अग्निपुराणम्/अध्यायः ३४२

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















अभिनयादिनिरूपणम्[सम्पाद्यताम्]

अग्निरुवाच
आभिमुख्यन्नयन्नर्थान्विज्ञेयोऽभिनयो बुधैः ।
चतुर्द्धा सम्भवः सत्त्वावागङ्गाहरणाश्रयः ।। ३४२.१ ।।

स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः ।
शरीरारम्भ आहार्य्यो बुद्ध्यारम्भप्रवृत्तयः ।। ३४२.२ ।।

रसादिविनियोगोऽथ कथ्यते ह्यभिमानतः ।
तमन्तरेण सर्व्वेषामपार्थैव स्वतन्त्रता ।। ३४२.३ ।।

सम्भोगो विप्रलम्भश्च श्रृङ्गारः स चतुर्विधः ।
पूर्व्वानुरागमानाख्यः प्रवासकरुणात्मकः ।। ३४२.४ ।।

विप्रलम्भाभिदानो यः श्रृङ्गार उपचीयते ।
 आलम्वनविशेषैश्च तद्विशेषैर्न्निरन्तरः ।। ३४२.५ ।।

एतेभ्योऽन्यतरं जायमानसम्भोगलक्षणम् ।
विवर्त्तते चतुर्द्धैव न च प्रागतिवर्त्तते ।। ३४२.६ ।।

स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्त्तिकारतिः ।
निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना ।। ३४२.७ ।।

धर्म्मार्थकाममोक्षैश्च श्रृङ्गार उपचीयते ।
आलम्वनविशेषैश्च तद्विशेषैर्न्निरन्तरः ।। ३४२.८ ।।

श्रृङ्गारं द्विविधं विद्याद्वाङ्‌नेपथ्यक्रियात्मकम् ।
हासश्चतुर्व्विधोऽलक्षयदन्तः स्मित इतीरितः ।। ३४२.९ ।।

किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् ।
विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् ।। ३४२.१० ।।

सशब्दं पापहसितमशब्दमतिहासितं ।
यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् ।। ३४२.११ ।।

धर्म्मोपघातजश्चित्तविलासजनितस्तथा ।
शोकः शोकाद्भवेत् स्थायीकः क्रोधः स्वेदो रोमाञ्चवेपथुः ।। ३४२.१२ ।।

अङ्कनेपथ्यवाक्यैश्च रौद्रोऽपि त्रिविधो रसः ।
तस्य निर्वर्त्तकः क्रोधः स्वेदो रोमाञ्चवेपथुः ।। ३४२.१३ ।।

दानवीरो धर्मवीरो युद्धवीर इति त्रयम् ।
वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते ।। ३४२.१४ ।।

आरम्भेषु भवेद्यत्र वीरमेवानुवर्त्तते ।
भयानको नाम रसस्तस्य निर्वर्तकं भयं ।। ३४२.१५ ।।

उद्वेजनः क्षोभणश्य वीभत्सो द्विविधः स्मृतः ।
उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः ।। ३४२.१६ ।।

जुगुप्सारम्भिका तस्य सात्त्विकांशो निवर्त्तते ।
काव्यशोभाकरान् धर्म्मानलङ्कारान् प्रचक्ष्यते ।। ३४२.१७ ।।

अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा ।
ये व्युत्पत्त्यादिना शब्दमलङ्कर्त्तुमिह क्षमाः ।। ३४२.१८ ।।

शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः ।
छाया मुद्रा तथोक्तिश्च युक्तिर्गुम्फनया सह ।। ३४२.१९ ।।

वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च ।
क्षेया नवालङ्कृतयः शब्दानामित्यसङ्करात् ।। ३४२.२० ।।

तत्रान्योक्तेरनुकृतिश्छाया सापि चतुर्व्विधा ।
लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः ।। ३४२.२१ ।।

आभाणकोक्तिर्लोकोक्तिः सर्व्वसामान्य एव ताः ।
यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः ।। ३४२.२२ ।।

छेका विदग्धा वैदग्धयं कलासु कुशला मतिः ।
तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते ।। ३४२.२३ ।।

अव्युत्पन्नोक्तिरखिलैरर्भकोक्त्योपलक्ष्यते ।
तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्व्यती ।। ३४२.२४ ।।

विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी ।
या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते ।। ३४२.२५ ।।

अभिप्रायविशेषेण कविशक्तिं विवृण्वती ।
मुत्‌प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते ।। ३४२.२६ ।।

उक्तिः सा कथ्यते यस्वामर्थकोऽप्युपपत्तिमान् ।
लोकयात्रार्थविधिना धिनोति हृदयं सतां ।। ३४२.२७ ।।

उभौ विधिनिषेधौ च नियमानियमावपि ।
पिकल्पपरिसङ्ख्ये च तदीयाः पड़थोक्तयः ।। ३४२.२८ ।।

अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः ।
योजनायै कल्प्यमाना युक्तिरुत्ता मनीषिभिः ।। ३४२.२९ ।।

पदञ्चैव पदार्थश्च वाक्यार्थमेव च ।
विष्योऽस्याः प्रकारणं प्रपञ्चश्चेति षड्‌विधः ।। ३४२.३० ।।

गुम्फना रचनाचर्य्या शब्दार्थक्रमगोचरा ।
शब्दानुकारादर्थानुपूर्व्वार्थेयं क्रमात्त्रिधा ।। ३४२.३१ ।।

उक्तिपत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् ।
ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः ।। ३४२.३२ ।।

सा पूर्व्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् ।
वक्रोक्तिम्तु भवेद्भङ्ग्या काकुस्तेन कृता द्विधा ।। ३४२.३२ ।।

इत्यादिमहापुराणे आग्नेये अलङ्कारे अभिनयादिनिरूपणं नाम द्विचत्वारिशदधिकत्रिशततमोऽध्यायः ।।