अग्निपुराणम्/अध्यायः १४३

विकिस्रोतः तः
अग्निपुराणम्
















कुब्जिकापूजा

ईश्वर उवाच
कुब्जिकाक्रमपूजाञ्च(१) वक्ष्ये सर्वार्थसाधनीं ।१४३.००१
यया जिताः सुरा देवैः शस्त्राद्यैराज्यसंयुतैः ॥१४३.००१
टिप्पणी
१ कुब्जिकाचक्रपूजाच्चेति ख.. , छ.. च

मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् ।१४३.००२
काली कालीति हृदयं दुष्टचाण्डालिका शिरः ॥१४३.००२
ह्रौं स्फें ह स ख क छ ड ओं कारो भैरवः शिखा ।१४३.००३
भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका ॥१४३.००३
ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् ।१४३.००४
अग्नौ कूर्चशिरो रुद्रे नैर्ऋत्येऽथ शिखानिले ॥१४३.००४
कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले ।१४३.००५
द्वात्रिंशता कर्णिकायां स्रों हसक्षमलनववषडसचात्ममन्त्रवीजकं ॥१४३.००५
ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा ।१४३.००६
वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् ॥१४३.००६
यजेद्रवलकसहान् शिवेन्दाग्नियमेऽद्निपे ।१४३.००७
जले तु कुसुममालामद्रिकाणां च पञ्चकं ॥१४३.००७
जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् ।१४३.००८
मरुदेशाग्निनैर्ऋत्ये मध्ये वै वज्रकुब्जिकां ॥१४३.००८
अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ।१४३.००९
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥१४३.००९
समयाख्योऽथ विमल एतद्विमलपञ्चकं ।१४३.०१०
मरुदीशाननैर्ऋत्ये वह्नौ चोत्तरशृङ्गके ॥१४३.०१०
कुब्जार्थं खिंखिनी षष्ठा सोपन्ना सुस्थिरा तथा ।१४३.०११
रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः ॥१४३.०११
मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपेऽनिले ।१४३.०१२
भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं ॥१४३.०१२
ब्रुं मर्त्यः पञ्चनामाख्यो(१) मरुदीशानवह्निगः ।१४३.०१३
याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका ॥१४३.०१३
तिस्रो ह्यासां महावृद्धाः पञ्चप्रणवतोऽखिलाः ।१४३.०१४
सप्तविंशत्यष्टविंशभेदात्सम्पूजनं द्विधा ॥१४३.०१४
ओं ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् ।१४३.०१५
चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् ॥१४३.०१५
वामे च वटुकं कोणे गुरून् सोडशनाथकान् ।१४३.०१६
वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः ॥१४३.०१६
ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः ।१४३.०१७
कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा ॥१४३.०१७

इत्याग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ खं मृत्यौ वुञ्चनामाख्य इति ज..