लिङ्गपुराणम् - पूर्वभागः/अध्यायः ४२

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच॥
गते पुण्ये च वरदे सहस्राक्षे शिलाशनः।
आराधयन्महादेवं तपसाऽतोषयद्भवम्॥ ४२.१ ॥
अथ तस्यैवमनिशं तत्परस्य द्विजस्य तु।
दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम्॥ ४२.२ ॥
वल्मीकेनावृतांगश्च लक्ष्यः कीटगणैर्मुनिः।
वज्रसूचीमुखैश्चान्यै रक्तकीटैश्च सर्वतः॥ ४२.३ ॥
निर्मांसरुधिरत्वग्वै निर्लेपः कुड्यवत्स्थितः।
अस्थिशेषोऽभवत्पश्चात्तममन्यत शंकरः॥ ४२.४ ॥
यदा स्पृष्टो मुनिस्तेन करेण च स्मरारिणा।
तदैव मुनिशार्दूलश्चोत्ससर्ज क्लमं द्विजः॥ ४२.५ ॥
तपतस्तस्य तपसा प्रभुस्तुष्टाथ शंकरः।
तुष्टस्तवेत्यथोवाच सगणश्चोमया सह॥ ४२.६ ॥
तपसानेन किं कार्यं भवतस्ते महामते।
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्॥ ४२.७ ॥
ततः प्रणम्य देवेशं स्तुत्वोवाच शिलाशनः।
हर्षगद्गदया वाचा सोमं सोमविभूषणम्॥ ४२.८ ॥
शिलाद उवाच।
भगवन्देवदेवेश त्रिपुरार्दन शंकर।
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सत्तम॥ ४२.९ ॥
सूत उवाच।
पूर्वमाराधितः प्राह तपसा परमेश्वरः।
शिलादं ब्रह्मणा रुद्रः प्रीत्या परमया पुनः॥ ४२.१೦ ॥
श्रीदेवदेव उवाच।
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन।
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः॥ ४२.११ ॥
तव पुत्रो भविष्यामि नंदिनाम्ना त्वयोनिजः।
पिता भविष्यसि मम पितुर्वै जगतां मुने॥ ४२.१२ ॥
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्य स्थितं घृणी।
सोमः सोमोपमः प्रीतस्तत्रैवांतरधीयत॥ ४२.१३ ॥
लब्धपुत्रः पिता रुद्रात्प्रीतो मम महामुने।
यज्ञाङ्गणं महत्प्राप्य यज्ञार्थं यज्ञवित्तमः॥ ४२.१४ ॥
तदंगणादहं शंभोस्तनुजस्तस्य चाज्ञया।
संजातः पूर्वमेवाहं युगांताग्निसमप्रभः॥ ४२.१५ ॥
ववर्षुस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्याः।
शिलादात्मजत्वं गते मय्युपेन्द्रः ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम्॥ ४२.१६ ॥
मां दृष्ट्वा कालसूर्याभं जटामुकुटधारिणम्।
त्र्यक्षं चतुर्भुजं बालं शूलटंकगदाधरम्॥ ४२.१७ ॥
वज्रिणं वज्रदंष्ट्रं च वज्रिणाराधितं शिशुम्।
वज्रकुंडलिनं घोरं नीरदोपमनिः स्वनम्॥ ४२.१८ ॥
ब्रह्माद्यास्तुष्टुवुः सर्वे सुरेन्द्रश्च मुनीश्वराः।
नेदुः समंततः सर्वे ननृतुश्चाप्सरोगणाः॥ ४२.१९ ॥
ऋषयो मुनिशार्दूल ऋग्यजुःसामसंभवैः।
मंत्रैर्माहेश्वरैः स्तुत्वा संप्रणेमुर्मुदान्विताः॥ ४२.२೦ ॥
ब्रह्मा हरिश्च रुद्रश्च शक्रः साक्षाच्छिवांबिका।
जीवश्चेन्दुर्महातेजा भास्करः पवनोनलः॥ ४२.२१ ॥
ईशानो निर्ऋतिर्यक्षो यमो वरुण एव च।
विश्वेदेवास्तथा रुद्रा वसवश्च महाबलाः॥ ४२.२२ ॥
लक्ष्मीः साक्षाच्छची ज्येष्ठा देवी चैव सरस्वती।
अदितिश्च दितिश्चैव श्रद्धा लज्जा धृतिस्तथा॥ ४२.२३ ॥
नंदा भद्रा च सुरभी सुशीला सुमनास्तथा।
वृषेन्द्रश्च महातेजा धर्मो धर्मात्मजस्तथा॥ ४२.२४ ॥
आवृत्य मां तथालिंग्य तुष्टुवुर्मुनिसत्तम।
शिलादोपि मुनिर्दृष्ट्वा पिता मे तादृशं तदा॥ ४२.२५ ॥
प्रीत्या प्रणम्य पुण्यात्मा तुष्टावेष्टप्रदं सुतम्।
शिलाद उवाच।
भगवन्देवदेवेश त्रियंबक ममाव्यय॥ ४२.२६ ॥
पुत्रोसि जगतां यस्मात्त्राता दुःखाद्धि किं पुनः।
रक्षको जगतां यस्मात्पिता मे पुत्र सर्वग॥ ४२.२७ ॥
अयोनिज नमस्तुभ्यं जगद्योने पितामह।
पिता पुत्र महेशान जगतां च जगद्गुरो॥ ४२.२८ ॥
वत्सवत्स महाभाग पाहि मां परमेश्वर।
त्वयाऽहं नंदितो यस्मान्नंदी नाम्ना सुरेश्वर॥ ४२.२९ ॥
तस्मान्नंदय मां नंदिन्नमामि जगदीश्वरम्॥
प्रसीद पितरौ मेद्य रुद्रलोकं गतौ विभो॥ ४२.३೦ ॥
पितामहाश्च भो नंदिन्नवतीर्णे महेश्वरे।
ममैव सफलं लोके जन्म वै जगतां प्रभो॥ ४२.३१ ॥
अवतीर्णे सुते नंदीन् रक्षार्थं मह्यमीश्वर।
तुभ्यं नमः सुरेशान नंदीश्वर नमोस्तु ते॥ ४२.३२ ॥
पुत्र पाहि महाबाहो देवदेव जगद्गुरो।
पुत्रत्वमेव नंदीश मत्वा यत्कीर्तितं मया॥ ४२.३३ ॥
त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः।
यः पठेच्छृणुयाद्वापि मम पुत्र प्रभाषितम्॥ ४२.३४ ॥
श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते।
एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः॥ ४२.३५ ॥
मुनीश्वरांश्च संप्रेक्ष्य शिलादोवाच सुव्रतः।
पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः॥ ४२.३६ ॥
नन्दी यज्ञाङ्गणे देवश्चावतीर्णो यतः प्रभुः।
मत्समः कः पुमाँल्लोके देवो वा दानवोपि वा॥ ४२.३७ ॥
एष नंदी यतो जातो यज्ञभूमौ हिताय मे॥ ४२.३८ ॥
इति श्रीलिंगमहापुराणे पूर्वभागे नंदिकेरश्वरोत्पत्तिर्नाम द्विचत्वारिंशोऽध्यायः॥ ४२ ॥