अग्निपुराणम्/अध्यायः २६०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अग्निपुराणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६
  247. अध्यायः २४७
  248. अध्यायः २४८
  249. अध्यायः २४९
  250. अध्यायः २५०
  251. अध्यायः २५१
  252. अध्यायः २५२
  253. अध्यायः २५३
  254. अध्यायः २५४
  255. अध्यायः २५५
  256. अध्यायः २५६
  257. अध्यायः २५७
  258. अध्यायः २५८
  259. अध्यायः २५९
  260. अध्यायः २६०
  261. अध्यायः २६१
  262. अध्यायः २६२
  263. अध्यायः २६३
  264. अध्यायः २६४
  265. अध्यायः २६५
  266. अध्यायः २६६
  267. अध्यायः २६७
  268. अध्यायः २६८
  269. अध्यायः २६९
  270. अध्यायः २७०
  271. अध्यायः २७१
  272. अध्यायः २७२
  273. अध्यायः २७३
  274. अध्यायः २७४
  275. अध्यायः २७५
  276. अध्यायः २७६
  277. अध्यायः २७७
  278. अध्यायः २७८
  279. अध्यायः २७९
  280. अध्यायः २८०
  281. अध्यायः २८१
  282. अध्यायः २८२
  283. अध्यायः २८३
  284. अध्यायः २८४
  285. अध्यायः २८५
  286. अध्यायः २८६
  287. अध्यायः २८७
  288. अध्यायः २८८
  289. अध्यायः २८९
  290. अध्यायः २९०
  291. अध्यायः २९१
  292. अध्यायः २९२
  293. अध्यायः २९३
  294. अध्यायः २९४
  295. अध्यायः २९५
  296. अध्यायः २९६
  297. अध्यायः २९७
  298. अध्यायः २९८
  299. अध्यायः २९९
  300. अध्यायः ३००
  301. अध्यायः ३०१
  302. अध्यायः ३०२
  303. अध्यायः ३०३
  304. अध्यायः ३०४
  305. अध्यायः ३०५
  306. अध्यायः ३०६
  307. अध्यायः ३०७
  308. अध्यायः ३०८
  309. अध्यायः ३०९
  310. अध्यायः ३१०
  311. अध्यायः ३११
  312. अध्यायः ३१२
  313. अध्यायः ३१३
  314. अध्यायः ३१४
  315. अध्यायः ३१५
  316. अध्यायः ३१६
  317. अध्यायः ३१७
  318. अध्यायः ३१८
  319. अध्यायः ३१९
  320. अध्यायः ३२०
  321. अध्यायः ३२१
  322. अध्यायः ३२२
  323. अध्यायः ३२३
  324. अध्यायः ३२४
  325. अध्यायः ३२५
  326. अध्यायः ३२६
  327. अध्यायः ३२७
  328. अध्यायः ३२८
  329. अध्यायः ३२९
  330. अध्यायः ३३०
  331. अध्यायः ३३१
  332. अध्यायः ३३२
  333. अध्यायः ३३३
  334. अध्यायः ३३४
  335. अध्यायः ३३५
  336. अध्यायः ३३६
  337. अध्यायः ३३७
  338. अध्यायः ३३८
  339. अध्यायः ३३९
  340. अध्यायः ३४०
  341. अध्यायः ३४१
  342. अध्यायः ३४२
  343. अध्यायः ३४३
  344. अध्यायः ३४४
  345. अध्यायः ३४५
  346. अध्यायः ३४६
  347. अध्यायः ३४७
  348. अध्यायः ३४८
  349. अध्यायः ३४९
  350. अध्यायः ३५०
  351. अध्यायः ३५१
  352. अध्यायः ३५२
  353. अध्यायः ३५३
  354. अध्यायः ३५४
  355. अध्यायः ३५५
  356. अध्यायः ३५६
  357. अध्यायः ३५७
  358. अध्यायः ३५८
  359. अध्यायः ३५९
  360. अध्यायः ३६०
  361. अध्यायः ३६१
  362. अध्यायः ३६२
  363. अध्यायः ३६३
  364. अध्यायः ३६४
  365. अध्यायः ३६५
  366. अध्यायः ३६६
  367. अध्यायः ३६७
  368. अध्यायः ३६८
  369. अध्यायः ३६९
  370. अध्यायः ३७०
  371. अध्यायः ३७१
  372. अध्यायः ३७२
  373. अध्यायः ३७३
  374. अध्यायः ३७४
  375. अध्यायः ३७५
  376. अध्यायः ३७६
  377. अध्यायः ३७७
  378. अध्यायः ३७८
  379. अध्यायः ३७९
  380. अध्यायः ३८०
  381. अध्यायः ३८१
  382. अध्यायः ३८२
  383. अध्यायः ३८३

