लिङ्गपुराणम् - पूर्वभागः/अध्यायः ८०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

ऋषय ऊचुः।।
कथं पशुपतिं दृष्ट्वा पशुपाशविमोक्षणम्।।
पशुत्वं तत्यजुर्देवास्तन्नो वक्तुमिहार्हसि।। ८०.१ ।।

सूत उवाच।।
पुरा कैलासशिखरे भोग्याख्ये स्वपुरे स्थितम्।।
समेत्य देवाः सर्वज्ञमाजग्मुस्तत्प्रसादतः।। ८०.२ ।।

हिताय सर्वदेवानां ब्रह्मणा च जनार्दनः।।
गरुडस्य तथा स्कंधमारुह्य पुरुषोत्तमः।। ८०.३ ।।

जगाम देवातभिर्वै देवदेवांतिकं हरिः।।
सर्वे संप्राप्य देवस्य सार्धं गिरिवरं शुभम्।। ८०.४ ।।

सेंद्राः ससाध्याः सयमाः प्रणेमुर्गिरमुत्तमम्।।
भगवान्वासुदेवोसौ गरुडाद्गरुडध्वजः।।
अवतीर्य गिरिं मेरुमारुरोह सुरोत्तमैः।। ८०.५ ।।

सकलदुरितहीनं सर्वदं भोगमुख्यं मुदितकुररवृंदं नादितं नागवृंदैः।।
मधुररणितगीतं सानुकूलांधकारं पदरचितवनांतं कांतवातांततोयम्।। ८०.६ ।।

भवनशतसहस्रैर्जुष्टमादित्यकल्पैर्ललितगतिविदग्धैर्हंसवृंदैश्च भिन्नम्।।
धवखदिरपलाशैश्चंदनाद्यैश्च वृक्षैर्द्विजवरगणवृंदैः कोकिलाद्यैर्द्विरेफैः।। ८०.७ ।।

क्वचिदशेषसुरद्रुमसंकुलं कुरबकैः प्रियकैस्तिलकैस्तथा।।
बहुकदंबतमाललतावृतं गिरिवरं शिखरैर्विविधैस्तथा।। ८०.८ ।।

गिरेः पृष्ठे परं शार्वं कल्पितं विश्वकर्मणा।।
क्रीडार्थं देवदेवस्य भवस्य परमेष्ठिनः।। ८०.९ ।।

अपश्यंस्तत्पुरं देवाः सेंद्रोपेंद्राः समाहिताः।।
प्रणेमुर्दूरतश्चैव प्रभावादेव शूलिनः।। ८०.१० ।।

सहस्रसूर्यप्रतिमं महांतं सहस्रशः सर्वगुणैश्च भिन्नम्।।
जगाम कैलासगिरिं महात्मा मेरुप्रभागे पुरमादिदेवः।। ८०.११ ।।

ततोथ नारिगजवाजिसंकुलं रथैरनैकैरमरारिसूदनः।।
गणैर्गणेशैश्च गिरींद्रसन्निभं महापुरद्वारमजो हरिश्च।। ८०.१२ ।।

अथ जांबूनदमयैर्भवनैर्मणिभूषितैः।।
विमानैर्विविधाकारैः प्राकारैश्च समावृतम्।। ८०.१३ ।।

दृष्ट्वा शंभोः पुरं बाह्यं देवैः सब्रह्मकैर्हरिः।।
प्रहृष्टवदनो भूत्वा प्रविवेश ततः पुरम्।। ८०.१४ ।।

हर्म्यप्रासादसंबाधं महाट्टालसमन्वितम्।।
द्वितीयं देवदेवस्य चतुर्द्वारं सुशोभनम्।। ८०.१५ ।।

वज्रवैडूर्यमाणिक्यमणिजालैः समावृतम्।।
दोलाविक्षेपसंयुक्तं घंटाचामरभूषितम्।। ८०.१६ ।।

मृदंगमुरजैर्जुष्टं वीणावेणुनिनादितम्।।
नृत्य-------- संघैर्भूतसंघैश्च संवृतम्।।

देवेंद्रभवनाकारैर्भवनैर्दृष्टिमोहनैः।। ८०.१७ ।।
प्रासादश्रृंगेष्वथ पौरनार्यः सहस्रशः पुष्पफलाक्षताद्यैः।।

