लिङ्गपुराणम् - पूर्वभागः/अध्यायः १०८
ऋषय ऊचुः।।
दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा।।
धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम्।। १०८.१ ।।
कथं लब्धं तदा ज्ञानं तस्मात्कृष्णेन धीमता।।
वक्तुमर्हसि तां सूत कथां पातकनाशिनीम्।। १०८.२ ।।
सूत उवाच।।
स्वेच्छया ह्यवतीर्णोपि वासुदेवः सनातनः।।
निंदयन्नेव मानुष्यं देहशुद्धिं चकार सः।। १०८.३ ।।
पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च।।
आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम्।। १०८.४ ।।
नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः।।
बहुमानेन वै कृष्णस्त्रिः कृत्वावै प्रदक्षिणम्।। १०८.५ ।।
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः।।
नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा।। १०८.६ ।।
भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः।।
तमग्निरिति विप्रेंद्रा वायुरित्यादिभिः क्रमात्।। १०८.७ ।।
दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः।।
मुनेः प्रसादान्मान्योऽसौ कृष्णः पाशुपते द्विजाः।। १०८.८ ।।
तपसा त्वेकवर्षान्ते दृष्ट्वा देवं महेश्वरम्।।
सांबं सगणमव्यग्रं लब्धवान्पुत्रमात्मनः।। १०८.९ ।।
तदाप्रभृति तं कृष्णं मुनयः संशितव्रताः।।
दिव्याः पाशुपताः सर्वे तस्थुः संवृत्य सर्वदा।। १०८.१० ।।
अन्यं च कथयिष्यामि मुक्त्यर्थं प्राणिनां सदा।।
सौवर्णीं मेखलां कृत्वा आधारं दंडधारणम्।। १०८.११ ।।
सौवर्णं पिंडिकं चापि व्यजनं दंडमेव च।।
नरैः स्त्रियाथ वा कार्यं मषीभाजनलेखनीम्।। १०८.१२ ।।
क्षुराकर्त्तरिका चापि अथ पात्रमथापि वा।।
पाशुपताय दातव्यं भस्मोद्धूलितविग्रहैः।। १०८.१३ ।।
सौवर्णं राजतं वापि ताम्रंवाथ निवेदयेत्।।
आत्मवित्तानुसारेण योगिनं पूजयेद्बुधः।। १०८.१४ ।।
ते सर्वे पापनिर्मुक्ताः समस्तकुलसंयुताः।।
यांति रुद्रपदं दिव्यं नात्र कार्या विचारणा।। १०८.१५ ।।
तस्मादनेन दानेन गृहस्थो मुच्यते भवात्।।
योगिनां संप्रदानेन शिवः क्षिप्रं प्रसीदति।। १०८.१६ ।।
राज्यं पुत्रं धनं भव्यमश्वं यानमथापि वा।।
सर्वस्वं वापि दातव्यं यदीच्छेन्मोक्षमुत्तमम्।। १०८.१७ ।।
अध्रुवेण शरीरेण ध्रुवं साध्यं प्रयत्नतः।।
भव्यं पाशुपतं नित्यं संसारार्णवतारकम्।। १०८.१८ ।।
एतद्वः कथितं सर्वं संक्षेपान्न च संशयः।।
यः पठेच्छृणुयाद्वापि विष्णुलोकं स गच्छति।। १०८.१९ ।।
इति श्रीलिंगमहापुराणे पूर्वभागेऽष्टोत्तरशततमोऽध्यायः।। १०८ ।।
।।समाप्तश्चायं पूर्वभागः।। श्रीशंकरार्पणमस्तु ।।
इति श्रीसटीकलिंगमहापुराणपूर्वभागः समाप्तः।।