लिङ्गपुराणम् - पूर्वभागः/अध्यायः ८८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

ऋषय ऊचुः।।
केन योगेन वै सूत गुणप्राप्तिः सतामिह।।
अणिमादिगुणोपेता भवंत्येवेह योगिनः।।
तत्सर्वं विस्तरात्सूत वक्तुमर्हसि सांप्रतम्।। ८८.१ ।।

सूत उवाच।।
अत ऊर्ध्वं प्रवक्ष्यामि योगं परमदुर्लभम्।।
पंचधा संस्मरेदादौ स्थाप्य चित्ते सनातनम्।। ८८.२ ।।

कल्पयेच्चासनं पद्मं सोमसूर्याग्निसंयुतम्।।
षड्विंशच्छक्तिसंयुक्तमष्टधा च द्विजोत्तमाः।। ८८.३ ।।

ततः षोडशधा चैव पुनर्द्वादशधा द्विजाः।।
स्मरेच्च तत्तथा मध्ये देव्या देवमुमापतिम्।। ८८.४ ।।

अष्टशक्तिसमायुक्तमष्टमूर्तिमजं प्रभुम्।।
ताभिश्चाष्टविधा रुद्राश्चतुःषष्टिविधाः पुनः।। ८८.५ ।।

शक्तयश्च तथा सर्वा गुणाष्टकसमन्विताः।।
एवं स्मरेत्क्रमेणैव लब्ध्वा ज्ञानमनुत्तमम्।। ८८.६ ।।

एवं पाशुपतं योगं मोक्षसिद्धिप्रदायकम्।।
तस्याणिमादयो विप्रा नान्यथा कर्मकोटिभिः।। ८८.७ ।।

तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम्।।
तत्सर्वं क्रमयोगेन ह्युच्यमानं निबोधत।। ८८.८ ।।

अणिमा लघिमा चैव महिमा प्राप्तिरेव च।।
प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः।। ८८.९ ।।

वशित्वमथ सर्वत्र यत्र कामावसायिता।।
तच्चापि त्रिविधं ज्ञेयमैश्वर्यं सार्वकामिकम्।। ८८.१० ।।

सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते।।
सावद्यं नाम यत्तत्र पंचभूतात्मकं स्मृतम्।। ८८.११ ।।

इंद्रियाणि मनश्चैव अहंकारश्च यः स्मृतः।।
तत्र सूक्ष्मप्रवृत्तिस्तु पंचभूतात्मिका पुनः।। ८८.१२ ।।

इंद्रियाणि मनश्चित्तबुद्ध्यहंकारसंज्ञितम्।।
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च।। ८८.१३ ।।

संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते।।
पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते।। ८८.१४ ।।

तस्य रूपं प्रवक्ष्यामि यथाह भगवान्प्रभुः।।
त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः।। ८८.१५ ।।

अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम्।।
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्।। ८८.१६ ।।

ततस्य भवति प्राप्यं प्रथमं योगिनां बलम्।।
लंघनं प्लवनं लोके रूपमस्य सदा भवेत्।। ८८.१७ ।।

शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम्।।
त्रैलोक्ये सर्वभूतानां महिम्ना चैव वंदितम्।। ८८.१८ ।।

महित्वं चापि लोकेस्मिंस्तृतीयो योग उच्यते।।
त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम्।। ८८.१९ ।।

प्राकामान् विषयान् भुंक्ते तथाप्रतिहतः क्वचित्।।
त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते।। ८८.२० ।।

ईशो भवति सर्वत्र प्रविभागेन योगवित्।।
वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे।। ८८.२१ ।।

इच्छया तस्य रूपाणि भवंति न भवन्ति च।।
यत्र कामावसायित्वं त्रैलोक्ये सचराचरे।। ८८.२२ ।।

शब्दः स्पर्शो रसो गंधो रूपं चैव मनस्तथा।।
प्रवर्तंतेऽस्य चेच्छातो न भवंति यथेच्छया।। ८८.२३ ।।

न जायते न म्रियते छिद्यते न च भिद्यते।।
न दह्यते न मुह्येत लीयते न च लिप्यते।। ८८.२४ ।।

न क्षीयते न क्षरति खिद्यते न कदाचन।।
क्रियते वा न सर्वत्र तथा विक्रीयते न च।। ८८.२५ ।।

