अथर्ववेदः/काण्डं १५/सूक्तम् ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १५.२ अथर्ववेदः - काण्डं १५
सूक्तं १५.३
अथर्वा
सूक्तं १५.४ →
दे. अध्यात्मम्, व्रात्यः। १ पिपीलिकामध्या गायत्री, २ साम्नी उष्णिक् - - - - -- -

स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
सामासाद उद्गीथोऽपश्रयः ॥८॥
तामासन्दीं व्रात्य आरोहत्॥९॥
तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