लिङ्गपुराणम् - पूर्वभागः/अध्यायः ८७

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
निशम्य ते महाप्राज्ञाः कुमाराद्याः पिनाकिनम्।।
प्रोचुः प्रणम्य वै भीताः प्रसन्नं परमेश्वरम्।। ८७.१ ।।

एवं चेदनया देव्याहैमवत्या महेश्वर।।
क्रीडसे विविधैर्भोगैः कथं वक्तुमिहार्हसि।। ८७.२ ।।

सूत उवाच।।
एवमुक्तः प्रहस्येशः पिनाकी नीललोहितः।।
प्राहतामंबिकां प्रेक्ष्य प्रणिपत्य स्थितान् द्विजान्।। ८७.३ ।।

बंधमोक्षौ न चैवेह मम स्वेच्छशरीरिणः।।
अकार्तज्ञः पशुर्जीवो विभुर्भोक्ता ह्यणुः पुमान्।। ८७.४ ।।

मायी च मायया बद्धः कर्मभिर्युज्यते तु सः।।
ज्ञानं ध्यानं च बंधश्च मोक्षो नास्त्यात्मनो द्विजाः।। ८७.५ ।।

यदैवं मयि विद्वान् यस्तस्यापि न च सर्वतः।।
एषा विद्या ह्यहं वेद्यः प्रज्ञैषा च श्रुतिः स्मृतिः।। ८७.६ ।।

धृतिरेषा मया निष्ठा ज्ञानशक्तिः क्रिया तथा।।
इच्छाख्या च तथा ह्यज्ञा द्वे विद्ये न च संशयः।। ८७.७ ।।

न ह्येषा प्रकृतिर्जैवी विकृतिश्च विचारतः।।
विकारो नैव मायैषा सदसद्व्यक्तिवर्जिता।। ८७.८ ।।

पुरा ममाज्ञ मद्वक्त्रात्समुत्पन्ना सनातनी।।
पंचवक्त्रा महाभागा जगतामभयप्रदा।। ८७.९ ।।

तामाज्ञां संप्रविश्याहं चिंतयन् जगतां हितम्।।
सप्तविंशत्प्रकारेण सर्वं व्याप्यानया शिवः।। ८७.१० ।।

तदाप्रभृति वै मोक्षप्रवृत्तिर्द्विजसत्तमाः।।
सूत उवाच।।
एवमुक्त्वा तदापश्यद्भवानीं परमेश्वरः।। ८७.११ ।।

भवानी च तमालोक्य मायामहरदव्यया।।
ते मायामलनिर्मुक्ता मुनयः प्रेक्ष्य पार्वतीम्।। ८७.१२ ।।

प्रीता बभूवुर्मुक्ताश्च तस्मादेषा परा गतिः।।
उमाशंकरयोर्भेदो नास्त्येव परमार्थतः।। ८७.१३ ।।

द्विधासौ रूपमास्थाय स्थित एव न संशयः।।
यदा विद्वानसंगः स्यादाज्ञया परमेष्ठिनः।। ८७.१४ ।।

तदा मुक्तिः क्षणादेव नान्यथा कर्मकोटिभिः।।
क्रमोऽविवक्षितो भूतविवृद्धः परमेष्ठिनः।। ८७.१५ ।।

प्रसादेन क्षणान्मुक्तिः प्रतिज्ञैषा न संशयः।।
गर्भस्थो जायमानो वा बालो वा तरुणोपि वा।। ८७.१६ ।।

वृद्धो वा मुच्यते जंतुः प्रसादात्परमेष्ठिनः।।
अंडजश्चोद्भिजो वापि स्वेदजो वापि मुच्यते।। ८७.१७ ।।

प्रसादाद्देवदेवस्य नात्र कार्या विचारणा।।
एष एव जगन्नाथो बंधमोक्षकरः शिवः।। ८७.१८ ।।

भूर्भुवःस्वर्महश्चैव जनः साक्षात्तपः स्वयम्।।
सत्यलोकस्तथांडानां कोटिकोटिशतानि च।। ८७.१९ ।।

विग्रहं देवदेवस्य तथांडावरणाष्टकम्।।
सप्तद्वीपेषु सर्वेषु पर्वतेषु वनेषु च।। ८७.२० ।।

समुद्रेषु च सर्वेषु वायुस्कंधेषु सर्वतः।।
तथान्येषु च लोकेषु वसंति च चराचराः।। ८७.२१ ।।

सर्वे भवांशजा नूनं गतिस्त्वेषां स एव वै।।
सर्वो रुद्रो नमस्तस्मै पुरुषाय महात्मने।। ८७.२२ ।।

विश्वं भूतं तथा जातं बहुधा रुद्र एव सः।।
रुद्राज्ञैषा स्थिता देवी ह्यनया मुक्तिरंबिका।। ८७.२३ ।।

इत्येवं खेचराः सिद्धा जजल्पुः प्रीतमानसाः।।
यदाऽवलोक्य तान् सर्वान्प्रसादादनयांबिका।। ८७.२४ ।।

तदा तिष्ठंति सायुज्यं प्राप्तास्ते खेचराः प्रभोः।। ८७.२५ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे मुनिमोहशमनं नाम सप्ताशीतितमोऽध्यायः।। ८७ ।।