सामग्री पर जाएँ

अग्निपुराणम्/अध्यायः २८६

विकिस्रोतः तः
अग्निपुराणम्
















कल्पसागरः

[सम्पाद्यताम्]

धन्वन्तरिरुवाच
कल्पान्मृत्युञ्चयान्वक्ष्ये ह्यायुर्द्दान्रोगमर्द्दनान् ।
त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ।। २८६.१ ।।

पलं पलार्द्धं कर्षं वा त्रिफलां सकलां तथा ।
विल्वतैलस्य नस्यञ्च मासं पञ्चशती कवि ।। २८६.२ ।।

रीगापमृत्युबलिजत् तिलं भल्लातकं तथा ।
पञ्चाङ्गं वाकुचीचूर्णं षण्मासं शकदिरोदकैः ।। २८६.३ ।।

क्काथैः कुष्ठञ्जयेत् सेव्यं चूर्णं लीलकुरुण्टजम् ।
क्षीरेण मधुना वापि शतायुः खण्डदुग्धभुक् ।। २८६.४ ।।

मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः स मृत्युजित् ।
बलीपलितजिज्जीवेन्माण्डूकी चूर्णदुग्धपाः ।। २८६.५ ।।

उच्चटामधुना कर्ष पयःपा मृत्युजिन्नरः ।
मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।। २८६.६ ।।

पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् ।
दुग्धभोजी पञ्चशती सहस्रायुर्भ्वेन्नरः ।। २८६.७ ।।

ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् ।
मधुनाज्यन्ततस्तद्वत् शतावर्य्या रजः पलं ।। २८६.८ ।।

क्षौद्राज्यैः पयसा वापि निर्गुण्‌डी रोगमृत्युजित् ।
रुदन्तिकाकज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.९ ।।

कर्षं भृङ्गरसेनापि रोगजीच्चामरो भवेत् ।
रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.१० ।।

कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः ।
घृतेन मधुना सेव्य त्रिशतायुश्च रोगजित् ।। २८६.११ ।।

वाराहिका भृङ्गरसं लोहचूर्णं शतावरी ।
साज्यं कर्षं पञ्चशती कार्त्तचूर्णं शतावरी ।। २८६.१२ ।।

भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् ।
ताम्रं मृतं मृततुल्यं गन्धकञ्च कुमारिका ।। २८६.१३ ।।

रसैविमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् ।
अश्वगन्धा पलं तैलं साज्यंखण्डं शताब्दवान् ।। २८६.१४ ।।

पलम्पुनर्न्नवाचूर्णं मध्वाज्यपयसा पिवन् ।
अशोकचूर्णस्य पलं मध्वाज्यं पयसार्त्तिन्त् ।। २८६.१५ ।।

तिलस्य तैलं समधु नस्यात् कृष्णकचः शती ।
कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ।। २८६.१६ ।।

अभयं सगुडञ्जग्ध्वा घृतेन मधुरादिभिः ।
दुग्धान्नभुक् कृष्णकेशोऽरोगी पञ्चशताब्दवान् ।। २८६.१७ ।।

पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् ।
मासं दुग्धान्नभोजी च सहस्रायुविंशोगवान् ।। २८६.१८ ।।

शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृतं ।
कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ।। २८६.१९ ।।

त्रिफला पिप्पली शुण्ठी सेविता त्रिशताव्दकृत् ।
शतावर्य्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ।। २८६.२० ।।

चित्रकेन तथा पूर्वस्तथा शुण्ठीविडङ्गतः ।
लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ।। २८६.२१ ।।

खदिरेण च निर्गुण्ड्या कण्टकार्य्याथ वासकात् ।
वर्षाभुवा तद्रसैर्वा भावितो वटिकाकृतः ।। २८६.२२ ।।

चूर्णङ्‌घृतैर्वा मधुना गुडाद्यैर्वारिणा तथा ।
ॐ ह्रूं स इति मन्त्रेण मन्त्रितो योगराजकः ।। २८६.२३ ।।

मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् ।
सुरासुरैश्च मुनिभिः सेविताः कल्पसागराः ।। २८६.२४ ।।

गजायुर्वेदं प्रोवाच पालकाप्योऽङ्गराजकं ।। २८६.२५ ।।

इत्यादिमहापुराणे आग्नेये कल्पसागरो नाम षडशीत्यधिकद्विशततमोऽध्ययः ।।