लिङ्गपुराणम् - पूर्वभागः/अध्यायः ८९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्।।
यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात्।। ८९.१ ।।

ब्रह्मणा कथितं पूर्वं सर्वभूतहिताय वै।।
संक्षेपात्सर्ववेदार्थं संचयं ब्रह्मवादिनाम्।। ८९.२ ।।

उदयार्थं तु शौचानां मुनीनामुत्तमं पदम्।।
यस्तत्राथाप्रमत्तः स्यात्स मुनिर्नावसीदति।। ८९.३ ।।

मानावमानौ द्वावेतौ तावेवाहुर्विषामृते।।
अवमानोऽमृतं तत्र सन्मानो विषमुच्यते।। ८९.४ ।।

गुरोरपि हिते युक्तः स तु संवत्सरं वसेत्।।
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत्।। ८९.५ ।।

प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम्।।
अविरोधेन धर्मस्य चरेत पृथिवीमिमाम्।। ८९.६ ।।

चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत्।।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत्।। ८९.७ ।।

मत्स्यगृह्यस्य यत्पापंषण्मासाभ्यंतरे भवेत्।।
एकाहं तत्समं ज्ञेयमपूतं यज्जलं भवेत्।। ८९.८ ।।

अपूतोदकपाने तु जपेच्च शतपंचकम्।।
अघोरलक्षणं मंत्रं ततः शुद्धिमवाप्नुयात्।। ८९.९ ।।

अथवा पूजयेच्छंभुं घृतस्रानादिविस्तरैः।।
त्रिधा प्रदक्षिणीकृत्य शुद्ध्यते नात्र संशयः।। ८९.१० ।।

आतिथ्य श्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित्।।
एवं ह्यहिंसको योगी भवेदिति विचारितम्।। ८९.११ ।।

वह्नौ विधूमेऽत्यंगारे सर्वस्मिन्भुक्तवज्जने।।
चरेत्तुमतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः।। ८९.१२ ।।

अथैनमवमन्यंते परे परिवंति च।।
तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन्।। ८९.१३ ।।

भैक्ष्यं चरेद्वनस्थेषु यायावरगृहेषु च।।
श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते।। ८९.१४ ।।

अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद्द्विजाः।।
श्रद्दधानेषु दांतेषु श्रोत्रियेषु महात्मसु।। ८९.१५ ।।

अत ऊर्ध्वं पुनश्चापि अदुष्टापतितेषु च।।
भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते।। ८९.१६ ।।

भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च।।
फलमूलादि पक्वं वा कणपिण्याकसक्तवः।। ८९.१७ ।।

इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः।।
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम्।। ८९.१८ ।।

अब्विंदुं यः कुशाग्रेण मासिमासि समश्नुते।।
न्यायतो यश्चरेद्भैक्ष्यं पूर्वोक्तात्स विशिष्यते।। ८९.१९ ।।

जरामरणगर्भेभ्यो भीतस्य नरकादिषु।।
एवं दाययते तस्मात्तद्भैक्ष्यमिति संस्मृतम्।। ८९.२० ।।

दधिभक्षाः पयोभक्षा ये चान्ये जीवक्षीणकाः।।
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हंति षोडशीम्।। ८९.२१ ।।

भस्मशायी भवेन्नित्यं भिक्षाचारी जितेंद्रियः।।
य इच्छेत्परमं स्थानं व्रतं पाशुपतं चरेत्।। ८९.२२ ।।

योगिनां चैव सर्वेषां श्रेष्ठं चांद्रायणं भवेत्।।
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत्।। ८९.२३ ।।

अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च।।
व्रतानि पंच भिक्षूणामहिंसा परमा त्विह।। ८९.२४ ।।

अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम्।।
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः।। ८९.२५ ।।

बीजयोनिगुणा वस्तुबंधः कर्मभिरेव च।।
यथा द्विप इवारण्ये मनुष्याणां विधीयते।। ८९.२६ ।।

देवैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञाज्जाप्यं ज्ञानमाहुश्च जाप्यात्।।
ज्ञानद्ध्यानां संगरागादपेतं तस्मिन्प्राप्ते शाश्वतस्योपलंभः।। ८९.२७ ।।

दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेषु चार्जवम्।।
अतिंद्रियं ज्ञानमिदं तथा शिवं प्राहुस्तथा ज्ञानविशुद्धबुद्धयः।। ८९.२८ ।।

समाहिता ब्रह्मपरोप्रमादी शुचिस्ततैकांतरतिर्जितेंद्रियः।।
समाप्नुयाद्योगमिमं महात्मा महर्षयश्चैवमनिंदितामलाः।। ८९.२९ ।।

प्राप्यतेऽभिमतान् देशानंकुशेन निवारितः।।
एतन्मार्गेण शुद्धेन दग्धबीजो ह्यकल्मषः।। ८९.३० ।।

सदाचाररताः शांताः स्वधर्मपरिपालकाः।।
सर्वाल्लोँकान् विनिर्जित्य ब्रह्मलोकं व्रजंति ते।। ८९.३१ ।।

पितामहेनोपदिष्टो धर्मः साक्षात्सनातनः।।
सर्वलोकोपकारार्थं श्रृणुध्वं प्रवदामि वः।। ८९.३२ ।।

गुरूपदेशयुक्तानां वृद्धानां क्रमवर्त्तिनाम्।।
अभ्युत्थानादिकं सर्वं प्रणामं चैव कारयेत्।। ८९.३३ ।।

अष्टांगप्रणिपातेनत्रिधा न्यस्तेन सुव्रताः।।
त्रिःप्रदक्षिणयोगेन वंद्यो वै ब्रह्मणो गुरुः।। ८९.३४ ।।

ज्येष्ठान्येपि च ते सर्वे वंदनीया विजानता।।
आज्ञाभंगं न कुर्वीत यदीच्छत्सिद्धिमुत्तमाम्।। ८९.३५ ।।

धातुशून्यबिलक्षेत्रक्षुद्रमंत्रोपजीवनम्।।
विषग्रहविडंबादीन्वर्जयेत्सर्वयत्नतः।। ८९.३६ ।।

कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत्सदा।।
अतिहासमवष्टंभं लीलास्वेच्छाप्रवर्तनम्।। ८९.३७ ।।

वर्जयेत्सर्वयत्नेन गुरूणामपि सन्निधौ।।
तद्वाक्यप्रतिकूलं च अयुक्तं वै गुरोर्वचः।। ८९.३८ ।।

न वदेत्सर्वयत्नेन अनिष्टं न स्मरेत्सदा।।
यतीनामासनं वस्त्रं दंडाद्यं पादुके तथा।। ८९.३९ ।।

माल्यं च शयनस्थानं पात्रंछायां च यत्नतः।।
यज्ञोपकरणांगं च स्पृशेद्धै पदेन च।। ८९.४० ।।

देवद्रोहं गुरुद्रोहं न कुर्यात्सर्वयत्नतः।।
कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत्।। ८९.४१ ।।

देवद्रोहगुरुद्रोहात्कोटिमात्रेण शुध्यति।।
महापातकशुद्ध्यर्थं तथैव च यथाविधि।। ८९.४२ ।।

पातकी च तदर्धेन शुध्यते वृत्तवान्यदि।।
उपपातकिनः सर्वे तदर्धेनैव सुव्रताः।। ८९.४३ ।।

संध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुद्ध्यति।।
आह्निकच्छेदने जाते शतमेकमुदाहृतम्।। ८९.४४ ।।

लंघने समयानां तु अभक्ष्यस्य च भक्षणे।।
अवाच्यवाचनं चैव सहस्राच्छुद्धिरुच्यते।। ८९.४५ ।।

काकोलूककपोतानां पक्षिणामपि घातने।।
शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः।। ८९.४६ ।।

