अथर्ववेदः/काण्डं ७/सूक्तम् ०४२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.०४१ अथर्ववेदः - काण्डं ७
सूक्तं ७.०४२(७.०४१)
ऋषिः - प्रस्कण्वः
सूक्तं ७.०४३ →
दे. श्येनः। १ जगती, २ त्रिष्टुप्।

अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः ।
तरन् विश्वान्यवरा रजांसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥
श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।
स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