अग्निपुराणम्/अध्यायः ३४६

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्

















काव्यगुणविवेकः ।

अग्निरुवाच ।
अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्य ललिते स्त्रीणां हारो भारयते परं ।। ३४६.१ ।।

न च वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गुढ़ार्थाद्याः पृथक् कृताः ।। ३४६.२ ।।

यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ।। ३४६.३ ।।

सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते ।
शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ।। ३४६.४ ।।

शब्दमाश्रयते काव्यं शरीरं यः स तद्‌गुणः ।
श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ।। ३४६.५ ।।

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ।। ३४६.६ ।।

गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं ।
यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ।। ३४६.७ ।।

विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ।। ३४६.८ ।।

अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।
उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ।। ३४६.९ ।।

ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ।। ३४६.१० ।।

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ३४६.११ ।।

माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता ।
प्रौढ़िः सामयिकत्वञ्च तद्‌भेदाः षट्‌चकाशति ।। ३४६.१२ ।।

क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता ।
सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। ३४६.१३ ।।

यत्‌काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। ३४६.१४ ।।

लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। ३४६.१५ ।।

अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः ।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। ३४६.१६ ।।

स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। ३४६.१७ ।।

शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्र्सादः सौभाग्यं यथासङ्‌ख्यं प्रशस्तता ।। ३४६.१८ ।।

काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । पाको राग इति प्राज्ञैः पाठभेदः
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। ३४६.१९ ।।

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। ३४६.२० ।।

यथासङ्‌ख्यमनुद्देशः सामान्यमतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। ३४६.२१ ।।

अदारुणेन शब्देन प्राशसत्यमुपवर्णनं ।
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.२२ ।।

मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। ३४६.२३ ।।

काव्येच्छया विशेषो यः स राग इति गीयते ।
अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। ३४६.२४ ।।

हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। ३४६.२५ ।।

इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्‌चत्बारिंशदधिकत्रिशततमोऽध्यायः ।।