अथर्ववेदः/काण्डं ७/सूक्तम् ०४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.०४० अथर्ववेदः - काण्डं ७
सूक्तं ७.०४१
ऋषिः - प्रस्कण्वः
सूक्तं ७.०४२ →
दे. सरस्वान्। १ भुरिक्, २ त्रिष्टुप्।

यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।
यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।
रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥२॥