शतपथब्राह्मणम्/काण्डम् ६/अध्यायः २/ब्राह्मणम् १

विकिस्रोतः तः
Jump to navigation Jump to search

६.२.१

प्रजापतिरग्निरूपाण्यभ्यध्यायत् । स योऽयं कुमारो रूपाण्यनुप्रविष्ट आसीत्तमन्वैच्छत्सोऽग्निरवेदनु वै मा पिता प्रजापतिरिच्छति हन्त तद्रूपमसानि यन्म एष न वेदेति - ६.२.१.[१]

स एतान्पञ्च पशूनपश्यत् । पुरुषमश्वं गामविमजं यदपश्यत्तस्मादेते पशवः - ६.२.१.[२]

स एतान्पञ्च पशून्प्राविशत् । स एते पञ्च पशवोऽभवत्तमु वै प्रजापतिरन्वेवैच्छत् - ६.२.१.[३]

स एतान्पञ्च पशूनपश्यत् । यदपश्यत्तस्मादेते पशवस्तेष्वेतमपश्यत्तस्माद्वेवैते पशवः - ६.२.१.[४]

स ऐक्षत । इमे वा अग्निरिमानेवात्मानमभिसंस्करवै यथा वा अग्निः समिद्धो दीप्यत एवमेषां चक्षुर्दीप्यते यथाग्नेर्धूम उदयत एवमेषामूष्मोदयते यथाग्निरभ्याहितं दहत्येवं बप्सति यथाग्नेर्भस्म सीदत्येवमेषाम्पुरीषं सीदतीमे वा अग्निरिमानेवात्मानमभिसंस्करवा इति तान्नाना देवताभ्य आलिप्सत वैश्वकर्मणं पुरुषं वारुणमश्वमैन्द्रमृषभं त्वाष्ट्रमविमाग्नेयमजम् - ६.२.१.[५]

स ऐक्षत । नाना वा इदं देवताभ्य आलिप्सेऽग्नेर्वहं रूपाणि कामये हन्तैनानग्निभ्यः कामायालभा इति तानग्निभ्यः कामायालभत तद्यदग्निभ्य इति बहूनि ह्यग्निरूपाण्यभ्यध्यायदथ यत्कामायेति कामेन ह्यालभत तानाप्रीतान्पर्यग्निकृतानुदीचो नीत्वा समज्ञपयत् - ६.२.१.[६]

स ऐक्षत । या वै श्रीरभ्यधासिषमिमास्ताः शीर्षसु हन्त शीर्षाण्येवोपदधा इति स शीर्षाण्येवोत्कृत्योपाधत्ताथेतराणि कुसिन्धान्यप्सु प्राप्लावयदजेन यज्ञं समस्थापयन्नेन्मे यज्ञो विकृष्टोऽसदित्यात्मा वै यज्ञो नेन्मेऽयमात्मा विकृष्टोऽसदित्येतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत् - ६.२.१.[७]

स ऐक्षत । यमिममात्मानमप्सु प्रापिप्लवं तमन्विच्छानीति तमन्वैच्छत्तद्यदेषामप्सु प्रविद्धानां प्रत्यतिष्ठत्ता अपः समभरदथ यदस्यां तां मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकरोत्तस्मादेतदुभयमिष्टका भवति मृच्चापश्च - ६.२.१.[८]

स ऐक्षत । यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्ये- मर्त्यः कुणपोऽनपहतपाप्मा भविष्यामि हन्तैतदग्निना पचानीति तदग्निनापचत्तदेनदमृतमकरोदेतद्वै हविरमृतं भवति यदग्निना पचन्ति तस्मादग्निनेष्टकाः पचन्त्यमृता एवैनास्तत्कुर्वन्ति - ६.२.१.[९]

तद्यदिष्ट्वा पशुनापश्यत् । तस्मादिष्टकास्तस्मादिष्ट्वैव पशुनेष्टकाः कुर्यादनिष्टका ह ता भवन्ति याः पुरा पशोः कुर्वन्त्यथो ह तदन्यदेव - ६.२.१.[१०]

तद्यास्ताः श्रियः । एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च
चितयस्तद्यत्पशुशीर्षाण्युपधाय चितीश्चिनोत्येतैरेव तच्छीर्षभिरेतानि कुसिन्धानि संदधाति - ६.२.१.[११]

त एते सर्वे पशवो यदग्निः । तस्मादग्नौ पशवो रमन्ते पशुभिरेव तत्पशवो रमन्ते तस्माद्यस्य पशवो भवन्ति तस्मिन्नग्निराधीयते ऽग्निर्ह्येष यत्पशवस्ततो वै प्रजापतिरग्निरभवत् - ६.२.१.[१२]

