शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५/ब्राह्मणम् २

विकिस्रोतः तः
Jump to navigation Jump to search

६.५.२

अथ मृत्पिण्डमपादत्ते । यावन्तं निधयेऽलं मखस्य शिरोऽसीति यज्ञो वै मखस्तस्यैतच्छिर आहवनीयो वै यज्ञस्य शिर आहवनीयमु वा एतं चेष्यन्भवति तस्मादाह मखस्य शिरोऽसीति - ६.५.२.[१]

यद्वेवाह मखस्य शिरोऽसीति । जायत एष एतद्यच्चीयते शीर्षतो वै मुखतो जायमानो जायते शीषतो मुखतो जायमानो जायाता इति- ६.५.२.[२]

तं प्रथयति । वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसाङ्गिरस्वदित्ययं हैष लोको निधिस्तमेतद्वसवो गायत्रेण च्छन्दसा कुर्वंस्तथैवैनमयमेतद्गायत्रेण च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति पृथिव्यसीति पृथिवी ह्येष निधिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै वसव इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमान इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशास्ते तां प्रादेशमात्रीं कृत्वाथास्यै सर्वतस्तीरमुन्नयति - ६.५.२.[३]

अथ पूर्वमुद्धिमादधाति । रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदित्यन्तरिक्षं हैष उद्धिस्तमेतद्रुद्रास्त्रैष्टुभेन च्छन्दसाकुर्वंस्तथैवैनमयमेतत्त्रैष्टुभेन च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीत्यन्तरिक्षमसीत्यन्तरिक्षं ह्येष उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै रुद्रा अन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशासत
तथैवैतद्यजमानोऽन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशास्ते तां संलिप्य संश्लक्ष्ण्य - ६.५.२.[४]

अथोत्तरमुद्धिमादधाति । आदित्यास्त्वा कृण्वन्तु जागतेन च्छन्दसाङ्गिरस्वदिति द्यौर्हैष उद्धिस्तमेतदादित्या जागतेन च्छन्दसाकुर्वंस्तथैवैनमयमेतज्जागतेन च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति द्यौरसीति द्यौर्ह्येष उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वा आदित्या दिवं कृत्वा तस्यामेतामाशिषमाशासत तथैवैतद्यजमानो दिवं कृत्वा तस्यामेतामाशिषमाशास्ते - ६.५.२.[५]

अथैतेन चतुर्थेन यजुषा करोति । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वदिति दिशो हैतद्यजुरेतद्वै विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशोऽदधुस्तथैवैतद्यजमान एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधात्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति दिशोऽसीति दिशो ह्येतद्यजुर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै विश्वे देवा वैश्वानरा दिशः कृत्वा तास्वेतामाशिषमाशासत तथैवैतद्यजमानो दिशः कृत्वा तास्वेतामाशिषमाशास्ते - ६.५.२.[६]

तेनैतेनान्तरतश्च बाह्यतश्च करोति । तस्मादेषां लोकानामन्तरतश्च बाह्यतश्च दिशाऽपरिमितमेतेन करोत्यपरिमिता हि दिशः - ६.५.२.[७]

तां प्रादेशमात्रीमेवोर्ध्वां करोति । प्रादेशमात्रीं तिरश्चीं प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोति - ६.५.२.[८]

सा यदि वर्षीयसी प्रादेशात्स्यात् । एतेन यजुषा ह्रसीयसीं कुर्याद्यदि ह्रसीयस्येतेन
वर्षीयसीम् - ६.५.२.[९]

स यद्येकः पशुः स्यात् । एकप्रादेशां कुर्यादथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्यादिषुमात्रीं वा वीर्यं वा इषुर्वीर्यसम्मितैव तद्भवति पञ्चप्रादेशा ह स्म त्वेव पुरेषुर्भवति - ६.५.२.[१०]

अथ तिरश्चीं रास्नां पर्यस्यति । दिशो हैव सैतद्वै देवा इमांल्लोकानुखां कृत्वा दिग्भिरदृंहन्दिग्भिः पर्यतन्वंस्तथैवैतद्यजमान इमांल्लोकानुखां कृत्वा दिग्भिर्दृंहति दिग्भिः परितनोति - ६.५.२.[११]

