अथर्ववेदः/काण्डं १५/सूक्तम् ०२

विकिस्रोतः तः
← सूक्तं १५.१ अथर्ववेदः - काण्डं १५
सूक्तं १५.२
अथर्वा
सूक्तं १५.३ →
दे. अध्यात्मम्, व्रात्यः। १, ६, ९, १७, २५, ३० साम्न्यनुष्टुप्, - - - - -- -

अस्मिन् काण्डे व्रात्यमहिमा प्रपञ्च्यते। व्रात्योनाम उपनयनादिसंस्कारहीनः पुरुषः। -- --

स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१]
तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२]
बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३]
बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४]
तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५]
भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं।।६।।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः।।७।।
कीर्तिश्च यशश्च पुरःसरौ
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.१॥ [८]

स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९]
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०]
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११]
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२]
तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३]
अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.२॥ [१४]

स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५]
तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६]
वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७]
वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८]
तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९]
अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.३॥ [२०]

स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१]
तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२]
श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३]
श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४]
तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५]
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः [२६]
कीर्तिश्च यशश्च पुरःसरौ । [२७]
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.४॥ [२८]


[सम्पाद्यताम्]

टिप्पणी

अस्मिन् सूक्ते प्रत्यक्षरूपेण प्राची, दक्षिणा, प्रतीची, उदीची इति चतसृणां दिशानां उल्लेखमस्ति। किन्तु परोक्षरूपेण एष प्रतीयते यत् अत्र अष्टानां दिशानां वर्णनमस्ति। कथं, अयं अष्टसखी शब्दोपरि टिप्पणीतः स्पष्टं भविष्यति।