सामग्री पर जाएँ

अग्निपुराणम्/अध्यायः ३६६

विकिस्रोतः तः
अग्निपुराणम्
















क्षत्रविट्‌शूद्रबर्गाः

[सम्पाद्यताम्]

अग्निरुवाच
मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।
राजा तु प्रणताशेपसामन्तः । स्यादधीश्वरः ।। ३६६.१ ।।

चक्रवर्त्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ।
मन्त्री धीसचिवोऽमात्यो महामात्राः प्रधानकाः ।। ३६६.२ ।।

द्रष्टरि व्यवहाराणां प्राड्‌विवाकाऽक्षदर्शकौ ।
भौरिकः कनकाध्यक्षोऽथाद्यक्षाधिकृतौ समौ ।। ३६६.३ ।।

अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ।। ३६६.४ ।।

षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः ।
विषयानन्तरो राजा शत्रुमित्रमतः परं ।। ३६६.५ ।।

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।
चरः स्पशः स्यात्प्रणिधिरुत्तरः काल आयतिः ।। ३६६.६ ।।

तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं ।
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ।। ३६६.७ ।।

भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ।
प्रभिन्नो गर्जितो मत्तो वमथुः करशीकरः ।। ३६६.८ ।।

स्त्रियां श्रृणिस्त्वङ्कुशोऽस्त्री परिस्तोमः कुथो द्वयोः ।
कर्णीरथः प्रवहणं दोला प्रेङ्‌खादिका स्त्रियां ।। ३६६.९ ।।

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।
भटा योधाश्च योद्धारः कञ्चुको वारणोऽस्त्रियां ।। ३६६.१० ।।

शीर्षण्यञ्च शिरस्त्रेऽथ तनुत्रं वर्म्म दंशनं ।
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।। ३६६.११ ।।

व्यूहस्तु बलविन्यासश्चक्रञ्चानीकमस्त्रियां ।
एकेभैकरथा त्र्यश्वाः पत्तिः वञ्चपदातिकाः ।। ३६६.१२ ।।

पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं ।
सेनामुखं गुल्मगणै वाहिनी पृतना चमूः ।। ३६६.१३ ।।

अनीकिनी दशानीकिन्योऽक्षोहिण्यो गजीदिभिः ।
धनुः कोदण्डइष्वासौ कोटिरस्याटनी स्मृता ।। ३६६.१४ ।।

नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ।
पृषत्‌कबाणविशिखा अजिह्मगखगाशुगाः ।। ३६६.१५ ।।

तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः।
असिर्ऋष्टिश्च निस्त्रिशः करवालः कृपाणवत् ।। ३६६.१६ ।।

सरुः खङ्गस्य मुष्टौ स्यादीली तु करपालिका ।
द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ।। ३६६.१७ ।।

प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरोऽस्त्रियां ।
वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ।। ३६६.१८ ।।

संशप्तकास्तु समयात्सङ्ग्ग्रामादनिवर्त्तिनः ।
पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियां ।। ३६६.१९ ।।

अहं पूर्वमहं पूर्व्वमित्यहंपूर्व्विका स्त्रियां ।
अहमहमिका सा स्याद्योऽहङ्कारः परस्परम् ।। ३६६.२० ।।

शक्तिः पराक्रमः प्राणः शौर्य्यं स्थानसहोबलं ।
मूर्छा तु कश्मलं मोहोऽप्यवमर्द्दस्तु पीड़़नं ।। ३६६.२१ ।।

अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः ।
निर्वासनं संज्ञपनं सारणं प्रतिघातनं ।। ३६६.२२ ।।

स्यात्पञ्चता कालधर्भो दिष्टान्तः प्रलयोऽत्य्यः ।
विशो भूमिस्पृशो वैश्या वृत्तिर्वर्तनजीवने ।। ३६६.२३ ।।

कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका ।
उद्धारोऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी ।। ३६६.२४ ।।

सिंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः ।
धान्यं व्रीहिः स्तम्बकरिः कड़ङ्गरो वुषं स्मृतं ।। ३६६.२५ ।।

माषादयः शमीधान्ये शुकधान्ये यवादयः ।
तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं ।। ३६६.२६ ।।

स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ ।
समानौ रसवत्यान्तु पाकस्थानमहानसे ।। ३६६.२७ ।।

पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः ।
आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।। ३६६.२८ ।।

क्लीवेऽग्वरीषं भ्राष्टो ना कर्कर्य्यालुर्गलन्तिका ।
आलिञ्जरः स्यान्मणिकं सुषवी कृष्णजीरके ।। ३६६.२९ ।।

आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं ।
निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते ।। ३६६.३० ।।

कूर्चिका क्षीरविकृतिः स्निग्धं मसृणचिक्कणं ।
पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः ।। ३६६.३१ ।।

जेमनं लेप आहारो माहेयी सौरभी च गौः ।
युगादीनाञ्च वोढारो युग्यप्रासङ्ग्यशाटकाः ।। ३६६.३२ ।।

चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका ।
सन्धिनी वृषभाक्रान्ता वेहद्‌गर्भोपघातिनी ।। ३६६.३३ ।।

पण्याजीवो ह्यापणिको न्यासश्चोपनिधिः पुमान् ।
विपणो विक्रयः सङ्‌ख्या सङ्‌ख्येये ह्यादश त्रिषु ।। ३६६.३४ ।।

विंशत्याद्याः सदैकत्वे सर्व्वाः संख्येयसंख्ययोः ।
संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।। ३६६.३५ ।।

पङ्क्तेः शतसहस्रादि क्रममाद्दशगुणोत्तरं ।
मानन्तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ।। ३६६.३६ ।।

ते षोड़शाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।
सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ।। ३६६.३७ ।।

तला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।। ३६६.३८ ।।

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।। ३६६.३९ ।।

शुल्वमौदुम्बरं लौहे तीक्ष्णं कालायसायसी ।
क्षारं काचोऽथ चपलो रसः सूतश्च पारदे ।। ३६६.४० ।।

गरलं माहिषं श्रृङ्गं त्रपुसीसकपिच्चटं ।
हिण्डीरोऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ।। ३६६.४१ ।।

रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला ।
यवक्षारश्च पाक्यः स्यात् त्वक्क्षीरा वंशलोचना ।। ३६६.४२ ।।

वृषला जघन्यजाः शूद्राश्चाण्डालान्त्याश्च शङ्कराः ।
कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।। ३६६.४३ ।।

रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः ।
नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः ।। ३६६.४४ ।।

जावालः स्यादजाजीवो देवाजीवस्तु देवलः ।
जायाजीवास्तु शैलूषा भृतको भृतिभुक्तथा ।। ३६६.४५ ।।

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।
विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः ।। ३६६.४६ ।।

पटुस्तु पेशलो दक्षे मृगयुर्लुब्धकः स्मृतः ।
चण्डालस्तु दिवाकीर्त्तिः पुस्तं लेप्यादिकर्म्मणि ।। ३६६.४७ ।।

पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः ।
मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ ।।
प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः ।। ३६६.४८ ।।

इत्यादिम्हापुराणे आग्नेये क्षत्रविट्‌शूद्रवर्गा नाम षट्‌षष्ट्यधिकत्रिशततमोऽध्यायः ॥