तामुत्तरे वितृतीये पर्यस्यति । अत्र हैषां लोकानामन्ताः समायन्ति तदेवैनांस्तद्दृंहति - ६.५.२.[१२]

अदित्यै रास्नासीति । वरुण्या वै यज्ञे रज्जुरवरुण्यामेवैनामेतद्रास्नां कृत्वा पर्यस्यति - ६.५.२.[१३]

अथ चतस्र ऊर्ध्वाः करोति । तूष्णीमेव दिशो हैव ता एतद्वै देवा इमांल्लोकानुखां कृत्वा दिग्भिः सर्वतोऽदृंहंस्तथैवैतद्यजमान इमांल्लोकानुखां कृत्वा दिग्भिः सर्वतो दृंहति - ६.५.२.[१४]

ता एता ऐतस्यै भवन्ति । एतद्वा एता एतामस्तभ्नुवंस्तथैवैनामेतत्स्तभ्नुवन्ति तद्यदत ऊर्ध्वं तदेतया तिरश्च्या दृढमथ यदतोऽर्वाक्तदेताभिः - ६.५.२.[१५]

तासामग्रेषु स्तनानुन्नयन्ति । एतद्वै देवा इमांल्लोकानुखां कृत्वैतै स्तनैः सर्वान्कामानदुहत तथैवैतद्यजमान इमांल्लोकानुखां कृत्वैतै स्तनैः सर्वान्कामान्दुहे - ६.५.२.[१६]

सैषा गौरेव । इमे वै लोका उखेमे लोका गौस्तस्या एतदूधो यैषा तिरश्ची रास्ना सा
वितृतीये भवति वितृतीये हि गोरूधः - ६.५.२.[१७]

तस्यै स्तनानुन्नयति । ऊधसस्तत्स्तनानुन्नयति सा चतुस्तना भवति चतुस्तना हि
गौः - ६.५.२.[१८]

तां हैके द्विस्तनां कुर्वन्ति । अथो अष्टस्तनां न तथा कुर्याद्ये वै गोः कनीयस्तनाः पशवो ये भूयस्तना अनुपजीवनीयतरा वा अस्यैतेऽनुपजीवनीयतरां हैनां ते कुर्वतेऽथो ह ते न गां कुर्वते शुनीं वाविं वा वडबां वा तस्मात्तथा न कुर्यात् - ६.५.२.[१९]

अथास्यै बिलमभिपद्यते । अदितिष्टे बिलं गृभ्णात्विति वाग्वा अदितिरेतद्वा एनां देवाः कृत्वा वाचादित्या निरष्ठापयंस्तथैवैनामयमेतत्कृत्वा वाचादित्या निष्ठापयति - ६.५.२.[२०]

तां परिगृह्य निदधाति । कृत्वाय सा महीमुखामिति कृत्वाय सा महतीमुखामित्येतन्मृन्मयीं योनिमग्नय इति मृन्मयी ह्येषा योनिरग्नेः पुत्रेभ्यः प्रायच्छददितिः श्रपयानित्येतद्वा एनामदितिः कृत्वा देवेभ्यः पुत्रेभ्यः श्रपणाय प्रायच्छत्तथैवैनामयमेतत्कृत्वा देवेभ्यः श्रपणाय प्रयच्छति - ६.५.२.[२१]

ता हैके तिस्रः कुर्वन्ति । त्रयो वा इमे लोका इमे लोका उखा इति वदन्तोऽथो अन्यो
ऽन्यस्यै प्रायश्चित्यै यदीतरा भेत्स्यतेऽथेतरस्यां भरिष्यामो यदीतराथेतरस्यामिति न तथा कुर्याद्यो वा एष निधिः प्रथमोऽयं स लोको यः पूर्व उद्धिरन्तरिक्षं तद्य उत्तरो द्यौः साथ यदेतच्चतुर्थं यजुर्दिशो हैव तदेतावद्वा इदं सर्वं यावदिमे च लोका दिशश्च स यदत्रोपाहरेदति तद्रेचयेद्यदु वै यज्ञेऽतिरिक्तं क्रियते यजमानस्य तद्द्विषन्तं भ्रातृव्यमभ्यतिरिच्यते यदु भिन्नायै प्रायश्चित्तिरुत्तरस्मिंस्तदन्वाख्याने- ६.५.२.[२२]