अग्निपुराणम्/अध्यायः १४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















लक्षकोटिहोमः

ईश्वर उवाच
होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं ।१४९.००१
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥१४९.००१
अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् ।१४९.००२
प्राणायामांश्च पूर्वाह्णे जुहुयात्पावके हविः ॥१४९.००२
भैक्ष्ययावकभक्षी च फलमूलाशनोऽपि वा ।१४९.००३
क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् ॥१४९.००३
यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति ।१४९.००४
दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं ॥१४९.००४
सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः ।१४९.००५
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥१४९.००५
मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते ।१४९.००६
कोटिहोमन्तु यो राजा कारयेत्पूर्ववद्द्विजैः ॥१४९.००६
न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ।१४९.००७
न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ॥१४९.००७
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।१४९.००८
राक्षसाद्याश्च शाम्यन्ति सर्वे च रिपवो रणे ॥१४९.००८
कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा ।१४९.००९
शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् ॥१४९.००९
कोटिहोमन्तु यः कुर्याद्द्विजो भूपोऽथवा च विट् ।१४९.०१०
यदिच्छेत्प्राप्नुयात्तत्तत्सशरीरो दिवं व्रजेत् ॥१४९.०१०
गायत्र्या ग्रहमन्त्रैर्वा कुष्माण्डीजातवेदसैः ।१४९.०११
ऐन्द्रवारुणवायव्ययाम्याग्नेयैश्च वैष्णवैः ॥१४९.०११
शाक्तेयैश्च शाम्भवैः सौरैर्मन्त्रैर्होमार्चनात्ततः ।१४९.०१२
अयुतेनाल्पसिद्धिः स्याल्लक्षहोमोऽखिलार्तिनुत् ॥१४९.०१२
सर्वपीडादिनशाय कोटिहोमोऽखिलार्थदः ।१४९.०१३
यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः ॥१४९.०१३
पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः ।१४९.०१४
अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥१४९.०१४
तस्मादर्धप्रमाणेन लक्षहोमे विधीयते ।१४९.०१५
होमोऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः ॥१४९.०१५
इत्याग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमोऽध्यायः ॥