स्तिताः करैस्तस्य हरेः समंतात्प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य।। ८०.१८ ।।
दृष्ट्वा नार्यस्तदा विष्णुं मदाघूर्णितलोचनाः।। ८०.१९ ।।

विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः।।
काश्चिद्दृष्ट्वा हरिं नार्यः किंचित्प्रहसिताननाः।। ८०.२० ।।

किंचिद्विस्रस्तवस्त्राश्च स्रस्तकांचीगुणाजगुः।।
चतुर्थं पंचमं चैव षष्ठं च सप्तमं तथा।। ८०.२१ ।।

अष्टमं नवमं चैव दशमं च पुरोत्तमम्।।
अतीत्यासाद्य देवस्य पुरं शंभोः सुशोभनम्।। ८०.२२ ।।

सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे।।
सूर्यमंडलसंकाशैर्विमानैश्च विभूषितम्।। ८०.२३ ।।

स्फाटिकैर्मंडपैः शुभ्रैर्जांबूनदमयैस्तथा।।
नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम्।। ८०.२४ ।।

गोपुरैर्गोपतेः शंभोर्नानाभूषणभूषितैः।।
अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस्तथा।। ८०.२५ ।।

प्राकारैर्विविधाकारैरष्टाविंशतिभिर्वृतम्।।
उपद्वारैर्महाद्वारैर्विदिक्षु विविधैर्दृढैः।। ८०.२६ ।।

गुह्यालयैर्गुह्यगृहैर्गुहस्य भवनैः शुभैः।।
ग्राम्यैरन्यैरमहाभागा मौक्तिकैर्दृष्टिमोहनैः।। ८०.२७ ।।

गणेशायतनौर्दिव्यैः पद्मरागमयैस्तथा।।
चंदनैर्विविधाकारैः पुष्पोद्यानैश्चशौभनैः।। ८०.२८ ।।

तडागैर्दिर्घिकाभिश्च हेमसोपानपंक्तिभिः।।
स्त्रीणांगतिजितैर्हंसैः सेविताभिः समंततः।। ८०.२९ ।।

मयूरैश्चैव कारंडैः कोकिलैश्चक्रवाककैः।।
शोभिताभिश्च वापीभिर्दिव्यामृतजलैस्तथा।। ८०.३० ।।

संलापालापकुशलैः सर्वाभरणभूषितैः।।
स्तनबारावनम्रैश्च मदाघूर्णितलोचनैः।। ८०.३१ ।।

गेयनादरतैर्दिव्यै रुद्रकन्यासहस्रकैः।।
नृत्यद्भिरप्सरः संघैरमरैरपि दुर्लभैः।। ८०.३२ ।।

प्रफुल्लांबुजवृंदाद्यैस्तथा द्विजवरैरपि।।
रुद्रस्त्रीगमसंकीर्णैर्जलक्रीडारतैस्तथा।। ८०.३३ ।।

रतोत्सवरतैश्चैव ललितैश्च पदेपदे।।
ग्रामरागानुरक्तैश्च पद्मरागसमप्रभैः।। ८०.३४ ।।

स्त्रीसंघैर्दैवदेवस्य भवस्य परमात्मनः।।
दृष्ट्वा विस्मयमापन्नास्तस्थुर्देवाः समंततः।। ८०.३५ ।।

तत्रैव ददृशुर्देवा वृंदं रुद्रगणस्य च।।
गणेश्वराणां वीराणामपि वृंदं सहस्रशः।। ८०.३६ ।।

सुवर्णकृतसोपानान् वज्रवैडूर्य भूषितान्।।
स्फाटिकान् देवदेवस्य ददृशुस्ते विमानकान्।। ८०.३७ ।।

तेषां श्रृंगेषु हृष्टाश्च नार्यः कमललोचनाः।।
विशालजघना यक्षा गंधर्वाप्सरसस्तथा।। ८०.३८ ।।

किन्नर्यः किंनराश्चैव भुजंगाः सिद्धकन्यकाः।।
नानावेषधराश्चान्या नानाभूषणभूषिताः।। ८०.३९ ।।

नानाप्रभाव संयुक्ता नानाभोगरतिप्रियाः।।
नीलोत्पलदलप्रख्याः पद्मपत्रायतेक्षणाः।। ८०.४० ।।