यः पुनस्तत्त्ववेत्ता च ब्रह्मविद्ब्रह्मणोत्तमः।।
स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा।। ८९.४७ ।।

नैवमात्मविदामस्ति प्रायश्चित्तानि चोदना।।
विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः।। ८९.४८ ।।

योगध्यानैकनिष्ठाश्च निर्लेपाः कांचनं यथा।।
शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया।। ८९.४९ ।।

उद्धृतानुष्णपेनाभिः पूताभिर्वस्त्रचक्षुषा।।
अद्भिः समाचरेत्सर्वं वर्जयेत्कलुषोदकम्।। ८९.५० ।।

गंधवर्णरसैर्दुष्टमशुचिस्थानसंस्थितम्।।
पंकाश्मदूषितं चैव सामुद्रं पल्वलोदकम्।। ८९.५१ ।।

सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत्।।
वस्त्रशौचान्वितः कुर्यात्सर्वकार्याणि वै द्विजाः।। ८९.५२ ।।

नमस्कारादिकं सर्वं गुरुशुश्रूषणादिकम्।।
वस्त्रशौचविहीनात्मा ह्यशुचिर्नात्र संशयः।। ८९.५३ ।।

देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते।।
इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे।। ८९.५४ ।।

वर्जयेत्सर्वयत्नेन वासोन्यौर्विधृतं द्विजाः।।
कौशयाविकयो रुक्षैः क्षौमाणां गौरसर्षपैः।। ८९.५५ ।।

श्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः।।
चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम्।। ८९.५६ ।।

वल्कलानां तु सर्वेषां छत्रचामरयोरपि।।
चैलवच्छौचमाख्यातं ब्रह्मविद्भिर्मुनीश्वरैः।। ८९.५७ ।।

भस्मना शुद्ध्यते कांस्यं क्षारेणायसमुच्यते।।
ताम्रमम्लेन वै विप्रास्त्रपुसीसकयोरपि।। ८९.५८ ।।

हैममद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः।।
मण्यश्मशंखमुक्तानां शौचं तैजसवत्स्मृतम्।। ८९.५९ ।।

अग्नेरपां च संयोगादत्यंतोपहतस्य च।।
रसानामिह सर्वषां शुद्धिरुत्प्लवनं स्मृतम्।। ८९.६० ।।

तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम्।।
उष्णेन वारिणा शुद्धिस्तथा स्रुक्स्रुवयोरपि।। ८९.६१ ।।

तथैव यज्ञपात्राणां मुशलोलूखलस्य च।।
श्रृंगास्थिदारुदंतानां तक्षणेनैव शोधनम्।। ८९.६२ ।।

संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम्।।
असंहतानां द्रव्याणं प्रत्येकं शौचमुच्यते।। ८९.६३ ।।

अभुक्तराशिधान्यानामेकदेशस्य धूषणे।।
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशांभसा।। ८९.६४ ।।

शाकमूलफलादीनां धान्यवच्छुद्धिरिष्यते।।
मार्जनोन्मार्जनैर्वेश्म पुनःपाकेन मृन्मयम्।। ८९.६५ ।।

उल्लेखनेनांजनेन तथा संमार्जनेन च।।
गोनिवासेन वै शुद्धा सेचनेन धरा स्मृता।। ८९.६६ ।।

भूमिस्थमुदकंशुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत्।।
अव्याप्तं यदमेध्येन गंधवर्णरसान्वितम्।। ८९.६७ ।।

वत्सः शुचिः प्रस्रवणे शकुनिः फलपातने।।
स्वादारास्यं गृहस्थानां रतौ भार्याभिकांक्षया।। ८९.६८ ।।

हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि।।
कुशांबुना सुसंप्रोक्ष्य गृह्णीयाद्धर्मवित्तमः।। ८९.६९ ।।

पण्यं प्रसारितं चैव वर्णाश्रमविभागशः।।
शुचिराकरजं तेषां श्वा मृगग्रहणे शुचिः।। ८९.७० ।।

छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः।।
रजोभूर्वायुरग्निश्च मेध्यानि स्पर्शने सदा।। ८९.७१ ।।

सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा।।
ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः।। ८९.७२ ।।

पादौ स्पृशंति ये चापि पराचमनबिंदवः।।
ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत्।। ८९.७३ ।।

कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम्।।
सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा।। ८९.७४ ।।

यूपं चांडालकाद्यांश्च स्पृष्ट्वा स्नानेन शुध्यति।।
रजस्वलां सूतिकां च न स्पृशेदंत्यजामपि।। ८९.७५ ।।

सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः।।
संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति।। ८९.७६ ।।

नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम्।।
नैष्ठिकानां नृपाणां च मंडलीनां च सुव्रताः।। ८९.७७ ।।

ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत्।।
वैखानसानां विप्राणां पतितानामसंभवात्।। ८९.७८ ।।

असंचयद्विजानां च स्नानमात्रेण नान्यथा।।
तथा संनिहितानां च यज्ञार्थं दीक्षितस्य च।। ८९.७९ ।।

एकाहाद्यज्ञयाजीनां शुद्धिरुक्ता स्वयंभुवा।।
ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम्।। ८९.८० ।।

सूतकं प्रेतकं नास्तित्र्यहादूर्ध्वममुत्र वै।।
अवार्गेकादशाहांतं बांधवानां द्विजोत्तमाः।। ८९.८१ ।।

स्नानमात्रेण वै शुद्धिर्मरणे समुपस्थिते।।
तत ऋतुत्रयादर्वागेकाहः परिगीयते।। ८९.८२ ।।

सप्तवर्षात्ततश्चार्वाक् त्रिरात्रं हि ततः परम्।।
दशाहं ब्राह्मणानां वै प्रथमेऽहनि वा पितुः।। ८९.८३ ।।

दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः।।
अर्वाक् त्रिवर्षात्स्नानेन बांधवानां पितुः सदा।। ८९.८४ ।।

अष्टब्दादेकरात्रेण शुद्धिः स्याद्बांधवस्य तु।।
द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः।। ८९.८५ ।।

सपिंडता च पुरुषे सप्तमे विनिवर्तते।।
अतिक्रांते दशाहे तु त्रिरात्रमशुचिर्भवेत्।। ८९.८६ ।।

ततः सन्निहितो विप्रश्चार्वाक् पूर्वं तदेव वै।।
संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति।। ८९.८७ ।।

स्पृष्ट्वा प्रेतंत्रिरात्रेण धर्मार्थं स्नानमुच्यते।।
दाहकानां च नेतॄणां स्नानमात्रमबांधवे।। ८९.८८ ।।

अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति।।
आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते।। ८९.८९ ।।

पक्षिणी मातुलानां च सोदराणां च वा द्विजाः।।
भूपानां मंडलीनां च सद्यो नीराष्ट्रवासिनाम्।। ८९.९० ।।

केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः।।
नाभिषिक्तस्य चाशौचं संप्रमादेषु वै रणे।। ८९.९१ ।।

वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति।।
इति संक्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा।। ८९.९२ ।।

अशौचं चानुपूर्व्येण यतीनां नैव विद्यते।।
त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः।। ८९.९३ ।।

कृते सकृद्युगवशाज्जायंते वै सहैव तु।।
प्रयांति च महाभागा भार्याभिः कुरवो यथा।। ८९.९४ ।।

वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः।।
भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ।। ८९.९५ ।।

महावीते सुवीते च जंबूद्वीपे तथाष्टसु।।
शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा।। ८९.९६ ।।

रसोल्लासा कृते वृत्तिस्त्रेतायां गृहवृक्षजा।।
सैवार्तवकृताद्दोषाद्रागद्वेषादिभिर्नृणाम्।। ८९.९७ ।।

