अग्निपुराणम्/अध्यायः १०४

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच
वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज ।१०४.००१
चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ॥१०४.००१
अद्रिभागेन(३) गर्भः स्यात्पिण्डिका पादविस्तरात् ।१०४.००२
पञ्चभागीकृते क्षेत्रेन्तर्भागे(४) तु पिण्डिका ॥१०४.००२
सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् ।१०४.००३
भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(५) ॥१०४.००३
- - - -- - - -- - -- - - -- - - - -
टिप्पणी
३ अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च
४ पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च
५ भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. , ज.. च

- - -- - - -- - -- - -- - -- - -- -
त्रिभिस्तु कन्यसागर्भः(१) शेषो भित्तिरिति क्वचित् ।१०४.००४
षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात् ॥१०४.००४
गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।१०४.००५
विस्ताराद्द्विगुणो वापि सपादद्विगुणोऽपि वा ॥१०४.००५
अर्धार्धद्विगुणो वापि(२) त्रिगुणः क्वचित्त्रिदुच्छ्रयः ।१०४.००६
जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत् ॥१०४.००६
नेमिः पादोनविएस्तीर्णा(३) प्रासादस्य समन्ततः ।१०४.००७
परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत् ॥१०४.००७
चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् ।१०४.००८
प्रासादार्धेन देवानामष्टौ वा चतुरोऽपि वा ॥१०४.००८
प्रदक्षिणां वहिः कुर्यात्प्रासादादिषु(४) वा नवा ।१०४.००९
आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे(५) ॥१०४.००९
एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः ।१०४.०१०
चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका ॥१०४.०१०
तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः(६) ।१०४.०११
वैराजः पुष्पकश्चान्यः कैलासो(७) मणिकस्तथा ॥१०४.०११
त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः(८) ।१०४.०१२
चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः ॥१०४.०१२
- -- - - -- - - -- - - - -- - - - --
टिप्पणी
१ त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च
२ अध्यर्धद्विगुणो वापीति घ.. , ज.. च
३ पादेन विस्तीर्णा इति घ.. , ज.. च
४ प्रासादाद्दिक्षु इति ख.. , घ.. , छ.. , ज.. च । प्रासादे दिक्षु इति ङ..
५ स्कन्दोग्निर्वामगोचरे इति क..
६ सकण्ठोमवसारक इति ङ.. । सकण्ठोमवसाधक इति छ..
७ कैलास्य इति ङ.. , छ.. च
८ चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्यन्तः पाठो ग.. पुस्तके नास्ति

- - - - -- - - -- -- - -- -- - - - --
वृत्तो वृत्तायतश्चान्यो(१) ह्यष्टास्रश्चापि पञ्चमः ।१०४.०१३
एकैको नवधाभेदैश्चत्वारिंशच्च पञ्च च ॥१०४.०१३
प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस्तथा ।१०४.०१४
विमानञ्च तथा भद्रः सर्वतोभद्र एव च ॥१०४.०१४
चरुको(२) नन्दिको नन्दिर्वर्धमानस्तथापरः ।१०४.०१५
श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः ॥१०४.०१५
बलभी गृहराजश्च शालागृहञ्च मन्दिरं ।१०४.०१६
विशालश्च समो ब्रह्म(३) मन्दिरं भुवनन्तथा ॥१०४.०१६
प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः(४) ।१०४.०१७
बलयो(५) दुन्दुभिः पद्मो महापद्मक(६) एवच ॥१०४.०१७
वर्धनी वान्य उष्णीषः(७) शङ्खश्च कलसस्तथा ।१०४.०१८
स्ववृक्षश्च तथाप्येते वृत्ताः कैलाससम्भवाः(८) ॥१०४.०१८
गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः ।१०४.०१९
भूषणो(९) भूधरश्चान्न्ये श्रीजयः पृथवीधरः(१०) ॥१०४.०१९
वृत्तायतात्समुद्भूता नवैते मणिकाह्वयात्(११) ।१०४.०२०
वज्रं चक्रन्तथा चान्यत्स्वस्तिकं वज्रस्वस्तिकं(१२) ॥१०४.०२०
--- - - - -- - - -- - - - -- - - -- - -
टिप्पणी
१ चतुर्वृत्तायतश्चान्य इति घ..
२ रुचका इति क..
३ विशालश्च मनो ब्रह्मेति ख.. , घ.. च । विशालश्च तथा ब्रह्मेति ग..
४ पणव इति ज..
५ महापद्मश्च इति क..
६ शकुनी चास्य उष्णीष इति ज..
८ वर्धनीत्यादिः, कैलाससम्भवा इत्यन्तः पाठो छ.. पुस्तके नास्ति
९ वृषण इति ङ..
१० खवृक्षश्चेत्यादिः, पृथिवीधर इत्यन्तः पाठो ज.. पुस्तके नास्ति
११ मणिकाक्षयातिति ज..
१२ वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज..

