अग्निपुराणम्/अध्यायः २४३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















पुरुषलक्षणम्[सम्पाद्यताम्]

अग्निरुवाच
रामोक्तोक्ता मथा नीतिः स्त्रीणां राजन् नृणां वदे ।
लक्षणं यत्समुद्रेण गर्गायोक्तं यथा पुरा ।। २४३.१ ।।

समुद्र उवाच ।
पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं ।
एकाधिको द्विशुक्लश्च त्रिगम्भीरस्तथैव च ।। २४३.२ ।।

त्रित्रिकस्त्रिप्रलम्बश्च त्रिभिर्व्याप्नोति यस्तया ।
त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश्च सुव्रत ।। २४३.३ ।।

पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु ।
चतुर्ल्लेशस्तथा यश्च तथैव च चतुःसमः ।। २४३.४ ।।

चतुष्किष्कुश्चतुर्दंश्च सप्तस्नेहो नवामलः ।
दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलं ।। २४३.५ ।।

षडुन्नतोऽष्टवंशश्च सप्तस्नहो नवामलः ।
दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः ।। २४३.६ ।।

चतुर्दशसमद्वन्द्वः षोडशाक्षश्च शस्यते ।
धर्मार्थकामसंयुक्तो धर्मो ह्येकाधिको मतः ।। २४३.७ ।।

तारकाभ्यां विना नेत्रे शुक्लदन्तो द्विशुक्लकः ।
गाम्बीरस्त्रिश्रवा नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं ।। २४३.८ ।।

अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता ।
शौचं स्पृहा त्वकार्पण्यमनायासश्च शौर्य्यता ।। २४३.९ ।।

त्रित्रिकस्त्रिप्रलम्बः स्याद्‌वृषणो भुजयोर्नरः ।
दिग्देशजातिवर्गांश्च तेजसा यशसा श्रिया ।। २४३.१० ।।

व्याप्नोति यस्त्रिकव्यापि त्रिबलीमान्नरस्त्वसौ ।
उदरे बलयस्तिस्त्रो नरन्त्रिविनतं श्रृणु ।। २४३.११ ।।

देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः ।
धर्मार्थकामकालज्ञस्त्रिकालज्ञोऽभिधीयते ।। २४३.१२ ।।

उरो ललाटं वक्त्रञ्च त्रिवस्तीर्णो विलेखवान् ।
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ।। २४३.१३ ।।

अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं ।
षण्णवत्यह्गुलोत्सेधश्चतुष्किष्कुप्रमाणतः ।। २४३.१४ ।।

द्रंष्ट्राश्चतस्रश्चन्द्राभाश्चतुःकृष्णं वदामि ते ।
नेत्रतारौ ब्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ।। २४३.१५ ।।

नासायां वदने स्वेदे कक्षयोर्विडगन्धकः ।
ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं ।। २४३.१६ ।।

सूक्ष्माण्यह्गुलिपर्वाणि नखकेशद्विजत्वचः ।
हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं ।। २४३.१७ ।।

वक्षः कक्षौ खा नासोन्नतं वक्त्रं कृकाटिका ।
स्रिग्धास्त्वक्केशदन्ताश्च लोम दृष्टिर्नखाश्च वाक् ।। २४३.१८ ।।

जान्वोरुर्वोश्च पृष्ठस्थ वंशौ द्वौ करनासयोः ।
नेत्रे नासपुटौ कर्णौ मेढ्रं पायुमुखेऽमलं ।। २४३.१९ ।।

जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास्तथा ।
शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां ।। २४३.२० ।।

पाणिपादं सुखं ग्रीवा श्रवणे हृदयं शिरः ।
ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश ।। २४३.२१ ।।

प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं ।
उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ।। २४३.२२ ।।

पादौ गुल्फौ स्फिचौ पर्श्वौ वङ्क्षणौ वृषणौ कुचौ ।
कर्णौष्ठे सक्थिनी जह्घे हस्तौ बाहू तथाक्षिणी ।। २४३.२३ ।।

चतुर्द्दशमद्वन्द्व एतत्सामान्यतो नरः ।
विद्याश्चतुर्द्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः ।। २४३.२४ ।।

रूक्षं शिराततं गात्रमशुभं मांसवजितं ।
दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया ।। २४३.२५ ।।

धःयस्य मधुरा वाणी गतिर्म्मत्तेभसन्निभा ।
एककूपभवं रोम भये रक्षा सकृत् सकृत् ।। २४३.२६ ।।

इत्यादिमहापुराणे आग्नेये पुरुणलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ।।