सामग्री पर जाएँ

लिङ्गपुराणम् - पूर्वभागः/अध्यायः ४६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
सप्तद्वीपा तथा पृथ्वी नदीपर्वतसंकुला।।
समुद्रैः सप्तभिश्चैव सर्वतः समलंकृता।। ४६.१ ।।

जंबूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चस्तथैव च।।
शाकः पुष्करनामा च द्वीपास्त्वभ्यन्तरे क्रमात्।। ४६.२ ।।

सप्तद्वीपेषु सर्वेषु सांबः सर्वगणैर्वृतः।।
नानावेषधरो भूत्वा सान्निध्यं कुरुते हरः।। ४६.३ ।।

क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदधिः।।
दध्यर्णवश्च क्षीरोदः स्वादूदश्चाप्यनुक्रमात्।। ४६.४ ।।

समुद्रेष्विह सर्वेषु सर्वदा सगणः शिवः।।
जलरूपी भवः श्रीमान् क्रीडते चोर्मिबाहुभिः।। ४६.५ ।।

क्षीरार्णवामृतमिव सदा क्षीरार्णवे हरिः।।
शेते शिवज्ञानाधिया साक्षाद्वै योगनिद्रया।। ४६.६ ।।

यदा प्रबुद्धो भगवान्प्रबुद्धमखिलं जगत्।।
यदा सुप्तस्तदा सुप्तं तन्मयं च चराचरम्।। ४६.७ ।।

तेनैव सृष्टमखिलं धृतं रक्षितमेव च।।
संहृतं देवदेवस्य प्रसादात्परमेष्ठिनः।। ४६.८ ।।

सुषेणा इति विख्याता यजंते पुरुषर्षभम्।।
अनिरुद्धं मुनिश्रेष्ठाः शंखचक्रगदाधरम्।। ४६.९ ।।

ये चानिरुद्धं पुरुषं ध्यायंत्यात्मविदां वराः।।
नारायणसमाः सर्वे सर्वसंपत्समन्विताः।। ४६.१೦ ।।

सनंदनश्च भगवान् सनकश्च सनातनः।।
वालखिल्याश्च सिद्धाश्च मित्रावरुणकौ तथा।। ४६.११ ।।

यजंति सततं तत्र विश्वस्य प्रभवं हरिम्।।
सप्तद्वीपेषु तिष्ठंति नानाश्रृंगा महोदयाः।। ४६.१२ ।।

आसमुद्रायताः केचिद्गिरयो गह्वरैस्तथा।।
धरायाः पतयश्चासन् बहवः कालगौरवात्।। ४६.१३ ।।

सामर्थ्यात्परमेशानाः क्रौञ्चारेर्जनकात्प्रभोः।।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह।। ४६.१४ ।।

प्रवक्ष्यामि धरेशान् वो वक्ष्ये स्वायंभुवेन्तरे।।
मन्वंतरेषु सर्वेषु अतीतानागतेषु च।। ४६.१५ ।।

तुल्याभिमानिनश्चैव सर्वे तुल्यप्रयोजनाः।।
स्वायंभुवस्य च मनोः पौत्रास्त्वासन्महा बलाः।। ४६.१६ ।।

प्रियव्रतात्मजा वीरास्ते दशेह प्रकीर्तिताः।।
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः।। ४६.१७ ।।

ज्योतिष्मान्द्युतिमान् हव्यः सवनः पुत्र एव च।।
प्रियव्रतोऽभ्यषिंचत्तान् सप्त सप्तसु पार्थिवान्।। ४६.१८ ।।

जंबूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम्।।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः।। ४६.१९ ।।

शाल्मलेश्च वपुष्मंतं राजानमभिषिक्तवान्।।
ज्योतिष्मंतं कुशद्वीपे राजानं कृतवान्नृपः।। ४६.२೦ ।।

द्युतिमंतं च राजानं क्रौंचद्वीपे समादिशत्।।
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः।। ४६.२१ ।।

पुष्कराधिपतिं चक्रे सवनं चापि सुव्रताः।।
पुष्करे सवनस्यापि महावीतः सुतोऽभवत्।। ४६.२२ ।।

धातकी चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ।।
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः।। ४६.२३ ।।

नाम्ना तु धातकेश्चैव धातकीखंडमुच्यते।।
हव्योप्यजनयत्पुत्राञ्छाकद्वीपेश्वरः प्रभुः।। ४६.२४ ।।

जलदं च कुमारं च सुकुमारं मणीचकम्।।
कुसुमोत्तरमोदाकी सप्तमस्तु महाद्रुमः।। ४६.२५ ।।