पद्मकिंजल्कसंकाशैरंशुकैरतिशोभनाः।।
वलयैर्नूपुरैर्हारैश्छत्रैश्चित्रैस्तथांशुकैः।। ८०.४१ ।।

भूषिता भूषितैश्चान्यैर्मांडिता मंडनप्रियाः।।
दृष्ट्वाथ वृंदं सुरसुंदरीणां गणेश्वराणां सुरसुंदरीणाम्।।
जग्मुर्गणेशस्य पुरं सुरेशाः पुरद्विषः शक्रपुरोगमाश्च।। ८०.४२ ।।

दृष्ट्वा च तस्थुः सुरसिद्धसंघाः पुरस्य मध्ये पुरुहूतपूर्वाः।।
भवस्य बालार्कसहस्रवर्णं विमानमाद्यं परमेश्वरस्य।। ८०.४३ ।।

अथ तस्य विमानस्य द्वारि संस्थं गणेश्वरम्।।
नंदिनं ददृशुः सर्वे देवाः शक्रपुरोगमाः।। ८०.४४ ।।

तं दृष्ट्वा नंदिनं सर्वे प्रणम्याहुर्गणेश्वरम्।।
जयेति देवास्तं दृष्ट्वा सोप्याह च गणेश्वरः।। ८०.४५ ।।

भो भो देवा महाभागाः सर्वे निर्धूतकल्मषाः।।
संप्राप्ताः सर्वलोकेशा वक्तुमर्हथ सुव्रताः।। ८०.४६ ।।

तमाहुर्वरदं देवं वारणेंद्रसमप्रभम्।।
पशुपाशविमोक्षार्थं दर्शयास्मान्महेश्वरम्।। ८०.४७ ।।

पुरा पुरत्रयं दग्धुं पशुत्वं परिभाषितम्।।
शंकिताश्च वयं तत्र पशुत्वं प्रति सुव्रत।। ८०.४८ ।

व्रतं पाशुपतं प्रोक्तं भवेन परमेष्ठिना।।
व्रतेनानेन भूतेश पशुत्वं नैव विद्यते।। ८०.४९ ।।

अथ द्वादशवर्षं वा मासद्वादशकं तु वा।।
दिनद्वादशकं वापि कृत्वा तद्व्रतमुत्तमम्।। ८०.५० ।।

मुच्यंते पशवः सर्वे सांबं पशुपाशैर्भवस्य तु।।
दर्शयामास तान्देवान्नारायणपुरोगमान्।। ८०.५१ ।।

नंदी शिलादतनयः सर्वभूतगणाग्रणीः।।
तं दृष्ट्वा देवमीशानं सांबं सगणमव्ययम्।। ८०.५२ ।।

प्रणेमुस्तुष्टुवुश्वैव प्रीतिकंटकितत्वचः।।
विज्ञाप्य शितिकंठाय पशुपाशविमोक्षणम्।। ८०.५३ ।।

तस्थुस्तदाग्रतः शंभोः प्रणिपत्य पुनः पुनः।।
ततः संप्रेक्ष्य तान् सर्वान्देवदेवो वृषध्वजः।। ८०.५४ ।।

विशोध्य तेषां देवानां पशुत्वं परमेश्वरः।।
व्रतं पाशुपतं चैव स्वयं देवो महेश्वरः।। ८०.५५ ।।

उपदिश्य मुनीनां च सहास्ते चांबया भवः।।
तदाप्रभृति ते देवाः सर्वे पाशुपताः स्मृताः।। ८०.५६ ।।

पशूनां च पतिर्यस्मात्तेषां साक्षाद्धि देवताः।।
तस्मात्पाशुपताः प्रोक्तास्तपस्तेपुश्च ते पुनः।। ८०.५७ ।।

ततो द्वादशवर्षांते मुक्त पाशाः सुरोत्तमाः।।
ययुर्यथागतं सर्वे ब्रह्मणा सह विष्णुना।। ८०.५८ ।।

एतद्वः कथितं सर्वं पितामहमुखाच्छ्रुतम्।।
पुरा सनत्कुमारेण तस्माद्व्यासेन धीमता।। ८०.५९ ।।

यः श्रावयेच्छ्रुचिर्विप्राञ्छृणुयाद्वा शुचिर्नरः।।
स देहभेदमासाद्य पशुपाशैः प्रमुच्यते।। ८०.६० ।।

इति श्रीलिंगमहापुराणे पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमोध्यायः।। ८० ।।