भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
मध्याह्नकाले संप्राप्ते ब्रह्मणोऽव्यक्तजन्मनः ।।
चाक्षुषांतरमेवापि महावायुर्बभूव ह ।। १ ।।
तत्प्रभावेन हेमाद्रिः कंपमानः पुनःपुनः।।
यथा वृक्षस्तथैवासौ तत्कंपादेव मंडलः ।।२।।
नभसो भूतले प्राप्तस्तदा भूमिः प्रकंपिता ।।
बभूव मुनिशार्दूल सर्वलोकविनाशिनी ।। ३।।
सप्तद्वीपाः समुद्राश्च जलभूता बभूविरे ।।
लोकालोकस्तदा शेषोऽभवत्सोत्तरपर्वतः ।। ४ ।।
शेषा भूमिर्लयं प्राप्ता मन्वंतरे लये ।।
सहस्राब्दांतरे भूमिर्बभूव जलमध्यगा।। ।। ५ ।।
तदा स भगवान्विष्णुर्भवेन विधिना सह ।।
शैशुमारं शुभं चक्रं चकार नभसि स्थितम् ।। ६ ।।
गृहीत्वा सकलास्तारा ग्रहान्सर्वान्यथाविधि ।।
स्थापयामास भगवान्यथायोग्यं पितामहः ।।७।।
पुनर्वै ज्योतिषां चक्रैः शोषिता सकला मही ।।
स्थलीभूयायुताब्दान्ते दृश्यमाना बभूव ह ।। ८ ।।
तदा स भगवान्ब्रह्मा मुखात्सोमं चकार ह ।।
द्विजराजं महाप्राज्ञं सर्ववेदविशारदम् ।। ९ ।।
भुजाभ्यां भगवान्ब्रह्मा क्षत्रराजं महाबलम् ।।
सूर्यं च जनयामास राजनीतिपरायणम् ।। 3.4.5.१० ।।
ऊरुभ्यां वैश्यराजं च समुद्रं सरितां पतिम्।।
रत्नाकरं च कृतवान्परमेष्ठी पितामहः ।।११।।
पद्भ्यां च जनयामास विश्वकर्माणमुत्तमम् ।।
दक्षं नाम कलाभिज्ञं शूद्रराजं सुकृत्यकम् ।।१२।।
सोमाद्वै ब्राह्मणा जाताः सूर्याद्राजन्यवंशजाः ।।
समुद्रात्सकला वैश्या दक्षाच्छूद्रा बभूविरे ।।१३।।
सूर्यमंडलतो जातो मनुर्वैवस्वतः स्वयम् ।।
तस्य राज्यमभूत्सर्वं प्राणिनां लोकवासिनाम् ।।१४।।
दिव्यानां च युगानां च तज्ज्ञेयं चैकसप्ततिः ।।
तदा स भगवान्विष्णुर्विश्वरूपाऽवतारकः ।। १५ ।।
विष्णुः पूर्वार्द्धतो जातः परार्द्धाद्वामनः स्वयम् ।।
बालः सत्ययुगे देवो विश्वरूपः सनातनः ।।१६।।
चतुश्शतानि वर्षाणि परमायुर्नृणां तदा ।।
त्रेतायां यौवनं प्राप्तः पूर्वार्द्धात्संभवो हरेः ।। १७ ।।
वर्षाणां त्रिशतानां च नृणामायुः प्रकीर्तितम् ।।
द्वापरे वार्द्धिको देवो नृणामायुः शतद्वयम् ।। १८ ।।
कलौ तु मरणं प्राप्तो विश्वरूपो हरिः स्वयम् ।।
नृणामायुः शताब्दं च केषांचिद्धर्मशालिनाम् ।। १९ ।।
परार्द्धाद्वामनो देवो महेन्द्रावरजो हरिः ।।
चतुर्भुजो महाश्यामो गरुडोपरि संस्थितः ।। 3.4.5.२० ।।
विश्वरूपहितार्थाय त्रियुगी संबभूव ह ।।
वामनार्द्धाच्च त्रियुगी जातो नारायणः स्वयम्।।२१।।
श्वेतरूपो हरिः सत्ये हंसाख्यो भगवान्स्वयम् ।।
त्रेतायां रक्तरूपश्च यज्ञाख्यो भगवान्स्वयम् ।।
द्वापरे पीतरूपश्च स्वर्णगर्भो हरिः स्वयम् ।।२२।।
कलिकाले तु संप्राप्ते संध्यायां द्वापरे युगे ।।
कला तु सकला विष्णोर्वामनस्य तथा कला ।।
एकीभूता च देवक्यां जातो विष्णुस्तदा स्वयम् ।। २३ ।।
वसुदेवगृहे रम्ये मथुरायां च देवताः ।।
ब्रह्माद्यास्तुष्टुवुर्देवं परं ब्रह्म सनातनम् ।। २४ ।।
तदा प्रसन्नो भगवान्देवानाह शुभं वचः ।।
देवानां च हितार्थाय दैत्यानां निधनाय च ।।
अहं कलौ च बहुधा भवामि सुरसत्तमाः ।। २५ ।।
दिव्यं वृंदावनं रम्यं सूक्ष्मं भूतलसंस्थितम् ।।
तत्राहं च रहःक्रीडां करिष्यामि कलौ युगे ।। २६ ।।
सर्वे वेदाः कलौ घोरे गोपीभूताः समंततः ।।
रंस्यन्ते हि मया सार्द्धं त्यक्त्वा भूमंडलं तदा ।। २७ ।।
राधया प्रार्थितोऽहं वै यदा कलियुगांतके ।।
समाप्य च रहःक्रीडां कल्की च भवितास्म्यहम् ।। २८ ।।
युगांतप्रलयं कृत्वा पुनर्भूत्वा द्विधातनुः ।।
सत्यधर्मं करिष्यामि सत्ये प्राप्ते सुरोत्तमाः ।। २९ ।।
इति श्रुत्वा तु ते देवास्तत्रैवान्तर्लयं गताः ।।
एवं युगेयुगे क्रीडा हरेरद्भुतकर्मणः ।। 3.4.5.३० ।।
ये तु वै विष्णुभक्ताश्च ते हि जानंति विश्वगम् ।।
यथैव नृपतेर्दासाः स्वराज्ञः कार्यगौरवम् ।।
जानंति नापरे विप्र तथा दासा हरेः स्वयम् ।।३१।।
विष्णुवांछानुसारेण विष्णुमाया सनातनी ।।
रचित्वा विविधाँल्लोकान्महाकाली बभूव ह ।।३२।।
कृत्वा कालमयं सर्वं जगदेच्चराचरम् ।।
पश्चात्तु भक्षयित्वा तान्महागौरी भविष्यति ।।३३।।
नमस्तस्यै महाकाल्यै विष्णुमाये नमोनमः ।।
महागौरि नमस्तुभ्यमस्मान्पाहि भयान्वितान् ।।३४।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।। ५ ।।