लिङ्गपुराणम् - पूर्वभागः/अध्यायः ९०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
अथ ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चितम्।।
प्रायश्चित्तं शिवप्रोक्तं यतीनां पापशोधनम्।। ९०.१ ।।

पापं हि त्रिविधं ज्ञेयं वाङ्मनः कायसंभवम्।।
सततं हि दिवा रात्रौ येनेदं वेष्ट्यते जगत्।। ९०.२ ।।

तत्कर्मणा विनाप्येष तिष्ठतीति परा श्रुतिः।।
क्षणमेवं प्रयोज्यं तु आयुष्यं तु विधारणम्।। ९०.३ ।।

भवेद्योगोऽप्रमत्तस्य योगो हि परमं बलम्।।
न हि योगात्परं किंचिन्नराणां दृश्यते शुभम्।। ९०.४ ।।

तस्माद्योगं प्रशंसंति धर्मयुक्ता मनीषिणः।।
अविद्यां विद्यया जित्वा प्राप्यैश्वर्यमनुत्तमम्।। ९०.५ ।।

दृष्ट्वापरावरं धीराः परं गच्छंति तत्पदम्।।
व्रतानि यानि भीक्षूणां तथैवोपव्रतानि च।। ९०.६ ।।

एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते।।
उपेत्य तु स्त्रियं कामात्प्रायश्चित्तं विनिर्दिशेत्।। ९०.७ ।।

प्राणायामसमायुक्तं चरेत्सांतपनं व्रतम्।।
ततश्चरति निर्देशात्कृच्छ्रं चांते समाहितः।। ९०.८ ।।

पुनराश्रममागत्य चरेद्भिक्षुरतंद्रितः।।
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः।। ९०.९ ।।

तथापि न च कर्तव्यं प्रसंगो ह्येष दारुणः।।
अहोरात्रपवासश्च प्राणायामशतं तथा।। ९०.१० ।।

असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना।।
परमापद्गतेनापि न कार्यं स्तेयमप्युत।। ९०.११ ।।

स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः।।
हिंसा ह्येषा परा सृष्टा स्तैन्यं वै कथितं तथा।। ९०.१२ ।।

यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः।।
स तस्य हरते प्राणान्यो यस्य हरते धनम्।। ९०.१३

एवं कृत्वा सुदुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः।।
भूयो निर्वेदमापन्नश्चरेच्चांद्रायणं व्रतम्।। ९०.१४ ।।

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः।।
ततः संवत्सरस्यांते भूयः प्रक्षीणकल्मषः।।
पुनर्निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः।। ९०.१५ ।।

अहिंसा सर्वभूतानां कर्मणा मनसा गिरा।।
अकामादपि हिंसेत यदि भिक्षुः पशून् कृमीन्।। ९०.१६ ।।

कृच्छ्रातिकृच्छ्रं कुर्वीत चांद्रायणमथापि वा।।
स्कंदेदिंद्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि।। ९०.१७ ।।

तेन धारयितव्या वै प्राणायामास्तु षोटश।।
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते।। ९०.१८ ।।

त्रिरात्रमुपवासाश्च प्राणायामशतं तथा।।
रात्रौ स्कन्नः शुचिः स्नात्वा द्वादशैव तु धारणा।। ९०.१९ ।।

प्राणायामेन शुद्धात्मा विरजा जायते द्विजाः।।
एकान्नं मधुमांसं वा अश्रृतान्नं तथैव च।। ९०.२० ।।

अभोज्यानि यतीनां तु प्रत्यक्षलवणानि च।।
एकैकातिक्रमात्तेषां प्रायश्चित्तं विधीयते।। ९०.२१ ।।

प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते।।
व्यतिक्रमाश्च ये केचिद्वाङ्मनः कायसंभवाः।। ९०.२२ ।।

सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत्।। ९०.२३ ।।
चरेद्धि शुद्धः समलोष्ठकांचनः समस्तभूतेषु च सत्समाहितः।।

स्थानं ध्रुवं शाश्वतमव्ययं तु परं हि गत्वा न पुनर्हि जायते।। ९०.२४ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे यतिप्रायाश्चित्तं नाम नवतितमोऽध्यायः।। ९० ।।