो वै मरुतो गृहमेधाः , पशुभ्यो वै ते तमजुहवु, स्ते वै संयत्ता आसन् , तेऽसुरा देवेभ्यः क्षुधं प्राहिण्वन् , तां देवाः प्रतिश्रुत्यैतं ओदनं अपचन् , सा देवेषु लोकमवित्त्वा पुनरसुरान् प्राविशत् , ततो देवा अभवन् , परासुरा, स्तद्य एवं विद्वान् एतं ओदनं पचति भवत्यात्मना, परास्य भ्रातृव्यो भवति , अपि प्रतिवेशं पचेत् भ्रातृव्यायैव क्षुधं प्रहिणोति, यद्वै चातुर्मास्यानां पाकयज्ञस्यैव तदेषां पशव्यं , पशव्यो गृहमेधो , न प्रयाजान् यजति नानुयाजान् , न सामिधेनीरन्वाह , आज्यभागौ यजति यज्ञतायै , अग्नये समवद्यति , अग्निर्वै समिष्टिर , ग्निः प्रतिष्ठितिः , समिष्ट्या एव प्रतिष्ठित्यै , इडामुपह्वयन्ते , पशवो वा इडा , पशव्यो गृहमेध, स्तस्मादिडामुपह्वयन्ते , निष्काषं निदधाति अनुसंतत्यै ॥
1.10.16 अनुवाकः16
तेषां वा उभयेषामिन्द्रः प्रावसत् , ते देवा एतं इन्द्राय भागं न्यदधुर, स्माञ् श्वो निहितभागो वृणता, इति ऋषभमाह्वयन्ति , इन्द्रं वा एतं निह्वयन्ते , रुवथो वषट्कारो , अथो असुराणां वा एतद् ऋषभमत्याह्वयन्ति , अस्मान् प्रजनयादिति , सवत्सा गावो वसन्ति साकमेधत्वाय , यत्स्त्र्यश्नाति साकमेधत्वाय, यत् स्त्री नाश्नीयादसाकमेधाः स्युर , थ यत् स्त्र्यश्नाति साकमेधत्वाय , निर्ऋतिर्वा एतद्यज्ञस्य गृह्णाति यत् स्त्र्यश्नाति, निर्ऋतिर् हि स्त्री, निर्ऋतिगृहीता वै दर्वि, स्तप्तं ह्यवचरति , एष खलु वै स्त्रिया हस्तो यद् दर्वि , यद् दर्व्या जुहोति निर्ऋतिगृहीतयैव निर्ऋतिं निरवदयते , स वै श्वो भूते वृत्रं हन्तुमुपप्लायत , तं मरुतः परिक्रीडन्त आसन् , तेऽस्याप्त्वा व्यनयन् , तेऽभ्यधर्षयन् , तस्मात् क्रीडय, स्ते वै संयत्ता आसन् , ते देवा असुराणां परं अन्तं न परापश्यन् , ते मरुतः क्रीडीन् क्रीडतो ऽपापश्यन् , तज् जितमनसो वा इम इति , तेभ्यो वा एतं भागं निरवपन् , ततो वा अजयन् , तज् जित्या एवैषो , असौ वा आदित्य इन्द्रो , रश्मयः क्रीडयः , साकं रश्मिभिः प्रचरति विजित्यै, देवा वै वृत्रं हतं न व्यजानन् , तं मरुतः क्रीडयोऽध्यक्रीडन् , तस्मात् क्रीडयो , अथैतानि पञ्च हवींषि संतत्यै , अथैष ऐन्द्राग्न , इन्द्राग्नी एवास्मै वज्रं अन्वबिभृतामि, न्द्राग्नी अस्मै वज्रं अभ्यवहताम, थैष ऐन्द्र , उद्धारं वा एतं इन्द्रा उदहरत, वृत्रं हत्वा तदुद्धार एवास्य , एष भाग एव , तस्माद् राजा संग्रामं जित्वोदाजं उदजते , अथैष वैश्वकर्मणः , विश्वानि मे कर्माणि कृतानि आसन्न् इति , विश्वकर्मा हि , सोऽभवद् वृत्रं हत्वा , अथैष आघार , आहुतीनां संतत्यै त्रिंशत्वाय ॥
1.10.17 अनुवाकः17