- - - - -- -- - -- - -- - -- - -- - - -

चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च ।१०४.०२१
विजयो नामतश्चैते(१) त्रिविष्टपसमुद्भवाः ॥१०४.०२१
नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा(२) ।१०४.०२२
ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः(३) ॥१०४.०२२
दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः ।१०४.०२३
त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं(४) ॥१०४.०२३
दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन ।१०४.०२४
पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्युदाहृता ॥१०४.०२४
क्वचित्पञ्चमभागेन महताङ्गर्भपादतः ।१०४.०२५
उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते ॥१०४.०२५
षष्ट्याधिकात्समारभ्य अङ्गुलानां शतादिह(५) ।१०४.०२६
उत्तमान्यपि चत्वारि द्वाराणि दशहानितः(६) ॥१०४.०२६
त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः ।१०४.०२७
उच्छ्रायार्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा ॥१०४.०२७
चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः(७) ।१०४.०२८
उच्छ्रायात्पादविस्तीर्णा विशाखास्तदुदुंवरे(८) ॥१०४.०२८
विस्तरार्धेन बाहुल्यं(९) सर्वेषामेव कीर्तितम् ।१०४.०२९
- -- - - -- - - -- - - - -- - -- - -- -- - - -- - - -
टिप्पणी
१ विजयो नायकश्चैते इति ग..
२ नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज..
३ पृथुलं स्वत्रिभागत इति ख.. , घ.. , छ.. च । पृथुसमुद्रभागत इति ङ..
४ चतुर्भिस्तु तदण्डकमिति ख.. , ग.. च । चतुर्भिः कृतदण्डकमिति ज..
५ षष्ट्याधिकांशमारभ्य अङ्गुलानां शताधिकमिति ज..
६ उत्तमान्यपि चत्वारि चत्वारि दशहानित इति ज..
७ दशभिर्वा गुणैः शुभ इति छ..
८ विशाखास्थे त्वडुम्बरे इति छ.. च
९ विशुद्धेन तु वाहुल्यमिति ख.. । विस्तरार्धेन वा हन्यादिति झ.. । विस्तरार्धेन बहुल्यमिति ज..

- - -- - -- -- - -- - -- - -- -- -- - -
द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं ॥१०४.०२९
अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् ।१०४.०३०
मिथुनैः पादवर्णाभिः(१) शाखाशेषं विभूषयेत् ॥१०४.०३०
स्तम्भबिद्धे भृत्यता स्यात्वृक्षबिद्धे त्वभूतिता ।१०४.०३१
कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे(२) धनक्षयः ॥१०४.०३१
प्रासादगृहशिलादिमार्गविद्धेषु(३) बन्धनं ।१०४.०३२
सभाबिद्धे न दारिद्र्यं वर्णबिद्धे(४) निराकृतिः ॥१०४.०३२
उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता(५) ।१०४.०३३
छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते ॥१०४.०३३
छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् ।१०४.०३४
सीमाया द्विगुणत्यागाद्बेधदोषो न जायते ॥१०४.०३४
- -- -- - -- - - -- - -- - -- - - -- - -
टिप्पणी
१ मिथुनैरथ वल्लीभिरिति ख.. , छ.. च
२ द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च
३ मार्गवेधैश्च इति छ..
४ चुल्लीबिद्धे इति ख.. , ङ.. च
५ शिलाबिद्धेन मूढतां इति ग.. , ज.. च

- -- - -- - -- -- - - -- - - --- - -- -
इत्याग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमोऽध्यायः