अग्निपुराणम्/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















वासुदेवादिमन्त्रनिरूपणम्[सम्पाद्यताम्]


नारद उवाच
वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। १ ।।

नमो भगवते चादौ अ आ अं अः स्ववीजकाः ।
ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ।। २ ।।

ओं तत् सद् ब्रह्मणे चैव ओं नमो विष्णवे नमः।
ओं क्षों ओं नमो भगवते नरसिंहाय वै नमः ।। ३ ।।

ओं भूर्नमो भगवते वराहाय नराधिपाः।
जवारुणहरिद्राभा नीलश्यामललोहिताः ।। ४ ।।

मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः।
अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम् ।। ५ ।।

हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः।
व्यञ्चनादीनि बीजानि तेषां लक्षणमन्यथा ।। ६ ।।

दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु।
अह्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ।। ७ ।।

विभक्तनामवर्णान्तस्थितानि वीदमुत्तमम् ।
दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात् ।। ८ ।।

व्यञ्चनानां क्रमो ह्येष हृदयादिप्रकूप्तये।
स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनाभिः ।। ९ ।।

युक्तानि हृदयादीनि द्वादशान्तादि पञ्चतः ।
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ।। १० ।।

हृदयञ्च शिरश्चुडा कवचं नेत्रमस्तकम्।
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकम् ।। ११ ।।

हृच्छिरश्च शिखा वर्म्म चास्त्रनेत्रन्तथोदरम्।
पृष्ठबाहूरुजानूँश्च जङ्घा पादौ क्रमान्न्यसेत् ।। १२ ।।

कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः ।
गं डं बं सं पुष्टिमन्त्रो घं ढं भं हं श्रियै नमः ।। १३ ।।

वं शं मं क्षं पाञ्चजन्यं छं तं पं कौस्तुभाय च।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं ।। १४ ।।

ओं धं वं वनमालायै महानन्ताय वै नमः ।
निर्बीजपदमन्त्राणं पदैरङ्गानि कल्पयेत् ।। १५ ।।

जात्यन्तैर्नामसंयुक्तैर्हृदयादीनि पञ्चधा।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ।। १६ ।।

प्रणवं हृदयं पूर्वं परायेति शिरः शिखा।
नाम्नात्मना तु कवचं अस्त्रं नामान्तकं भवेत् ।। १७ ।।

ओं परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः।
एकव्यूहादिपड्‌विशव्यूहात्तस्यात्मनो मनुः ।। १८ ।।

कनिष्ठादिकराग्रेषु प्रकृतिं देहकेर्च्चयेत्।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ।। १९ ।।

ओं परायाग्न्यात्मने चैव वाय्वर्क्कौ च द्विरूपकः।
अग्निं त्रिमूर्त्तौ विन्यस्य व्यापकं करदेहयोः ।। २० ।।

वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये।
हृदि मूर्त्तौ तनावेष त्रिव्यूहे तुर्य्यरूपके ।। २१ ।।

ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत्।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ।। २२ ।।

आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत्।
अङ्गुलीषु च वाय्वादि शिरोहृद्‌गुह्यपादके ।। २३ ।।

वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्‌व्यूह ईरितः ।। २४ ।।

व्यापकं मानसं न्यस्य ततोङ्गुष्ठादितः क्रमात्।
मूर्द्धास्यहृद्‌गुह्यपत्सु कथितः करुणात्मकः ।। २५ ।।

आदिमूर्त्तिस्तु सर्वत्र व्यापको जीवसञ्‌ज्ञितः।
भूर्भुवः स्वर्म्महर्ज्जनस्तपः सत्यञ्च सप्तधा ।। २६ ।।

करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु।
तलसंस्थः सप्तमश्च लोकेशो देहके क्रमात् ।। २७ ।।

देहे शिरोललाटास्यहृद्‌गुह्याङ्‌घ्रिषुसंस्थितः।
अग्निष्टोमस्तथोक्थस्तु षोडशी वाजपेयकः ।। २८ ।।

अतिरात्राप्तोर्यामञ्च यज्ञात्मा सप्तरूपकः।
धीरहं मनः शब्दश्च स्पर्शरूषरसास्तत ।। २९ ।।

गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात्।
न्यसेदन्त्यौ च तलयोः के ललाटे मुखे हृदि ।। ३० ।।

नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृत ।
जीवो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ।। ३१ ।।

रूपं रसो नवात्मायं जीव अह्‌गुष्ठकद्वये।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम् ।। ३२ ।।

देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु।
पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ।। ३३ ।।

अङ्‌गुष्टकद्वये वह्निस्तर्जन्यादौ परेषु च।
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ।। ३४ ।।

पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च।
चक्षुर्जिह्वा तथा घ्राणं वाक्‌पाण्घङ्घ्रिश्च पायुकः ।। ३५ ।।

उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वेये।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ।। ३६ ।।

उत्तमाङ्गललाटास्यहृन्नाभावथ गुह्यके।
ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ।। ३७

विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ।। ३८ ।।

दामोदरः केशवश्च नारायणस्ततः परः।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ।। ३९ ।।

अङ्‌गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ।
शिरः शिखरकट्याञ्च जानुपादादिषु न्यसेत् ।। ४० ।।

द्वादशात्मा पञ्चविंशः षड्‌विंशव्यूहकस्तथा।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ।। ४१ ।।

तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा।
चक्षुर्जिह्वा नासिका च वाक्‌पाण्यङ्घ्रिश्च पायवः ।। ४२ ।।

उपस्थो भूर्जलन्तेजो वायुराकाशमेव च।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ।। ४३ ।।

शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोदूतौ ।। ४४ ।।

पादे जान्वोरुपस्थे च हृदये मूद्‌र्ध्नि च क्रमात्।
परश्च पुरुषात्मादौ षड्‌विंशे पूर्ववत्परम् ।। ४५ ।।

सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्‌बुधः।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ।। ४६ ।।

अस्त्रमग्न्यादिकोणेषु वैनतेयादि पूर्ववत्।
दिक्‌पालांश्च विधिस्त्वन्यः त्रिव्यूहेग्निश्च मध्यतः ।। ४७ ।।

पूर्वादिदिग्‌बलावासोराज्यादिभिरलङ्‌कृतः।
कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ।। ४८ ।।

विश्वरूपं सर्वस्थित्यै यजेद्राज्यजयाय च।
सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः ।। ४९ ।।

गरुडद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात्।
विष्वक्‌सेनं यजेन्नाम्ना वै बीजं व्योमसंस्थितम् ।। ५० ।।

इत्यादिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशोऽध्यायः।