प्रजाः सृष्ट्वांहोऽवयज्य वृत्रं हत्वा ते देवा अमृतत्वं एवाकामयन्त , स्वर्गो वै लोकोऽमृतत्वं , संवत्सरः स्वर्गो लोको , यद् द्वादशाहुतयो अमृतत्वं एव तेन स्पृणोति , आपद्वा एतत् संवत्सरम् , अति वा एतत् संवत्सरम् अक्रमीत् , यद् द्वादशाहुतयः संवत्सरमेव पुनरभिपर्यावर्तते , आपद्वा एतत् संवत्सरम् , सं वा एतत् संवत्सरम् अकृक्षत् , यत् षट्षट् संपादयति , षड् वा ऋतव , स्तान् वा एतत् संपादयति , तानपिपादयति , तानपिपद्यमानानन्वपिपद्यते , आपद्वा एतत् संवत्सरम् , पितरो वा ऋतव, स्तान् वा एतत् प्रजनयति , तान् प्रजायमानाननु प्रजायते , ततः प्रजायते , एतद्वा अस्य संवत्सरोऽभीष्टोऽभूदभीष्टा ऋतवो , अथ वा अस्य पितरोऽनभीष्टा , यदेष पितृयज्ञो तेनैवास्य पितरोऽभीष्टाः प्रीता भवन्ति , दक्षिणतो निरुप्यम् , दक्षिणा हि पितृणां , अथो आहुरुभयत एव निरुप्यम् , इति उभये हीज्यन्ते, तन् न सूर्क्ष्यं , दक्षिणत एव निरुप्यम् , दक्षिणा हि पितृणां , षट्कपालः पुरोडाशो भवति , षड् वा ऋतव, स्त एवास्यैतेनाभीष्टाः प्रीता भवन्ति , न वै धानाभिर्न मन्थेन यज्ञो , यदेष पुरोडाशस्तेन यज्ञो , अथैता धानाः, स्वधा वा एता अमुष्मिंल्लोके , अथो अपरिमिता वै संवत्सरस्य रात्रय, स्ता एवास्यैताभिरभीष्टाः प्रीता भवन्ति , न वै धानाभिर्न पुरोडाशेन पितृयज्ञो , यदेष मन्थस्तेन पितृयज्ञो , अभिवान्याया गोर्दुग्धे स्यात् , सा हि पितृणां , नेदिष्ठं दक्षिणासीना उपमन्थति , दक्षिणा हि पितृणामे, कयोपमन्थति , एका हि पितृणां, इक्षुशलाकयोपमन्थति, सा हि पितृणां , न प्राच्युद्धत्या , पितृयज्ञो हि , न दक्षिणा , यज्ञो हि , उभे दिशा अन्तरोद्धन्ति , उभये हीज्यन्ते , उपमूलं बर्हिर्दाति , तेन पितृणां , यदृतेमूलं , तेन देवानां, उभये हीज्यन्ते , परिश्रयन्ति , अन्तर्हिता वा अमुष्मादादित्यात् पितरो , अथो अन्तर्हिता हि देवेभ्यश्च मनुष्येभ्यश्च पितर, स्तस्मात् परिश्रयन्ति, समन्तं, बर्हिः परिस्तृणाति , समन्तं हीम ऋतवः परिविष्टा , अथो समन्तान्मा पितरोऽभिसमागछानि, इति अमुष्मिन्वै पूर्वस्मिन्न् इतरा देवता इज्यन्ते , यत्तत्र जुहुयादाहुतीः संसृजेत् , समदं कुर्यात् , गार्हपत्ये शृतं कुर्वन्ति यज्ञतायै , ओदनपचनादग्निमाहरन्ति , तत् स्विन्नान्यता आहरन्ति ॥
1.10.18 अनुवाकः18
उशन्तस्त्वा हवामह उशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवे ॥
