लिङ्गपुराणम् - पूर्वभागः/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८


सूत उवाच।।
आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते।।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः।। ९.१ ।।

अश्रद्धादर्शनं भ्रांतिर्दुःखं च त्रिविधं ततः।।
दौर्मनस्यमयोग्येषु विषयेषु च योगता।। ९.२ ।।

दशधाभिप्रजायंते मुनेर्योगांतरायकाः।।
आलस्यं चाप्रवृत्तिश्च गुरुत्वात्कायचित्तयोः।। ९.३ ।।

व्याधयो धातुवैषम्यात् कर्मजा दोषजास्तथा।।
प्रमादस्तु समावेस्तु साधनानामभावनम्।। ९.४ ।।

इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः।।
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः।। ९.५ ।।

लब्धायामपि भूमौ च चित्तस्य भवबंधनात्।।
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च।। ९.६ ।।

साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु।।
विपर्ययज्ञानमिति भ्रांतिदर्शनमुच्यते।। ९.७ ।।

अनात्मन्यात्मविज्ञानमज्ञानात्तस्य सन्निधौ।।
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम्।। ९.८ ।।

आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः।।
इच्छाविघातात्संक्षोभश्चेतसस्तदुदाहृतम्।। ९.९ ।।

दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु।।
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम्।। ९.१० ।।

तदा मनसि संजातं दौर्मनस्यमिति स्मृतम्।।
हठात्स्वीकरणं कृत्वा योग्यायोग्य विवेकतः।। ९.११ ।।

विषयेषु विचित्रेषु जंतोर्विषयलोलता।।
अंतराया इति ख्याता योगस्यैते हि योगिनाम्।। ९.१२ ।।

अत्यंतोत्साह युक्तस्य नश्यंति न च संशयः।।
प्रनष्टेष्वंतरायेषु द्विजाः पश्चाद्धि योगिनः।। ९.१३ ।।

उपसर्गाः प्रवर्तते सर्वे तेऽसिद्धिसूचकाः।।
प्रतिभा प्रथमा सिद्धिर्द्वितीया श्रवणा स्मृता।। ९.१४।।

वार्ता तृतीया विप्रेंद्रास्तुरीया चेह दर्शना।।
आस्वादा पंचमी प्रोक्ता वेदना षष्ठिका स्मृता।। ९.१५ ।।

स्वल्पषट्सिद्धिसंत्यागात्सिद्धिदाः सिद्धयो मुनेः।।
प्रतिभा प्रतिभावृतिः प्रतिभाव इति स्थितिः।। ९.१६ ।।

बुद्धिर्विवेचना वेद्यं बुद्ध्यते बुद्धिरुच्यते।।
सूक्ष्मे व्यवहितेतीते विप्रकृष्टे त्वनागते।। ९.१७ ।।

सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु।।
श्रवणात्सर्वशब्दानामप्रयत्नेन योगिनः।। ९.१८ ।।

ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि।।
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता।। ९.१९ ।।

दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः।।
संविद्दिव्यरसे तस्मिन्नास्वादो ह्यप्रयत्नतः।। ९.२० ।।

वार्ता च दिव्यगंधानां तन्मात्रा बुद्धिसंविदा।।
विन्दंते योगिनस्तस्मादाब्रह्मभुवनं द्विजाः।। ९.२१ ।।

जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम्।।
औपसर्गिकमेतेषु गुणेषु गुणितं द्विजाः।। ९.२२ ।।

संत्याज्यं सर्वथा सर्वमौपसर्गिकमात्मनः।।
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः।। ९.२३ ।।

याक्षे तु तैजसं प्रोक्तं गांधर्वे श्वसनात्मकम्।।
ऐन्द्रे व्योमात्मकं सर्वं सौम्ये चैव तु मानसम्।। ९.२४ ।।

प्राजापत्ये त्वहंकारं ब्राह्मे बोधमनुत्तमम्।।
आद्ये चाष्टौ द्वीतीये च तथा षोडशरूपकम्।। ९.२५ ।।

चतुर्विंशत्तृतीये तु द्वत्रिंशच्च चतुर्थके।।
चत्वारिंशत् पंचमे तु भूतमात्रात्मकं स्मृतम्।। ९.२६ ।।

गंधो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च।।
प्रत्येकमष्टधा सिद्धं पंचमेतच्छतक्रतोः।। ९.२७ ।।

तथाष्टचत्वारिंशच्च षट्पंचाशत्तथैव च।।
चतुः षष्टिगुणं ब्राह्मं लभते द्विजसत्तमाः।। ९.२८ ।।

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्।।
लोकेष्वालोक्य योगेन योगवित्परमं सुखम्।। ९.२९ ।।

स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा।।
नानाजातिस्वरूपं च चतुर्भिर्देहधारणम्।। ९.३० ।।

पार्थिवांशं विना नित्यं सुरभिर्गंधसंयुतः।।
एतदष्टगुणं प्रोक्तमैश्वर्यं पार्थिवं महत्।। ९.३१ ।।

