अग्निपुराणम्/अध्यायः १९३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ त्रिनवत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















शिवरात्रिव्रतम्

अग्निरुवाच
शिवरात्रिव्रतं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु(१) ।१९३.००१
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी ॥१९३.००१
कामयुक्ता तु सोपोष्या कुर्वन् जागरणं व्रती ।१९३.००२
शिवरात्रिव्रतं कुर्वे चतुर्दश्यामभोजनं ॥१९३.००२
रात्रिजागरणेनैव पूजयामि शिवं व्रती ।१९३.००३
आवाहयाम्यहं शम्भुं भुक्तिमुक्तिप्रदायकं ॥१९३.००३
नरकार्णवकोत्तारनावं शिव नमोऽस्तु ते ।१९३.००४
नमः शिवाय शान्ताय प्रजाराज्यादिदायिने ॥१९३.००४
सौभाग्यारोग्यविद्यार्थस्वर्गमार्गप्रदायिने(२) ।१९३.००५
धर्मन्देहि धनन्देहि कामभोगादि देहि मे ॥१९३.००५
गुणकीर्तिसुखं देहि स्वर्गं मोक्षं च देहि मे ।१९३.००६
लुब्धकः प्राप्तवान् पुण्यं पापी सुन्दरसेनकः ॥१९३.००६

इत्याग्नेये महापुराणे शिवरात्रिव्रतं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥
टिप्पणी
१ भुक्तिमुक्तिप्रदायकमिति झ.. , ट.. च
२ स्वर्गमोक्षप्रदायिने इति ङ..