इत्यन्वाह , उशन्तो हि पितरो, अनुष्टुभमन्वाह , अन्तो वा अनुष्टुप् , अन्तः पितर, स्तस्मादनुष्टुभमन्वाह , एकामन्वाह , एकलोका हि पितरस्त्रि, रन्वाह, तृतीये हि लोके पितरो , यदेकामन्वाह तेन पितृणां , यत् त्रिस्तेन देवानां, उभये हीज्यन्ते , न होतारं वृणीते नार्षेयम् , मृत्योरेवैना उत्सृजति , अपबर्हिषः प्रयाजान् यजति , प्रजा वै बर्हिः , प्रजा एव मृत्योरुत्सृजति , संव्ययते वै मनुष्येभ्यः करिष्यन् , दक्षिणतो देवेभ्या उपव्ययते , अथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै , दक्षिणतोऽवदायोदङ्ङ् अतिक्रम्य दक्षिणा तिष्ठन् जुहोति , दक्षिणा हि पितृणां , सोमं अग्रे यजति, सोमो वै पितृणां देवता , पितृदेवत्यः सोमो , यत् सोमं पितृमन्तं यजति सोमपांस्तत् पितॄन् यजति , यद् बर्हिषदो यज्वनस्तत् , यदग्निष्वात्तान् गृहमेधिनस्तत् , यदग्निं कव्यवाहनं , द्वे वा अग्नेस्तन्वौ , हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्यः, समिष्ट्या एव प्रतिष्ठित्यै , द्वे वै देवानां याज्यानुवाक्ये , प्राण्यया यच्छति , गमयत्यन्यया , अथात्र तिस्रः कार्याः , परे हि देवेभ्यः पितर, स्तद्यैषा तृतीयात्येवैतया प्रादात् , पञ्च कृत्वोऽवद्यति , पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्धः ॥ स्वधा नमः ॥ इति वषट्करोति , स्वधाकारः पितृणां , नमस्कारो देवानां, उभये हीज्यन्ते , स्रक्तिषु निदधाति , देवान् वै पितॄन्मनुष्या अनुप्रपिबन्ते , देवान् एव पितॄनयाट् , त्रिर् निदधाति , त्रीन् हीदं पुरुषानभि स्म, त्रीन् परानन्वाचष्टे , त्रयो हि परे पिता पुत्रः पौत्रो अनुसंतत्यै , सर्वासु स्रक्तिषु निदधाति, सर्वासु हि दिक्षु पितरः , सर्वा एवैनं दिशो गमयति , नामुष्यां निदधाति , यदमुष्यां निदध्यान् मृत्युनैनाः परिवेशयेत् , तामेवानूद्यन्ति , अथ यत्तस्यां निमार्ष्टि तामेव तेन प्रीणाति ॥
1.10.19 अनुवाकः19
अत्र पितरो मादयध्वमि, त्युक्त्वा परायन्ति , त आहवनीयम् उपतिष्ठन्ते सुसंदृशं त्वा वयमि, त्या तमितोस्तिष्ठन्ति , अग्निमेवोपद्रष्टारं कृत्वान्तं प्राणस्य गच्छन्ति , अमीमदन्त पितरा, इत्य् उक्त्वा प्रपद्यन्ते , त ऊर्णां दशां वा न्यस्यन्ति , यदेवात्र निगच्छन्ति तस्यैषा निरवत्तिः , परेतन पितरः सोम्यासा, इत्याह , अनुषक्ता वा एतान् पितरः स्युर् व्यावृत्त्यै , समन्तमपः परिषिञ्चन् पर्येति , मार्जनं एवैषाम् , तदपरिषिञ्चन् पुनः पर्येति , अमुं वा एते लोकं निगच्छन्ति ये पितृयज्ञेन चरन्ति , प्रजापतिस्त्वेवैनांस्तता उन्नेतुमर्हन्ति , यत् प्राजापत्याम् ऋचं अन्वाह प्रजापतिरेवैनांस्तता उन्नयति , अथ यदपरिषिञ्चन् पुनः पर्येति , अमुं वा एतं लोकं पुनरुपावर्तन्ते, पितॄन् वा एतद्यज्ञोऽगन् , पाङ्क्तो यज्ञो , यत् पङ्क्त्या पुनरायन्ति सहैव यज्ञेनायन्ति ,मनस्वतीभिरायन्ति , मन एव पुनरुपह्वयन्ते ॥