अगंधरसरूपस्तु अस्पर्शः शब्दवर्जितः।।
अवर्णो ह्यस्वरश्चैव असवर्णस्तु कर्हिचित्।। ८८.२६ ।।

स भुक्ते विषयांश्चैव विषयैर्न च युज्यते।।
अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वादपवर्गिकः।। ८८.२७ ।।

व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः।।
पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः।। ८८.२८ ।।

गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते।।
ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम्।। ८८.२९ ।।

अपवर्गं ततो गच्छेत्सूक्ष्मं तत्परमं पदम्।।
एवं पाशुपतं योगं ज्ञातव्यं मुनिपुंगवाः।। ८८.३० ।।

स्वर्गापवर्गफलदं शिवसायुज्यकारणम्।।
अथवा गतविज्ञानो रागात्कर्म समाचरेत्।। ८८.३१ ।।

राजसं तामसं वापि भुक्त्वा तत्रैव मुच्यते।।
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते।। ८८.३२ ।।

तस्मात्स्थानात्पुनः श्रेष्ठो मानुष्यमुपपद्यते।।
तस्माद्ब्रह्म परं सौख्यं ब्रह्मशाश्वतमुत्तमम्।। ८८.३३ ।।

ब्रह्म एव हि सेवेत ब्रह्मैव हि परं सुखम्।।
परिश्रमो हि यज्ञानां महतार्थेन वर्तते।। ८८.३४ ।।

भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम्।।
अथवा ध्यानसंयुक्तो ब्रह्मतत्त्वपरायणः।। ८८.३५ ।।

न तु च्‌यावयितुं शक्यो मन्वंतरशतैरपि।।
दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वतोमुखम्।। ८८.३६ ।।

विश्वपादशिरोग्रीवं विश्वेशं विश्वरूपिणम्।।
विश्वगंधं विश्वमाल्यं विश्वांबरधरं प्रभुम्।। ८८.३७ ।।

गोभिर्महीं संपतते पतत्त्रिणो नैवं भूयो जनयत्येवमेव।।
कविं पुराणमनुसासितारं सूक्ष्माच्च सूक्ष्मं महतो महांतम्।। ८८.३८ ।।

योगेन पश्येन्न च चक्षुषा पुनर्निरिंद्रियं पुरुषं रुक्मवर्णम्।।
अलिंगिनं निर्गुणं चेतनं च नित्यं सदा सर्वगं सर्वसारम्।। ८८.३९ ।।

पश्यंति युक्त्या ह्यचलप्रकाशं तद्भावितास्तेजसा दीप्यमानम्।।
अपाणिपादोदरपार्श्वजिह्वो ह्यतींद्रियो वापि सुसूक्ष्म एकः।। ८८.४० ।।

पश्यत्यचक्षुः स श्रृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति।।
स वेद सर्वं न च सर्ववेद्यं तमाहुरग्र्यं पुरुषं महांतम्।। ८८.४१ ।।

अचेतनां सर्वगतां सूक्ष्मां प्रसवधर्मिणीम्।।
प्रकृतिं सर्वभूतानां युक्ताः पश्यंति योगिनः।। ८८.४२ ।।

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्।।
सर्वतः श्रुतिमँल्लोके सर्वमावृत्य तिष्ठति।। ८८.४३ ।।

युक्तो योगेन चेशानं सर्वतश्च सनातनम्।।
पुरुषं सर्वभूतानां तं विद्वान्न विमुह्यति।। ८८.४४ ।।

भूतात्मानं महात्मानं परमात्मानमव्ययम्।।
सर्वात्मानं परं ब्रह्म तद्वै ध्याता न मुह्यति।। ८८.४५ ।।

पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु।।
पुरि शेते सुदुर्ग्राह्यस्तस्मात्पुरुष उच्यते।। ८८.४६ ।।

अथ चेल्लुप्तधर्मा तु सावशेषैः स्वकर्मभिः।।
ततस्तु ब्रह्मगर्भे वै शुक्रशोणितसंयुते।। ८८.४७ ।।

स्त्रीपुंसोः संप्रयोगे हि जायते हि ततः प्रभुः।।
ततस्तु गर्भकालेन कललं नाम जायते।। ८८.४८ ।।