यजुर्विधानम्[सम्पाद्यताम्]

पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु ।
ॐकारपूर्व्विका राम महाव्याहृतयो मता ।। २६०.१ ।।

सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा ।
आज्यहुतिसहस्रेण देवानाराधयेद्‌बुधः ।। २६०.२ ।।

मनसः काङ्‌क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्य्यत्तिलैः पापापनुत्तये ।। २६०.३ ।।

धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा ।
औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ।। २६०.४ ।।

दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः ।
अपामार्गसमिद्बिस्तु कामयन् कनकं बहु ।। २६०.५ ।।

कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्‌ग्रामार्थी तिलतण्डुलान् ।। २६०.६ ।।

वश्यकर्मणि शाखोटवासापामार्गमेव च ।
विषासृङ्‌मिश्रसमिधो व्याधिघातस्य भार्गव ।। २६०.७ ।।

क्रद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया ।
सर्व्वब्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ।। २६०.८ ।।

सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ।। २६०.९ ।।

ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ।। २६०.१० ।।

विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।। २६०.११ ।।

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।। २६०.१२ ।।

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च१ ।
द्विषती बधोसीति जपन्निखनेद्रिपुवेश्मनि ।। २६०.१३ ।।

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ।। २६०.१४ ।।

उपयुञ्जत इत्येतदनुवाकन्तथान्नदं ।
तनूनपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ।। २६०.१५ ।।

भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्२ ।
त्रियम्बकं यजामहे होमः सौभ ग्यवर्द्धनः ।। २६०.१६ ।।

कन्यानाम गृहीत्वा तु कन्यालाभकरः परः ।
भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।। २६०.१७ ।।

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ।। २६०.१८ ।।

युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
विष्णोरवाटमित्येतत् सर्वबाधाविनाशनं ।। २६०.१९ ।।

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ।। २६०.२० ।।

इदमापः प्रवहत स्नाने पापापनोदनं ।
विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ।। २६०.२१ ।।

कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते ।
देव सवितरेतेन हुतेनैतेन चान्नवान् ।। २६०.२२ ।।

अग्नौ स्वहेति जुहुयाद्‌बलकामो द्विजोत्तम ।
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ।। २६०.२३ ।।

सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ।। २६०.२४ ।।

रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं ।
सर्व्वकर्मकरो होमस्तथा सर्व्वत्र् शान्तिदः ।। २६०.२५ ।।

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ।। २६०.२६ ।।

ग्रामाणां नगराणाञ्च चदेशानामपि भार्गव ।
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। २६०.२७ ।।

मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। २६०.२८ ।।

कुष्माण्डघृतकहोमेन सर्व्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ।। २६०.२९ ।।

बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया ।
मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ।। २६०.३० ।।

दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ।। २६०.३१ ।।

स्वस्तिन इन्द्र इत्येतत्सर्व्बबाधाविनाशनं ।
इह गावः प्रजायध्वभिति पुष्टिविवधेनम् ।। २६०.३२ ।।

घृताहुतिसहस्रेण तथालक्षमीविनाशनं ।
श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ।। २६०.३३ ।।

मुच्यते विकृताच्छीघ्रमबिचारान्न संशयः ।
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ।। २६०.३४ ।।

शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ।। २६०.३५ ।।

यो अस्मभ्यमवातीयाद्‌धुत्वा कृष्णतिलान्नरः ।
सहस्रशोऽभिचारच्च मुच्यते विकृताद्‌ द्विज ।। २६०.३६ ।।

अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।। २६०.३७ ।।

चत्वारि भृङ्गेत्येतत्तु सर्व्वपापहरं जले ।
देवा यज्ञेति जप्त्वान् ब्रह्मलोके महीयते ।। २६०.३८ ।।

वसन्तेति च्च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।। २६०.३९ ।।

नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।। २६०.४० ।।

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।। २६०.४१ ।।

शतं य इति चैतेन हुत्वा पर्णफलानि च ।
आरेग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।। २६०.४२ ।।

ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् ।
अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ।। २६०.४३ ।।

तस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते ।
युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।। २६०.४४ ।।

मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम्६ ।
मा मा हिंशीस्तिलाज्येन हृतं रिपुविनाशनं ।। २६०.४५ ।।

नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु ।
कृणुध्वं राज इत्येतदभिचारविनाशनं ।। २६०.४६ ।।

दूर्व्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ।। २६०.४७ ।।

रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।
औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ।। २६०.४८ ।।

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। २६०.४९ ।।

अपां गर्भमिति हुत्वा देवं वर्षापयेद्‌ध्रुवम् ।
अपः पिवेति च तथा हुत्वा दधि घृतं मधु ।। २६०.५० ।।

प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ।। २६०.५१ ।।

सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ।। २६०.५२ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५३ ।।

असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ।। २६०.५४ ।।

अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।
प्रमुञ्च धन्वन्नित्येतत् षड्‌भिरायुधमन्त्रणं ।। २६०.५५ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५६ ।।

नमो हिरण्यवाहवे इत्यनुवाकसप्तकम् ।
राजिकां ककटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।। २६०.५७ ।।

नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः ।
राज्यलक्ष्मीमवाप्नोति तथा विल्वैः सुवर्णकम् ।। २६०.५८ ।।

इमा रुद्रायेति तिलैर्होमाच्य धनमाप्यते ।
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।। २६०.५९ ।।

आशुः शिशान इत्येतदायुधानाञ्च रक्षणए ।
संग्रामे कथितं राम सर्वशत्रुनिवर्हणं ।। २६०.६० ।।

राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां दर्मज्ञ चक्षूरोगाद्विमुच्यते ।। २६०.६१ ।।

शन्नो वनस्पतेगोहे होमः स्याद्वास्तुदोषनुत् ।
अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।। २६०.६२ ।।

अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।। २६०.६३ ।।

अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।। २६०.६४ ।।

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृतं ।
संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।। २६०.६५ ।।

केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् ।
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।। २६०.६६ ।।

धन्वा नागेति मन्त्रकश्च धनुर्ग्राहनिकः परः ।
यजीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ।। २६०.६७ ।।

मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् ।
वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ।। २६०.६८ ।।

युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
आशुः शिशान् इत्येतद्‌यात्रारम्भणमुच्यते ।। २६०.६९ ।।

विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ।। २६०.७० ।।

याः सेना अभित्वरीति परसैन्यमुखे भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७१ ।।

एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७२ ।।

रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ।। २६०.७३ ।।

शिवसंकल्पजापेन समाधिं मनसोलभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्षअमीमवाप्नुयात् ।। २६०.७४ ।।

यदा बधून्दाक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ।। २६०.७५ ।।

इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं ।
क्षिपेद्‌गृहे तदा तस्य न स्याच्चौरभयं निशि ।। २६०.७६ ।।

परिमेगामनेनेति वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशीभवति मानवः ।। २६०.७७ ।।

भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छेति ।
यस्य धर्मज्ञ वशणः सोस्य शीघ्रं भविष्यति ।। २६०.७८ ।।

शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं ।
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।। २६०.७९ ।।

वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।। २६०.८० ।।

शन्नो देवोरभिष्टये तथा शान्तिकारः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागश ।। २६०.८१ ।।

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
गावो भग इति द्वाभ्यां हुत्वाज्यह्गा अवाप्नुयात् ।। २६०.८२ ।।

प्रवादांशः सोपदिति गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।। २६०.८३ ।।

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा१५ ।। २६०.८४ ।।

इत्यादिमहापुराणे आग्नेये यजुर्विधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः ।।