अग्निपुराणम्/अध्यायः १२३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

युद्धजयार्णवीयनानायोगाः

वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ।१२३.००१
अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥१२३.००१
कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ।१२३.००२
शनिर्दक्षिणनाड्यान्तु भौमार्कशनयः परे ॥१२३.००२
खार्णवः खससैर्गुण्यो रुद्रैर्भागं समाहरेत् ।१२३.००३
रसाहतन्तु तत्कृत्वा पूर्वभागेन भाजयेत् ॥१२३.००३
वह्निभिश्चाहतं कृत्वा(१) रूपन्तत्रैव निक्षिपेत् ।१२३.००४
स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः ॥१२३.००४
अनेनैव तु मानेन उदयन्ति दिने दिने ।१२३.००५
स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् ॥१२३.००५
टिप्पणी
१ वह्निभिश्च हृतं कृत्वा इति घ..

षष्टिभिश्च पलैर्लिप्ता लिप्ताषष्टिस्त्वहर्निशं ।१२३.००६
पञ्चमार्धोदये बालकुमारयुववृद्धकाः ॥१२३.००६
मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः ।१२३.००७
कुलागमे भवेद्भङ्गः समृत्युः पञ्चमोऽपिवा ॥१२३.००७
स्वरोदयञ्चक्रं
शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् ।१२३.००८
विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः ॥१२३.००८
शनिचक्रं
दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्(१) ।१२३.००९
त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः ॥१२३.००९
मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ ।१२३.०१०
कूर्मचक्रं
राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्(२) ॥१२३.०१०
वाय्वग्न्योश्चैव नैर्ऋत्ये पूर्णिमाग्नेयभागतः ।१२३.०११
अभावास्यां वायवे च राहुर्वै तिथिरूपकः ॥१२३.०११
रकारं दक्षभागे तु हकारं वायवे लिखेत् ।१२३.०१२
प्रतिपदादौ ककारादीन् सकारं नैर्ऋते पुनः ॥१२३.०१२
राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः ।१२३.०१३
विष्टिरग्नौ(३) पौर्णमास्यां कराणीन्द्रे तृतीयकं ॥१२३.०१३
घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा ।१२३.०१४
चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये ॥१२३.०१४
टिप्पणी
१ अर्वुदान्यर्वुदं क्रमादिति झ..
२ सप्तरसांल्लिखेदिति झ..
३ विष्तिर्वह्नौ इति ग..

शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् ।१२३.०१५
रौद्रश्चैव तथा श्वेतो मैत्रः सारभटस्तथा ॥१२३.०१५
सावित्री विरोचनश्च जयदेवोऽभिजित्तथा(१) ।१२३.०१६
रावणो विजयश्चैव नन्दी वरुण एव च ॥१२३.०१६
यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः ।१२३.०१७
रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् ॥१२३.०१७
मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् ।१२३.०१८
सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया ॥१२३.०१८
जयदेवे जयं कुर्याद्रावणे रणकर्म च(२) ।१२३.०१९
विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि ॥१२३.०१९
वरुणे च तडागादि नाशकर्म यमे चरेत् ।१२३.०२०
सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा ॥१२३.०२०
योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः ।१२३.०२१
राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्(३) ॥१२३.०२१
शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् ।१२३.०२२
ततश्च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् ॥१२३.०२२
राहुचक्रं
चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका ।१२३.०२३
बला चातिबला क्षीरी मल्लिकाजातियूथिकाः ॥१२३.०२३
यथालाभं धारयेत्ताः श्वेतार्कश्च शतावरी ।१२३.०२४
गुडूची वागुरी दिव्या ओषध्यो धारिता जये ॥१२३.०२४
टिप्पणी
१ स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति
२ जीवकर्म चेति ख..
३ वायोर्याम्यं ततः शिवमिति घ..

ओं नमो भैरवाय(१) खड्गपरशुहस्ताय ओं ह्रूं(२) विघ्नविनाशाय ओं ह्रूं(३) फट्
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ।१२३.०२५
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥१२३.०२५
स्नानपानानि तैलानि योगधूलिमतः शृणु ।१२३.०२६
शुभगा मनःशिला तालं लाक्षारससमन्वितं ॥१२३.०२६
तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे ।१२३.०२७
विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च(४) रोचना ॥१२३.०२७
अजादुग्धेन संपिष्टं तिलकोवश्यकारकः ।१२३.०२८
प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं ॥१२३.०२८
तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं ।१२३.०२९
निशा मनःशिला तालं प्रियङ्गुसर्षपास्तथा ॥१२३.०२९
मोहनी हरिता क्रान्ता सहदेवी शिखा तथा ।१२३.०३०
मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे ॥१२३.०३०
सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः ।१२३.०३१
मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी ॥१२३.०३१
पुनर्नवासमायुक्तो लेपोऽयं भास्करो वशे ।१२३.०३२
चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा(५) ॥१२३.०३२
लोध्नप्रियङ्गुरजनीमांसीतैलं वशङ्करं ।१२३.०३३

इत्याग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