कालेन कललं चापि बुद्वुदं संप्रजायते।।
मृत्पिंडस्तु यथा चक्रे चक्रावर्तेन पीडितः।। ८८.४९ ।।

हस्ताभ्यां क्रियमाणस्तु बिंबत्वमनुगच्छति।।
एवमाध्यात्मिकैर्युक्ता वायुना संप्रपूरितः।। ८८.५० ।।

यदि योनिं विमुंचामि तत्प्रपद्ये महेश्वरम्।।
यावद्धि वैष्णवो वायुर्जातमात्रं न संस्पृशेत्।। ८८.५१ ।।

तावत्कालं महादेवमर्चयामीति चिंतयेत्।।
जायते मानुषस्तत्र यथारूपं यथावयः।। ८८.५२ ।।

वायुः संभवते खात्तु वाताद्भवति वै जलम्।।
जलात्संभवति प्राणः प्राणाच्छुक्रं विवर्धते।। ८८.५३ ।।

रक्तभागास्त्रयस्त्रिंशद्रेतोभागाश्चतुर्दश।।
भागतोर्धफलं कृत्वा ततो गर्भो निषिच्यते।। ८८.५४ ।।

ततस्तु गर्भसंयुक्तः पंचभिर्वायुभिर्वृतः।।
पितुः शरीरात्प्रत्यंगं रूपमस्योपजायते।। ८८.५५ ।।

ततोस्य मातुराहारात्पीतलीढप्रवेशनात्।।
नाभिदेशेन वै प्राणास्ते ह्याधारा हि देहिनाम्।। ८८.५६ ।।

नवमासात्परिक्लिष्टः संवेष्टितशिरोधरः।।
वेष्टितः सर्वगात्रैश्च अपर्याप्त प्रवेशनः।। ८८.५७ ।।

नवमासोषितश्चापि योनिच्छिद्रादवाङ्मुखः।।
ततः स्वकर्मभिः पापैर्निरयं संप्रपद्यते।। ८८.५८ ।।

असिपत्रवनं चैव शाल्मलिच्छेदनं तथा।।
ताडनं भक्षणं चैव पूयशोणितभक्षणम्।। ८८.५९ ।।

यथा ह्यापस्तु संछिन्नाः संश्लेष्ममुपयांति वै।।
तथा छिन्नाश्च भिन्नाश्चयातनास्थानमागताः।। ८८.६० ।।

एवं जीवास्तु तैः पापैस्तप्यमानाः स्वयंकृतैः।।
प्राप्नुयुः कर्मभिः शेषैर्दुःखं वा यदि वेतरत्।। ८८.६१ ।।

एकेनैव तु गंतव्यं सर्वमुत्सृज्य वै जनम्।।
एकेनाव तु भोक्तव्यं तस्मात्सुकृतमाचरेत्।। ८८.६२ ।।

न ह्येनं प्रस्तितं कश्चिद्गच्छंतमनुगच्चति।।
यदनेन कृतं कर्म तदेनमनुगच्छति।। ८८.६३ ।।

ते नित्यं यमविष्येषु संप्रवृत्ताः क्रोशंतः सततमनिष्टसंप्रयोगैः।।
शुष्यंते परिगतवेदनाशरीराबह्वीभिः सुभृशमनंतयातनाभिः।। ८८.६४ ।।

कर्मण मनसा वाचा यदभीक्ष्णं निषेवते।।
तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत्।। ८८.६५ ।।

अनादिमान्प्रबंधः स्यात्पूर्वकर्मणि देहिनः।।
संसारं तामसं घोर षड्विधं प्रतिपद्यते।। ८८.६६ ।।

मानुष्यात्पशुभावश्च पशुभावान्मृगो भवेत्।।
मृगत्वात्पक्षिभावश्च तस्माच्चैव सरीसृपः।। ८८.६७ ।।

सरीसृपत्वाद्गच्छेद्वै स्थावरत्वं न संशयः।।
स्थावरत्वे पुनः प्राप्ते यावदुन्मिलते जनः।। ८८.६८ ।।

कुलालचक्रवद्भ्रांतस्तत्रैव परिवर्तते।।
इत्येवं हि मनुष्यादिः संसारः स्थावरातिकः।। ८८.६९ ।।