तद्धैके आहुः । अत्रैवैतैः सर्वैः पशुभिर्यजेत यद्वा एतैरत्र सर्वैः प्रजापतिरयक्ष्यत तदेवाग्नेरन्तं पर्यैष्यत्तद्यदेतैरत्र सर्वैर्यजेत तदेवाग्नेरन्तं परीयादिति न तथा कुर्याद्देवानां तदितादियादथो पथस्तदियादथो किं ततः सम्भरेदेतानि वा एतत्कुसिन्धान्येताश्चितीः सम्भरति तस्मात्तथा न कुर्यात् - ६.२.१.[१३]

यद्वेवैतान्पशूनालभते । आयतनमेवैतदग्नये करोति न ह्यनायतने कश्चन रमतेऽन्नं वा आयतनं तदेतत्पुरस्तान्निदधाति तदेनं पश्यन्नग्निरुपावर्तते - ६.२.१.[१४]

पुरुषोऽश्वो गौरविरजो भवन्ति । एतावन्तो वै सर्वे पशवोऽन्नम्पशवस्तद्यावदन्नं तदेतत्पुरस्तान्निदधाति तदेनं पश्यन्नग्निरुपावर्तते - ६.२.१.[१५]

पञ्च भवन्ति । पञ्च ह्येतेऽग्नयो यदेताश्चितयस्तेभ्य एतत्पञ्चायतनानि निदधाति
तदेनं पश्यन्नग्निरुपावर्तते - ६.२.१.[१६]

तद्यदग्निभ्य इति । बहवो ह्येतेऽग्नयो यदेताश्चितयोऽथ यत्कामायेति यथा तं काममाप्नुयाद्यजमानो यत्काम एतत्कर्म कुरुते - ६.२.१.[१७]

पुरुषं प्रथममालभते । पुरुषो हि प्रथमः पशूनामथाश्वं पुरुषं ह्यन्वश्वोऽथ गामश्वं ह्यनु गौरथाविं गां ह्यन्वविरथाजमविं ह्यन्वजस्तदेनान्यथापूर्वं यथाश्रेष्ठमालभते - ६.२.१.[१८]

तेषां विषमा रशनाः स्युः । पुरुषस्य वर्षिष्ठाऽथ ह्रसीयस्यथ ह्रसीयसी तद्यथारूपं पशूनां रशनाः करोत्यपापवस्यसाय सर्वास्त्वेव समाः स्युः सर्वाः सदृश्यः सर्वे ह्येते समाः सर्वे सदृशा अग्नयो ह्युच्यन्तेऽन्नं ह्युच्यन्ते तेन समास्तेन सदृशाः - ६.२.१.[१९]

तदाहुः । कथमस्यैषोऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धा भवतीति पुरोडाशकपालेषु न्वेवाऽऽप्यत इयं प्रथमा मृन्मयीष्टकाथ यत्पशुमालभते तेन पश्विष्टकाप्यतेऽथ यद्वपामभितो हिरण्यशकलौ भवतस्तेन हिरण्येष्टकाप्यतेऽथ यदिध्मो यूपः परिधयस्तेन वानस्पत्येष्टकाप्यतेऽथ यदाज्यं प्रोक्षण्यः पुरोडाशस्तेनान्नं पञ्चमीष्टकाऽऽप्यत एवमु हास्यैषोऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धो भवति - ६.२.१.[२०]

तेषां चतुर्विंशतिः सामिधेन्यः । चतुर्विंशत्यर्धमासो वै संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.१.[२१]

यद्वेव चतुर्विंशतिः । चतुर्विंशत्यक्षरा वै गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.१.[२२]

यद्वेव चतुर्विंशतिः । चतुर्विंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.१.[२३]

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । प्राणो गायत्र्यात्मा त्रिष्टुप्प्राणमेवास्य गायत्रीभिः समिन्द्ध आत्मानं त्रिष्टुब्भिर्मध्ये त्रिष्टुभो भवन्त्यभितो गायत्र्यो मध्ये ह्ययमात्माऽभितः प्राणा भूयसीः पुरस्ताद्गायत्रीरन्वाह कनीयसीरुपरिष्टाद्भूयांसो हीमे पुरस्तात्प्राणाः कनीयांस उपरिष्टात् - ६.२.१.[२४]

सोऽन्वाह । समास्त्वाग्न ऋतवो वर्धयन्त्विति प्रजापतिं विस्रस्तं यत्राग्निः समदधात्तमब्रवीद्या मत्संमिताः सामिधेन्यस्ताभिर्मा समिन्त्स्वेति - ६.२.१.[२५]

