लिङ्गपुराणम् - पूर्वभागः/अध्यायः १०५
सूत उवाच।।
यदा स्थिताः सुरेश्वराः प्रणम्य चैवमीश्वरम्।।
तदांबिकापतिर्भवः पिनाकधृङ् महेश्वरः।। १०५.१ ।।
ददौ निरीक्षणं क्षणाद्भवः स तान्सुरोत्तमान्।।
प्रणेमुरादराद्धरं सुरा मुदार्द्रलोचनाः।। १०५.२ ।।
भवः सुधामृतोपमैर्निरीक्षणैर्निरीक्षणात्।।
तदाह भद्रमस्तु वः सुरेश्वरान् महेश्वरः।। १०५.३ ।।
वरार्थमीश वीक्ष्यते सुरा गृहं गतास्त्विमे।।
प्रणम्य चाह वाक्पतिः पतिं निरीक्ष्य निर्भयः।। १०५.४ ।।
सुरेतरादिभिः सदा ह्यविघ्नमर्थितो भवान्।।
समस्तकर्मसिद्धये सुरापकारकारिभिः।। १०५.५ ।।
ततः प्रसीदताद्भवान् सुविघ्नकर्मकारणम्।।
सुरापकारकारिणामिहैष एव नो वरः।। १०५.६ ।।
ततस्तदा निशम्य वै पिनाकधृक् सुरेश्वरः।।
गणेश्वरं सुरेश्वरं वपुर्दधार सः शिवः।। १०५.७ ।।
गणेश्वराश्च तुष्टुवुः सुरेश्वरा महेश्वरम्।।
समस्तलोकसंभवं भवार्त्तिहारिणं शुभम्।। १०५.८ ।।
इभाननाश्रितंवरं त्रिशूलपाशधारिणम्।।
समस्तलोकसंभवं गजाननं तदांबिका।। १०५.९ ।।
ददुः पुष्पवर्षं हि सिद्धा मुनींद्रास्तथा खेचरा देवसंघास्तदानीम्।।
तदा तुष्टुवुश्चैकदंतं सुरेशाः प्रणेमुर्गणेशं महेशं वितंद्राः।। १०५.१० ।।
तदा तयोर्विनिर्गतः सुभैरवः समूर्त्तिमान्।।
स्थितो ननर्त्त बालकः समस्तमंगलालयः।। १०५.११ ।।
विचित्रवस्त्रभूषणैरलंकृतो गजाननो महेश्वरस्य पुत्रकोऽभिवंद्य तातमंबिकाम्।। १०५.१२ ।।
जातमात्रं सुतं दृष्ट्वा चकार भगवान्भवः।।
गजाननाय कृत्यांस्तु सर्वान्सर्वेश्वरः स्वयम्।। १०५.१३ ।।
आदाय च कराभ्यां च सुसुखाभ्यां भवः स्वयम्।।
आलिंग्याघ्राय मूर्धानं महादेवो जगद्गुरुः।। १०५.१४ ।।
तवावतारो दैत्यानां विनाशाय ममात्मज।।
देवानामुपकारार्थं द्विजानां ब्रह्मवादिनाम्।। १०५.१५ ।।
यज्ञश्च दक्षिणाहीनः कृतो येन महीतले।।
तस्य धर्मस्य विघ्नं च कुरु स्वर्गपथे स्थितः।। १०५.१६ ।।
अध्यापनं चाध्ययनं व्याख्यानं कर्म एव च।।
योऽन्यायतः करोत्यस्मिन् तस्य प्राणान्सदा हर।। १०५.१७ ।।
वर्णाच्च्युतानां नारीणां नराणां नरपुंगव।।
स्वधर्मरहितानां च प्राणानपहर प्रभो।। १०५.१८ ।।
याः स्त्रियस्त्वां सदा कालं पुरुषाश्च विनायक।।
यजंति तासां तेषां च त्वत्साम्यं दातुमर्हसि।। १०५.१९ ।।
त्वं भक्तान् सर्वयत्नेन रक्ष बालगणेश्वर।।
यौवनस्थांश्च वृद्धांश्च इहामुत्र च पूजितः।। १०५.२० ।।
जगत्त्रयेऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः।।
संपूज्यो वंदनीयश्च भविष्यसि न सशंयः।। १०५.२१ ।।
मां च नारायणं वापि ब्रह्माणमपि पुत्रक।।
यजंति यज्ञैर्वा विप्रैरग्रे पूज्यो भविष्यसि।। १०५.२२ ।।
त्वामनभयर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम्।।
कुरुते तस्य कल्याणमकल्याणं भविष्यति।। १०५.२३ ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन।।
संपूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः।। १०५.२४ ।।
त्वां गंधपुष्पधूपाद्यौरनभ्यर्च्य जगत्त्रये।।
देवैरपि तथान्यैश्च लब्धव्यं नास्ति कुत्रचित्।। १०५.२५ ।।
अभ्यर्चयंति ये लोका मानवास्तु विनायकम्।।
ते चार्चनीयाः शक्राद्यैर्भविष्यंति न संशयः।। १०५.२६ ।।
अजं हरिं च मां वापि शक्रमन्यान्सुरानपि।।
विघ्नैर्बाधयसित्वां चेन्नार्चयंति फलार्थिनः।। १०५.२७ ।।
ससर्ज च तदा विघ्नगणं गणपतिः प्रभुः।।
गणैः सार्धं नमस्कृत्वाप्यतिष्ठत्तस्य चाग्रतः।। १०५.२८ ।।
तदा प्रभृति लोकेऽस्मिन्पूजयंति गणेश्वरम्।।
दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः।। १०५.२९ ।।
एतद्वः कथितं सर्वं स्कंदाग्रजसमुद्भवम्।।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत्।। १०५.३० ।।
इति श्रीलिंगमहापुराणे पूर्वभागे विनायकोत्पत्तिर्नाम पंचाधिकशततमोऽध्यायः।। १०५ ।।