अग्निपुराणम्/अध्यायः १८८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
द्वादशीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
द्वादशीव्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।१८८.००१
एकभक्तेन भक्तेन तथैवायाचितेन च ॥१८८.००१
उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती ।१८८.००२
चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिं ॥१८८.००२
पूजयेद्भुक्तिमुक्त्यर्थी(४) मदनद्वादशईव्रती ।१८८.००३
माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती ॥१८८.००३
नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् ।१८८.००४
फाल्गुने च सिते पक्षे गोविन्दद्वादशीव्रती ॥१८८.००४
विशोकद्वादशीकारी यजेदाश्वयुजे हरिं ।१८८.००५
लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः ॥१८८.००५
ददाति शुक्लद्वादश्यां स सर्वरसदायकः ।१८८.००६
टिप्पणी
१ कीटिकोटिगुणोत्तमेति ख..
२ एकादश्यामृषिं पूज्येति ख.. , छ.. च । एकदश्यामृषिपूजेति ङ..
३ कार्या सर्वाघहारिणीति झ.. , ञ.. च
४ भुक्तिमुक्त्यर्थमिति छ.. , ञ.. च

गोवत्सं पूजयेद्भाद्रे गोवत्सद्वादशीव्रती ॥१८८.००६
माध्यान्तु समतीतायां श्रवणेन तु संयुता ।१८८.००७
द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी ॥१८८.००७
तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकं ।१८८.००८
दीपश्च तिलतैलेन तथा देयं तिलोदकं ॥१८८.००८
तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः ।१८८.००९
ओं नमो भगवतेऽथो वासुदेवाय वै यजेत् ॥१८८.००९
सुकलः स्वर्गमाप्नोति षट्तिलद्वादशीव्रती ।१८८.०१०
मनोरथद्वादशीकृत्फाल्गुने तु सितेऽर्चयेत् ॥१८८.०१०
नामद्वादशीव्रतकृत्केशवाद्यैश्च नामभिः ।१८८.०११
वर्षं यजेद्धरिं स्वर्गी न भवेन्नारकी नरः ॥१८८.०११
फाल्गुनस्य सितेऽभ्यर्च्य सुमतिद्वादशीव्रती ।१८८.०१२
मासि भाद्रपदे शुक्ते अनन्तद्वादशीव्रती(१) ॥१८८.०१२
अश्लेषर्क्षे तु मूले वा(२) माघे कृष्णाय वै नमः ।१८८.०१३
यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः ॥१८८.०१३
सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् ।१८८.०१४
जय कृष्ण नमस्तुभ्यं वर्षं स्याद्भुक्तिमुक्तिगः(३) ॥१८८.०१४
पौषशुक्ले तु द्वादश्यां सम्प्राप्तिद्वादशीव्रती ।१८८.०१५

इत्याग्नेये महापुराणे नानाद्वादशीव्रतानि नामाष्टाशीत्यधिकशततमोऽध्यायः ॥

टिप्पणी
१ मनोरथद्वादशीत्यादिः, अनन्तद्वादशीव्रतीत्यन्तः पाठः घ.. पुस्तके नास्ति
२ आषाढर्क्षे तु मूले वा इति ख.. , ग.. , ज.. , ट.. च
३ वर्षे स्याद्भुक्तिमुक्तिद इति ग.. , घ.. च