विज्ञेयस्तामसो नाम तत्रैव परिवर्तते।।
सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः।। ८८.७० ।।

पिशाचांतः स विज्ञेयः स्वर्गस्थानेषु देहिनाम्।।
ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः।। ८८.७१ ।।

चतुर्दशानां स्थानानां मध्ये विष्टंभकंरजः।।
मर्मसु च्छिद्यमानेषु वेदनार्तस्य देहिनः।। ८८.७२ ।।

ततस्तत्परमं ब्रह्म कथं विप्रः स्मरिष्यति।।
संसारः पूर्वधर्मस्य भावनाभिः प्रणोदितः।। ८८.७३ ।।

मानुषं भजते नित्यं तस्माद्ध्यानं समाचरेत्।।
चतुर्दशविधं ह्येतद्बुद्ध्वा संसारमंडलम्।। ८८.७४ ।।

नित्यं समारभेद्धर्मं संसारभयपीडितः।।
ततस्तरति संसारं क्रमेण परिवर्तितः।। ८८.७५ ।।

तस्माच्च सततं युक्तो ध्यानतत्परयुंजकः।।
तथा समारभेद्योगं यथात्मानं स पश्यति।। ८८.७६ ।।

एष आपः परं ज्योतिरेष सेतुरनुत्तमः।।
विवृत्या ह्येष संभेदाद्भूतानां चैव शाश्वतः।। ८८.७७ ।।

तदेनं सेतुमात्मानमग्निं वै विश्वतोमुखम्।।
हृदिस्थं सर्वभूतानामुपासीत महेश्वरम्।। ८८.७८ ।।

तथांतः संस्थितं देवं स्वशक्त्या परिमंडितम्।।
अष्टधा चाष्टधा चैव तथा चाष्टविधेन च।। ८८.७९ ।।

सृष्ट्यर्थं संस्थितं वह्निं संक्षिप्य च हृदि स्थितम्।।
ध्यात्वा यथावद्देवेशं रुद्रं भुवननायकम्।। ८८.८० ।।

हुत्वा पंचाहुतीः सम्यक् तच्चिंतागतमानसः।।
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः।। ८८.८१ ।।

आपः पूताः सकृत्प्राश्य तूष्णीं हुत्वा ह्युपाविशन्।।
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृताः।। ८८.८२ ।।

अपानाय द्वितीया च व्यानायेति तथा परा।।
उदानाय चतुर्थि स्यात्समानायेति पंचमी।। ८८.८३ ।।

स्वाहाकारैः पृथग् हुत्वा शेषं भुंजीत कामतः।।
अपः पुनः सकृत्प्राश्य आचम्य हृदयं स्पृशेत्।। ८८.८४ ।।

प्राणानां ग्रंथिरस्यात्मा रुद्रो ह्यात्मा विशांतकः।।
रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम्।। ८८.८५ ।।

प्राणे निविष्टो वै रुद्रस्तस्मात्प्राणमयः स्वयम्।।
प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम्।। ८८.८६ ।।

शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम्।।
एवं पंचाहुतीश्चैव श्राद्धे कुर्वीत शासनात्।।८८.८७

पुरुषोसि पिरे शेषे त्वमंगुष्टप्रमाणतः।।
आश्रिताश्चैव चांगुष्टमीशः परमकारणम्।।८८.८८

सवस्य जगतश्चैव प्रभुः प्रणातु शाश्वतः।
त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा।। ८८.८९

मृदुस्त्वमन्नमस्मभ्यमेतदस्तु हुतं तव।।
इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः।। ८८.९० ।।

योगाचारः स्वयं तेन ब्रह्मणा कथितःपुरा।।
एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः।। ८८.९१ ।।

भस्मस्नायी भवेन्नित्यं भस्मलिप्तः सदा भवेत्।।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्।। ८८.९२ ।।

दैवे कर्मणि पित्र्ये वा स याति परमां गतिम्।। ८८.९३ ।।

इति श्रीलिंगमहापुराणे पूर्वभागेऽणिमाद्यष्टसिद्धित्रिगुणसंसारप्राग्नौ होमादिवर्णनं नामाष्टाशीतितमोऽध्यायः।। ८८ ।।