अलदं जलदस्याथ वर्षं प्रथममुच्यते।।
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम्।। ४६.२६ ।।

सुकुमारं तृतीयं तु सुकुमारस्य कीर्त्यते।।
मणीचकं चतुर्थं तु माणचिकमिहोच्यते।। ४६.२७ ।।

कुसुमोत्तरस्य वै वर्षं पंचमं कुसुमोत्तरम्।।
मोदकं चापि मोदाकेर्वर्षं षष्ठं प्रकीर्तितम्।। ४६.२८ ।।

महाद्रुमस्य नाम्ना तु सप्तमं तन्महाद्रुमम्।।
तेषां तु नामभि स्तानि सप्त वर्षाणि तत्र वै।। ४६.२९ ।।

क्रौंचद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै।।
कुशलो मनुगश्चोष्णः पीवरश्चांधकारकः।। ४६.३೦ ।।

मुनिश्चदुंदुभिश्चैव सुता द्युतिमतस्तु वै।।
तेषां स्वनामभिर्देशाः क्रौंचद्वीपाश्रयाः शुभाः।। ४६.३१ ।।

कुशलदेशः कुशले मनुगस्य मनोनुगः।।
उष्णस्योष्णः स्मृतो देशः पीवरः पीवरस्य च।। ४६.३२ ।।

अंधकारस्य कथितो देशो नाम्नांध कारकः।।
मुनेर्देशो मुनिः प्रोक्तो दुंदुभेर्दुंदुभिः स्मृतः।। ४६.३३ ।।

एते जनपदाः सप्त क्रौंचद्वीपेषु भास्वराः।।
ज्योतिष्मंतः कुशद्वीपे सप्त चासन्महौजसः।। ४६.३४ ।।

उद्भिदो वेणुमांश्चैव द्वैरथो लवणो धृतिः।।
षष्ठः प्रभाकरश्चापि सप्तमः कपिलः स्मृतः।। ४६.३५ ।।

उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमंडलम्।।
तृतीयं द्वैरथं चैव चतुर्थं लवणं स्मृतम्।। ४६.३६ ।।

पंचमं धृतिमत्षष्ठं प्रभाकरमनुत्तमम्।।
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम्।। ४६.३७ ।।

शाल्मलस्येश्वराः सप्त सुतास्ते वै वपुष्मतः।।
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा।। ४६.३८ ।।

वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा।।
श्वेतस्य देशः श्वेतस्तु हरितस्य च हारितः।। ४६.३९ ।।

जीमूतस्य च जीमूतो रोहितस्य च रोहितः।।
वैद्युतो वैद्युतस्यापि मानसस्य च मानसः।। ४६.४೦ ।।

सुप्रभः सुप्रभस्यापि सप्त वै देशलांछकाः।।
प्लक्षद्वीपे तु वक्ष्यामि जंबूद्वीपादनंतरम्।। ४६.४१ ।।

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः।।
ज्येष्ठ शांतभयस्तेषां सप्तवर्षाणि तानि वै।। ४६.४२ ।।

तस्माच्छांतभयाच्चैव शिशिरस्तु सुखोदयः।।
आनंदश्च शिवश्चैव क्षेमकस्च ध्रुवस्तथा।। ४६.४३ ।।

तानि तेषां तु नामानि सप्तवर्षाणि भागशः।।
निवेशितानि तैस्तानि पूर्वं स्वायंभुवेन्तरे।। ४६.४४ ।।

मेधातिथेस्तु पुत्रैस्तैः प्लक्षद्वीपनिवासिभिः।।
वर्णाश्रमाचारयुताः प्रजास्तत्रच निवेशिताः।। ४६.४५ ।।

प्लक्षद्वीपादिवर्षेषु शाकद्वीपांतिकेषु वै।।
ज्ञेयः पंचसु धर्मो वै वर्णाश्रमविभागशः।। ४६.४६ ।।

सुखमायुः स्वरूपं च बलं धर्मो द्विजोत्तमाः।।
पंचस्वेतेषु द्वीपेषु सर्वसाधारणं स्मृतम्।। ४६.४७ ।।

रुद्रार्चनरता नित्यं महेश्वरपरायणाः।।
अन्ये च पुष्करद्वीपे प्रजाताश्च प्रजेश्वराः।। ४६.४८ ।।

प्रजापतेश्च रुद्रस्य भावामृतसुखोत्कटाः।। ४६.४९ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे भुवनकोशे द्वीपद्वीपेश्वरकथनं नाम षट्चत्वारिंशोध्यायः।। ४६ ।।