मैथुनात्कामतो विप्रास्तथैव परुषादिभिः।।
यवाद्याः संप्रजायंते ग्राम्यारण्याश्चतुर्दश।। ८९.९८ ।।

ओषध्यश्च रजोदोषाः स्त्रीणां रागादिभिर्नृणाम्।।
अकालकृष्टा विध्वस्ताः पुनरुत्पादितास्तथा।। ८९.९९ ।।

तस्मात्सर्वप्रयत्नेन न संभाष्या रजस्वला।।
प्रथमेऽहनि चांडाली यथावज्या तथांगना।। ८९.१०० ।।

द्वितीयेऽहनि विप्रा हि यथा वै ब्रह्मघातिनी।।
तृतीयेऽह्नि तदर्धेन चतुर्थेऽहनि सुव्रता।। ८९.१०१ ।।

स्नात्वार्धमासात्संशुद्धा ततः शुद्धिर्भविष्यति।।
आषोडशात्ततः स्त्रीणां मूत्रवच्छौचमिष्यते।। ८९.१०२ ।।

पंचरात्रं तथास्पृश्या रजसा वर्तते यदि।।
सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा।। ८९.१०३ ।।

स्नाने शौचं तथा गानं रोदनं हसनं तथा।।
यानमभ्यंजनं नारी द्यूतं चैवानुलेपनम्।। ८९.१०४ ।।

दिवास्वप्नं विशेषेण तथा वै दंतधावनम्।।
मैथुनं मानसं वापि वाचिकं देवतार्चनम्।। ८९.१०५ ।।

वर्जयेत्सर्वयत्नेन नमस्कारं रजस्वला।।
रजस्वलांगनास्पर्शसंभाषे च रजस्वला।। ८९.१०६ ।।

संत्यागं चैव वस्त्राणां वर्जयेत्सर्वयत्नतः।।
स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला।। ८९.१०७ ।।

ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः विबेत्।।
केवलं पंचगव्यं वा क्षीरं वा चात्मशुद्धये।। ८९.१०८ ।।

चतुर्थ्यां स्त्री न गम्या तु गतोल्पायुः प्रसूयते।।
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम्।। ८९.१०९ ।।

दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते।।
कन्यार्थिनैव गंतव्या पंचम्यां विधिवत्पुनः।। ८९.११० ।।

रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत्पुमान्।।
समे नपुसंकं चैव पंचम्यां कन्यका भवेत्।। ८९.१११ ।।

षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत्।।
पुत्रत्वं व्यंजयेत्तस्य जातपुत्रो महाद्युतिः।। ८९.११२ ।।

पुमिति नरकस्याख्या दुःखं च नरकं विदुः।।
पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते।। ८९.११३ ।।

सप्तम्यां चैव कन्यार्थि गच्छेत्सैव प्रसूयते।।
अष्टम्यां सर्वसंपन्नं तनयं संप्रसूयते।। ८९.११४ ।।

नवम्यां दारिका यार्थि दशम्यां पंडिता भवेत्।।
एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत्।। ८९.११५ ।।

द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम्।।
त्रयोदश्यां जडां नारीं सर्वसंकरकारिणीम्।। ८९.११६ ।।

जनयत्यंगना यस्मान्न गच्छेत्सर्वयत्नतः।।
चतुर्दश्यां यदा गच्चेत्सा पुत्रजननी भवेत्।। ८९.११७ ।।

पंचदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम्।।
स्त्रीणां वै मथुने काले वामपार्श्वे प्रभंजनः।। ८९.११८ ।।

चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत्।।
स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते।। ८९.११९ ।।

उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम्।।
इत्येवं संप्रसंगेन यतीनां धर्मसंग्रहे।। ८९.१२० ।।

सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः।।
यः पठेच्छूणुयाद्वापि सदाचारं शुचिर्नरः।। ८९.१२१ ।।

श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान्।।
ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते।। ८९.१२२ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे सदाचारकथनं नामेकोननवति तमोऽध्यायः।। ८९ ।।