सामग्री पर जाएँ

लिङ्गपुराणम् - पूर्वभागः/अध्यायः ५७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
अष्टभिश्च हयैर्युक्तः सोमपुत्रस्य वै रथः।।
वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः।। ५७.१ ।।

दशभिश्चाकृशैरश्वैर्नानावर्णै रथः स्मृतः।।
शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः।। ५७.२ ।।

अष्टाश्वश्चाथ भौमस्य रथो हैमः सुशोभनः।।
जीवस्य हैमश्चाष्टाश्वोमंदस्यायसनिर्मितः।। ५७.३ ।।

रथ आपोमयैरश्वैर्दशभिस्तु सितेतरैः।।
स्वर्भानोर्भास्करारेश्च तथा चाष्टहयः स्मृतः।। ५७.४ ।।

सर्वे ध्रुवनिबद्धावै ग्रहास्ते वातरश्मिभिः।।
एतेन भ्राम्यमाणाश्च यथायोगं व्रजन्ति वै।। ५७.५ ।।

यावंत्यश्चैव ताराश्च तावन्तश्चैव रश्मयः।।
सर्वे ध्रुवनिबद्धाश्च भ्रमन्तो भ्रामयन्ति तम्।। ५७.६ ।।

अलातचक्रवद्यांति वातचक्रेरितानि तु।।
यस्माद्वहति ज्योतींषि प्रवहस्तेन स स्मृतः।। ५७.७ ।।

नक्षत्रसूर्याश्च तथा ग्रहतारागणैः सह।।
उन्मुकाभिमुखाः सर्वे चक्रभूताः श्रिता दिवि।। ५७.८ ।।

ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्।।
प्रयांति चेश्वरं द्रष्टुं मेढीभूतं ध्रुवं दिवि।। ५७.९ ।।

नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः।।
त्रिगुणस्तस्य विस्तारो मंडलस्य प्रमाणतः।। ५७.१೦ ।।

द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः।।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति।। ५७.११ ।।

उद्धृत्य पृथिविछायां निर्मितां मंडलाकृतिम्।।
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्।। ५७.१२ ।।

चंद्रस्य षोडशो भागो भार्गवस्य विधीयते।।
विष्कंभान्मंडलाच्चैव योजनाच्च प्रमाणतः।। ५७.१३ ।।

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः।।
पादहीनौ वक्रसौरी तथाऽऽयामप्रमाणतः।। ५७.१४ ।।

विस्तारान्मंडलाच्चैव पादहीनस्तयोर्बुधः।।
तारा नक्षत्ररूपाणि वपुष्मंतीह यानि वै।। ५७.१५ ।।

बुधेन तानि तुल्यानि विस्तारान्मंडलादपि।।
प्रायशश्चंद्रयोगीनि विद्यादृक्षाणि तत्त्ववित्।। ५७.१६ ।।

तारानक्षत्ररूपाणि हीनानि तु परस्परम्।।
शतानि पंच चत्वारी त्रीणि द्वे चैव योजने।। ५७.१७ ।।

सर्वोपरि निकृष्टानि तारकामंडलानि तु।।
योजनद्वयमात्राणि तेभ्यो ह्रस्वं न विद्यते।। ५७.१८ ।।

उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः।।
सौरोङ्गिराश्च वक्रश्च ज्ञेया मंदविचारिणः।। ५७.१९ ।।

तेभ्योधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः।।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः।। ५७.२೦ ।।

तावंत्यस्तारकाः कोट्यो यावंत्युक्षाणि सर्वशः।।
ध्रुवात्त नियमाच्चैषामृक्षमार्गे व्यवस्तितिः।। ५७.२१ ।।

सप्ताश्वस्यैव सूर्यस्य नीचोच्चत्वमनुक्रमात्।।
उत्तरायणमार्गस्थो यदा पर्वसु चंद्रमाः।। ५७.२२ ।।

उच्चत्वाद्दृश्यते शीघ्रं नातिव्यक्तैर्गभस्तिभिः।।
तदा दक्षिणमार्गस्थो नीचां वीथिमुपाश्रितः।। ५७.२३ ।।

भूमीरेखावृतः सूर्यः पौर्णिमावास्ययोस्तदा।।
ददृशे च यथाकालं शीघ्रमस्तमुपैति च।। ५७.२४ ।।

तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः।।
ददृशे दक्षिणे मार्गे नियमाद्दृश्यते न च।। ५७.२५ ।।

ज्योतिषां गतियोगेन सूर्यस्य तमसा वृतः।।
समानकालास्तमयौ विषुवत्सु समोदयौ।। ५७.२६ ।।

उत्तरासु च वीथीषु व्यंतरास्तमनोदयौ।।
पौर्णिमावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ।। ५७.२७ ।।

दक्षिणायनमार्गस्थौ यदा चरति रश्मिवान्।।
ग्रहणां चैव सर्वेषां सूर्योधस्तात्प्रसर्पति।। ५७.२८ ।।

विस्तीर्णं मंडलं कृत्वा तस्योर्ध्वं चरते शशी।।
नक्षत्रमंडलं कृत्स्रं सोमादूर्ध्वं प्रसर्पति।। ५७.२९ ।।

नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः।।
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः।। ५७.३೦ ।।

तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमंडलम्।।
ऋषीणां चैव सप्तानां ध्रुवस्योर्ध्वं व्यवस्थितिः।। ५७.३१ ।।

तं विष्णुलोकं परमं ज्ञात्वा मुच्येत किल्बिषात्।।
द्विगुणेषु सहस्रेषु योजनानां शतेषु च।। ५७.३२ ।।

ग्रहनक्षत्रतारासु उपरिष्टाद्यथाक्रमम्।।
ग्रहाश्च चंद्रसूर्यै च युतौ दिव्येन तेजसा।। ५७.३३ ।।

नित्यमृक्षेषु युज्यंते गच्छंतोहर्निशं क्रमात्।।
ग्रहनक्षत्रसूर्यास्ते नीचोच्चऋजुसंस्थिताः।। ५७.३४ ।।

समागमे च भेदे च पश्यंति युगपत्प्रजाः।।
ऋतवः षट् स्मृताः सर्वे समागच्छंति पंचधा।। ५७.३५ ।।

परस्परास्थिता ह्येते युज्यंते च परस्परम्।।
असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः।। ५७.३६ ।।

एवं संक्षिप्य कथितं ग्रहाणां गमनं द्विजाः।।
भास्करप्रमुखानां च यतादृष्टं यथाश्रुतम्।। ५७.३७ ।।

ग्रहाधिपत्ये भगवान् ब्रह्मणा पद्मयोनिना।।
अभिषिक्तः सहस्रांशू रुद्रेण तु यथा गुहः।। ५७.३८ ।।

तस्माद्ग्रहार्चना कार्या अग्नौ चोद्यं यताविधि।।
आदित्यग्रह पीडायां सद्भिः कार्या।र्थसिद्धये।। ५७.३९ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे ज्योतिश्चक्रे ग्रहचारकथनं नाम सप्तपंचाशत्तमोऽध्यायः।। ५७ ।।