1.10.20 अनुवाकः20
एतद्वा अस्य संवत्सरोऽभीष्टोऽभूदभीष्टा ऋतवो , अथ वा अस्य रुद्रा अनभीष्टा , यदेते त्र्यम्बकास्तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्ति , एककपाला भवन्ति , न वै पुरुषः कपालैराप्य , एकधैवैनं आप्नोति , अथो एका वा इयम् , अस्यां एव प्रतितिष्ठति , अभिघार्या३ नाभिघार्या३, इति मीमांसन्ते , यदभिघारयेद् रुद्रायास्य पशूनपिदध्यात् , तन् न सूर्क्ष्यं , अभिघार्या एव , न हि हविरनभिघृतमस्ति , एकोल्मुकं हरन्ति , एकोल्मुकं हि रुद्राणां , धूपायद्धरन्ति , धूपायद्धि रुद्राणामे, तां दिशँ हरन्ति , एषा हि रुद्राणां दिक् , पराचीनं हरन्ति , पराञ्चं एव रुद्रं हरन्ति , आखुं ते रुद्र पशुं करोमीत्याखुकिरा एकमुपवपति , पशुभ्यस्तेन निरवदयते , तस्मात्तान् पशुपतिर्घातुक , श्चतुष्पथे याजयेत् , चतुष्पथे वै रुद्राणां गृहा , गृहेष्वेव रुद्रं निरवदयते , एष ते रुद्र भागस्तं जुषस्व सह स्वस्राम्बिकया स्वाहेति , शरद्वै रुद्रस्य योनिः स्वसांबिका , एतां वा एषोऽन्वभ्यवचरति , तस्माच् शरदि भूयिष्ठं हन्ति , तयैवैनं सह निरवदयते , मध्यमपर्णेन जुहोति , तद्ध्यरक्षोहतं आरण्येन जुहोति , अरण्य एव रुद्रं निरवदयते , यत्पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् , तस्मादारण्येन जुहोति , अवांब रुद्रमदिमहीति , अनृणा एवाभूवन् , भेषजं गवे अश्वाय पुरुषाय भेषजं इति , अनृणा एव भूत्वा भेषजमक्रत, त्र्यम्बकं यजामहा इति परियन्ति , तत्रापि पतिकामा पर्येति , पतिवेदनं एवास्या, स्तत्तान् ऊर्ध्वान् उदस्य प्रतिलभन्ते , भगमेव प्रतिलभन्ते , तान् यजमानाय समावपन्ति , भगमेवास्मै समावपन्ति , या पतिकामा स्यात्तस्यै समावपेयु , र्भगमेवास्यै समावपन्ति, तान् मूते कृत्वा वृक्ष आसञ्चति ॥ रुद्रैष ते भागो, तेनावसेन परो मूजवतोऽतीहि पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥ इति गिरिर्वै रुद्रस्य योनिः , अतो वा एषोऽन्वभ्यवचारं प्रजाः शमायते , स्वेनैवैनं भागधेयेन स्वं योनिं गमयति , अनपेक्षमाणा आयन्ति रुद्रस्यानन्ववायाय, परोगोष्ठं मार्जयन्ते परोगोष्ठमेव रुद्रं निरवदयन्ते , अम्बी वै स्त्री भगनाम्नी , तस्मात् त्र्यम्बका , यस्य वै हविरप्रतिष्ठितमप्रतिष्ठितः सो , अप्रतिष्ठिता अस्य त्र्यम्बका , आदित्यं घृते चरुं निर्वपेत् पुनरेत्य गृहेषु , इयं वा अदितिरि , यं प्रतिष्ठा , यदादित्योऽस्यां एव प्रतितिष्ठति ॥
इति प्रथमकाण्डे चातुर्मास्यानि नाम दशमः प्रपाठकः।।