स एता अपश्यत् । समास्त्वाग्न ऋतवो वर्धयन्त्विति समाश्च त्वाग्न ऋतवश्च वर्धयन्त्वित्येतत्संवत्सरा ऋषयो यानि सत्येति संवत्सराश्च त्वऽर्षयश्च सत्यानि च
वर्धयन्त्वित्येतत्सं दिव्येन दीदिहि रोचनेनेत्यसौ वा आदित्यो दिव्यं रोचनं तेन संदीदिहीत्येतद्विश्वा आभाहि प्रदिशश्चतस्र इति सर्वा आभाहि प्रदिशश्चतस्र इत्येतत्
- ६.२.१.[२६]

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव संस्कुर्यादेतं संदध्यादेतं जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिं समैन्द्ध तेन प्राजापत्याः - ६.२.१.[२७]

द्वादशाप्रियः । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति - ६.२.१.[२८]

यद्वेव द्वादश । द्वादशाक्षरा वै जगतीयं वै जगत्यस्यां हीदं सर्वं जगदियमु वा अग्निरस्यै हि सर्वोऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति - ६.२.१.[२९]

यद्वेव द्वादश । द्वादशाक्षरा वै जगती जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि
प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति - ६.२.१.[३०]

ता एता ऊर्ध्वा अस्य समिधो भवन्तीति । प्रजापतिं विस्रस्तं यत्राग्निः समदधात्तमब्रवीद्या मत्सम्मिताऽआप्रियस्ताभिर्माऽऽप्रीणीहीति - ६.२.१.[३१]

स एता अपश्यत् । ऊर्ध्वा अस्य समिधो भवन्तीत्यूर्ध्वा ह्येतस्य समिद्धस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेरित्यूर्ध्वानि ह्येतस्य शुक्राणि शोचींष्यर्चींषि भवन्ति द्युमत्तमेति वीर्यवत्तमेत्येतत्सुप्रतीकस्येति सर्वतो वा अग्निः सुप्रतीकः सूनोरिति यदेनं जनयति तेनास्यैष सूनुः - ६.२.१.[३२]

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव संस्कुर्यादेतं संदध्यादेतं जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः - ६.२.१.[३३]

ता विषमा विषमपदाः । विषमाक्षरा विषमाणि हि छन्दांस्यथो यान्यस्याध्यात्ममङ्गानि विषमाणि तान्यस्यैताभिराप्रीणाति - ६.२.१.[३४]

वैश्वानरः पशुपुरोडाशः । वैश्वानरो वै सर्वेऽग्नयः सर्वेषामग्नीनामुपाप्त्यै - ६.२.१.[३५]

यद्वेव वैश्वानरः । ऋतवो हैते यदेताश्चितयोऽग्नयो वा ऋतव ऋतवः संवत्सरः संवत्सरो वैश्वानरो यदग्नय इति स्यादति तद्रेचयेद्द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानर आग्नेय्यो याज्यानुवाक्या अग्निरूपाणामुपात्यै कामवत्यः कामानामुपात्यै - ६.२.१.[३६]

तद्धैके । इत्येवैतानि पशुशीर्षाणि वित्त्वोपदधत्युभयेनैते पशव इति ते ह ते मर्त्याः कुणपाः सम्भवन्त्यनाप्रीतानि हि तानि तद्ध तथाऽऽषाढेः सौश्रोमतेयस्योपदधुः स ह क्षिप्र एव ततो ममार - ६.२.१.[३७]

हिरण्मयान्यु हैके कुर्वन्ति । अमृतेष्टका इति वदन्तस्ता ह ता अमृतेष्टका न हि तानि पशुशीर्षाणि - ६.२.१.[३८]

मृन्मयान्यु हैके कुर्वन्ति । उत्सन्ना वा एते पशवो यद्वै किंचोत्सन्नमियं तस्य सर्वस्य प्रतिष्ठा तद्यत्रैते पशवो गतास्तत एनानधि सम्भराम इति न तथा कुर्याद्यो वा एतेषामावृतं च ब्राह्मणं च न विद्यात्तस्यैत उत्सन्नाः स्युः स एतानेव पञ्च पशूनालभेत यावदस्य वशः स्यात्तान्हैतान्प्रजापतिः प्रथम आलेभे श्यापर्णः सायकायनोऽन्तमोऽथ ह स्मैतानेवान्तरेणालभन्तेऽथैतर्हीमौ द्वावेवालभ्येते प्राजापत्यश्च वायव्यश्च तयोरतो ब्राह्मणमुद्यते - ६.२.१.[३९]