अग्निपुराणम्/अध्यायः २१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०९ अग्निपुराणम्
अध्यायः २१०
वेदव्यासः
अध्यायः २११ →
अग्निपुराणम्
















महादानानि

अग्निरुवाच
सर्वदानानि वक्ष्यामि महादानानि षोडश ।२१०.००१
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं ॥२१०.००१
ब्रह्माण्डं कल्पवृक्षश्च गोसहस्रञ्च पञ्चमं ।२१०.००२
हिरण्यकामधेनुश्च हिरण्याश्वश्च सप्तमं ॥२१०.००२
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ।२१०.००३
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च ॥२१०.००३
टिप्पणी
१ समुत्पाताद्यपापहृतिति ङ.. । समुत्पातादिपापहृदिति घ..

विश्वचक्रं कल्पलता सप्तसागरकं परं ।२१०.००४
रत्नधेनुर्महाभूतघटः शुभदिनेऽर्पयेत् ॥२१०.००४
मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे ।२१०.००५
मेरुदानानि पुण्यानि मेरवो दश तान् शृणु ॥२१०.००५
धान्यद्रोणसहस्रेण उत्तमोऽर्धार्धतः परौ ।२१०.००६
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ॥२१०.००६
दशभारैर्गुडाद्रिः स्यादुत्तमोऽर्धार्धतः परौ ।२१०.००७
उत्तमः पलसाहस्रैः स्वर्णमेरुस्तथा परौ ॥२१०.००७
दशद्रोणैस्तिलाद्रिः स्यात्पञ्चभिश्च त्रिभिः क्रमात् ।२१०.००८
कार्पासपर्वतो विंशभारैश्च दशपञ्चभिः ॥२१०.००८
विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः(१) ।२१०.००९
दशभिः पलसाहस्रैरुत्तमो रजताचलः ॥२१०.००९
अष्टभारैः शर्कराद्रिर्मध्यो मन्दोऽर्द्धतोऽर्द्धतः ।२१०.०१०
दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् ॥२१०.०१०
प्रथमा गुडधेनुः स्याद्घृतधेनुस्तथापरा ।२१०.०११
तिलधेनुस्तृतीया च चतुर्थी जलधेनुका ॥२१०.०११
क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ।२१०.०१२
रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥२१०.०१२
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।२१०.०१३
कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ॥२१०.०१३
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ।२१०.०१४
टिप्पणी
१ अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य प्रतिज्ञातत्वात्मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस्तथाष्टम इत्यनेन रत्नाचलस्य दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च

लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत् ॥२१०.०१४
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां ।२१०.०१५
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयात् ॥२१०.०१५
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ।२१०.०१६
अर्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥२१०.०१६
चतुर्थांशेन वत्सः स्याद्गुडवित्तानुसारतः ।२१०.०१७
पञ्च कृष्णलका माषस्ते सुवर्णस्तु षोडश ॥२१०.०१७
पलं सुवर्णाश्चत्वारस्तुला पलशतं स्मृतं ।२१०.०१८
स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः ॥२१०.०१८
धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ ।२१०.०१९
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥२१०.०१९
सितसूत्रशिरालौ च सितकम्बलकम्बलौ ।२१०.०२०
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ ॥२१०.०२०
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।२१०.०२१
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥२१०.०२१
सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ ।२१०.०२२
नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ ॥२१०.०२२
रचयित्वा यजेद्धेनुमिमैर्मन्त्रैर्द्विजोत्तम ।२१०.०२३
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ॥२१०.०२३
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ।२१०.०२४
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥२१०.०२४
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।२१०.०२५
विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥२१०.०२५
चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये ।२१०.०२६
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥२१०.०२६
लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे ।२१०.०२७
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः ॥२१०.०२७
सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ।२१०.०२८
एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत् ॥२१०.०२८
समानं सर्वधेनूनां विधानं चैतदेव हि ।२१०.०२९
सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक् ॥२१०.०२९
स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता ।२१०.०३०
कांस्योपदोहा दातव्या क्षीरिणी गौः सदक्षिणा ॥२१०.०३०
दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् ।२१०.०३१
कपिला चेत्तारयति भूयश्चासप्तमं कुलं ॥२१०.०३१
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां ।२१०.०३२
शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥२१०.०३२
सवत्सरोमतुल्यानि युगान्युभयतोमुखीं ।२१०.०३३
दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत् ॥२१०.०३३
आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् ।२१०.०३४
यमद्वारे महावीरे तप्ता वैतरणी(१) नदी ॥२१०.०३४
तान्तर्तुञ्च ददाम्येनां(२) कृष्णां वैतरणीञ्च गां ।२१०.०३५
इत्याग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ कृष्णा वैतरणी इति ज.. , झ.. , ट.. च
२ तान्तर्तुं वै ददाम्येनामिति छ..