जले निवसनं यद्वद्भूम्यामिव विनिर्गमः।।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः।। ९.३२ ।।

यत्रेच्छति जगत्यस्मिंस्तत्रास्य जलदर्शनम्।।
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः।। ९.३३ ।।

तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम्।।
भांडं विनाथ हस्तेन जलपिंडस्य धारणम्।। ९.३४ ।।

अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम्।।
एतत् षोडशकं प्रोक्तमाप्यमैश्वर्यमुत्तमम्।। ९.३५ ।।

देहादग्निविनिर्माणं तत्तापभयवर्जितम्।।
लोकं दग्धमपीहान्यददग्धं स्वविधानतः।। ९.३६ ।।

जलमध्ये हुतवहं चाधाय परिरक्षणम्।।
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः।। ९.३७ ।।

भस्मीभूतविनिर्माणं यथापूर्वं सकामतः।।
द्वाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः।। ९.३८ ।।

चतुर्विंशात्मकं ह्येतत्तैजसं मुनिपुंगवाः।।
मनोगतित्वं भूतानामंतर्निवसनं तथा।। ९.३९ ।।

पर्वतादिमहाभारस्कंधेनोद्वहनं पुनः।।
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम्।। ९.४० ।।

अंगुल्यग्रनिघातेन भूमेः सर्वत्र कंपनम्।।
एकेन देहनिष्पत्तिर्वातैश्वर्य स्मृतं बुधैः।। ९.४१ ।।

छायाविहीननिष्पत्तिरिंद्रियाणां च दर्शनम्।।
आकाशगमनं नित्यमिंद्रियार्थैः समन्वितम्।। ९.४२ ।।

दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्।।
तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम्।। ९.४३ ।।

ऐंद्रमैश्वर्यमित्युक्तमेतैरुक्तः पुरातनः।।
यताकामोपलब्धिश्च यथाकाम विनिर्गमः।। ९.४४ ।।

सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्।।
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम्।। ९.४५ ।।

संसारदर्शनं चैव मानसं गुणलक्षणम्।।
छेदनं ताडनं बंधं संसारपरिवर्तनम्।। ९.४६ ।।

सर्वभूतप्रसादश्च मृत्युकालजयस्तथा।।
प्राजापत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम्।। ९.४७ ।।

अकारणजगत्सृष्टिस्तथानुग्रह एव च।।
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्तनम्।। ९.४८ ।।

असादृश्यमिदं व्यक्तं निर्माणं च पृथक्पृथक्।।
संसारस्य च कर्तृत्वं ब्राह्ममेतदनुत्तमम्।। ९.४९ ।।

एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम्।।
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते।। ९.५० ।।

विद्यते तत्परं शैवं विष्णुना नावगम्यते।।
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम्।। ९.५१ ।।

व्युत्थाने सिद्धयश्चैता ह्युपसर्गाश्च कीर्तिताः।।
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु।। ९.५२ ।।

नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च।।
अश्रद्धया त्यजेत्सर्वं विरक्त इति कीर्तितः।। ९.५३ ।।

वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते।।
वैराग्येणैव संत्याज्याः सिद्धयश्चौपसर्गिकाः।। ९.५४ ।।

औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्।।
निरुद्ध्यैव त्यजेत्सर्वं प्रसीदति महेश्वरः।। ९.५५ ।।

प्रसन्ने विमला मुक्तिर्वैराग्येण परेण वै।।
अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः।। ९.५६ ।।

अनिरुद्ध्य विचेष्टेद्यः सोप्येवं हि सुखी भवेत्।।
क्वचिद्भूमिं परित्यज्य ह्याकाशे क्रीडते श्रिया।। ९.५७ ।।

उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः।।
क्वचिच्छ्रुते तदर्थेन श्लोकबंधं करोति सः।। ९.५८ ।।

क्वचिद्दंडकबंधं तु कुर्याद्बंधं सहस्रशः।।
मृगपक्षिसमूहस्य रुतज्ञानं च विंदति।। ९.५९ ।।

ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत्।।
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः।। ९.६० ।।

उत्पद्यंते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः।।
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत्।। ९.६१ ।। (९.६२)

तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित्।।
देवबिंबान्यनेकानि विमानानि सहस्रशः।। ९.६२ ।। (९.६३)

पश्यति ब्रह्मविष्ण्वींद्रयमाग्निवरुणादिकान्।।
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः।। ९.६३ ।। (९.६४)

पातालतलसंस्थाश्च समाधिस्थः स पश्यति।।
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु।। ९.६४ ।। (९.६५)

प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु।।
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम्।। ९.६५ ।।

तस्य प्रसादाद्धर्मश्च ऐश्वर्यं ज्ञानमेव च।।
वैराग्यमपवर्गश्च नात्र कार्या विचारणा।। ९.६६ ।।

न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि।।
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः।। ९.६७ ।।

इति श्रीलिङ्गपुराणे पूर्वभागे योगांतरायकथनं नाम नवमोऽध्यायः।। ९ ।।