अग्निपुराणम्/अध्यायः ११४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

गयामाहात्म्यम्

अग्निरुवाच
गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं ।११४.००१
गयासुरस्तपस्तेपे तत्तपस्तापिभिः[१]सुरैः ॥११४.००१
उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् ।११४.००२
तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत् ॥११४.००२
दैत्योऽब्रवीत्पवित्रोऽहं भवेयं सर्वतीर्थतः ।११४.००३
तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं ॥११४.००३
गताः शून्या मही स्वर्गे देवा ब्रह्मादयः सुराः[२] ।११४.००४
गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे ॥११४.००४
दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः ।११४.००५
यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह ॥११४.००५
तच्छ्रुत्वा ससुरो ब्रह्मा[३] गयासुरमथाब्रवीत् ।११४.००६
अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं ॥११४.००६
गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ[४] ।११४.००७
यागं चकार चलिते देहि पूर्णाहुतिं[५] विभुः ॥११४.००७
पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकालेऽसुरोऽचलत् ।११४.००८
विष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम् ॥११४.००८
धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते ।११४.००९
गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः ॥११४.००९
धर्मः शिलां देवमयीं[६]तच्छ्रुत्वाधारयत्परां ।११४.०१०
या धर्माद्धर्मवत्याञ्च जाता धर्मव्रता सुता ॥११४.०१०
मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां[७] ।११४.०११
यथा हरिः श्रिया रेमे गौर्या शम्भुस्तथा तया ॥११४.०११
कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः[८] ।११४.०१२
भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु ॥११४.०१२
विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् ।११४.०१३
एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः[९] ॥११४.०१३
धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये ।११४.०१४
पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः[१०] ॥११४.०१४
विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः ।११४.०१५
मरीचिस्तामपश्यत्स(१) शशापोक्तिव्यतिक्रमात् ॥११४.०१५
शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं(२) ।११४.०१६
पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया ॥११४.०१६
अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् ।११४.०१७
धर्मव्रता पृथक्शापं धारयित्वाग्रिमध्यगात् ॥११४.०१७
तपश्चचार वर्षाणां सहस्राण्ययुतानि च ।११४.०१८
ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन् ॥११४.०१८
धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे ।११४.०१९
देवा ऊचुः
दत्तो मरीचिना शापो भविष्यति न चान्यथा ॥११४.०१९
शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं(३) भविष्यसि ।११४.०२०
देवव्रता देवशिला सर्वदेवादिरूपिणी ॥११४.०२०
सर्वदेवमयी(४) पुण्या निश्चलायारसुस्य हि ।११४.०२१

देवव्रतोवाच
यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा ॥११४.०२१
ब्रह्मा विष्णुश्च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः ।११४.०२२

अग्निरुवाच
देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः ॥११४.०२२
सा धर्मणासुरस्यास्य धृता देवमयी शिला ।११४.०२३
सशिलश्चलितो दैत्यः स्थिता रुद्रादयस्ततः ॥११४.०२३
सदेवश्चलितो दैत्यस्ततो देवैः(५) प्रसादितः ।११४.०२४
क्षीराब्धिगो हरिः प्रादात्स्वमूर्तिं श्रीगदाधरं ॥११४.०२४
गच्छन्तु भोः स्वयं यास्यं(६) मूर्त्या वै देवगम्यया(७) ।११४.०२५
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ मरीचिस्तामपश्यद्वै इति घ..
२ धर्मव्रताब्रवीद्वच इति ज..
३ पवित्रा देवानां वन्दिता त्वमिति घ..
४ सर्वतीर्थमयी इति घ.. , झ.. च
५ तदा देवैरिति ज..
६ गच्छेत्युक्त्वा स्वयं गच्छेदिति झ.. । गच्छन्तूक्त्वा स्वयं यास्ये इति ख.. , छ.. च
७ मूर्त्या देवैकगम्यया इति घ.. , ङ.. च

- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः ॥११४.०२५
निश्चलार्थं स्वयं देवः स्थित आदिगदाधरः ।११४.०२६
गदो नामासुरो दैत्यः(१) स हतो विष्णुना पुरा ॥११४.०२६
तदस्थिनिर्मिता(२) चाद्या गदा या विश्वकर्मणा ।११४.०२७
आद्यया गदया हेतिप्रमुखा राक्षसा हताः ॥११४.०२७
गदाधरेण विधिवत्(३) तस्मादादिगदाधरः(४) ।११४.०२८
देवमय्यां शिलायां च(५) स्थिते चादिगदाधरे ॥११४.०२८
गयासुरे निश्चलेय ब्रह्मा पूर्णाहुतिं ददौ ।११४.०२९
गयासुरोऽब्रवीद्देवान् किमर्थं वञ्चितो ह्यहं(६) ॥११४.०२९
विष्णोर्वचनमात्रेण किन्नस्यान्निश्चलोह्यहं ।११४.०३०
आक्रान्तो यद्यहं देवा दातुमर्हत(७) मे वरं ॥११४.०३०

देवा ऊचुः
तीर्थस्य करणे यत्(८) त्वमस्माभिर्निश्चलीकृतः ।११४.०३१
विष्णोः शम्भोर्ब्रह्मणश्च क्षेत्रं तव भविष्यति ॥११४.०३१
प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं ।११४.०३२
इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः ॥११४.०३२
यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा ।११४.०३३
पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत्पञ्च चार्पयेत् ॥११४.०३३
ग्रामान् स्वर्णगिरीन्(९) कृत्वा नदीर्दुग्धमधुश्रवाः ।११४.०३४
सरोवराणि दध्याज्यैर्बहूनन्नादिपर्वतान्(१०) ॥११४.०३४
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ नामासुरो रौद्र इति घ.. , झ.. च
२ तदङ्गान्निर्मिता इति झ.. । तदर्था निर्मिता इति छ..
३ गदावरेण देवेनेति झ..
४ गदो नामासुर इत्यादिः, तस्मादादिगदाधर इत्यन्तः पाठो ज.. पुस्तके नास्ति
५ शिलायान्तु इति ज..
६ वाञ्छितो ह्यहमिति ख.. , छ.. च
७ दातुमर्हथेति ङ..
८ तीर्थस्य कारणायेति घ.. , झ.. च
९ ग्रामान् पुण्यगिरीनिति ङ..
१० दध्याद्यैर्बहूनन्नादिपर्वतानिति ज..

- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च ।११४.०३५
न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा(१) ददौ प्रभुः ॥११४.०३५
धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं ।११४.०३६
स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा ॥११४.०३६
विद्याविवर्जिता(२) यूयं तृष्णायुक्ता भविष्यथ ।११४.०३७
दुग्धादिवर्जिता नद्यः शैलाः पाषाणरूपिणः ॥११४.०३७
ब्रह्माणं ब्राह्मणश्चोचुर्नष्टं शापेन शाखिलं ।११४.०३८
जीवनाय प्रसादन्नः कुरु विप्रांश्च सोऽब्रवीत् ॥११४.०३८
तीर्थोपजीविका यूयं सचन्द्रार्कं(३) भविष्यथ ।११४.०३९
ये युष्मान् पूजयिष्यन्ति गयायामागता नराः ॥११४.०३९
हव्यकव्यैर्धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्(४) ।११४.०४०
नरकात्स्वर्गलोकाय(५) स्वर्गलोकात्पराङ्गतिं ॥११४.०४०
गयोपि चाकरोद्यागं बह्वन्नं(६) बहुदक्षिणं ।११४.०४१
गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं ॥११४.०४१
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ अन्यानथेति झ.. । क्षपानुक्त्वा इति छ..
२ गन्धादिवर्जिता इति घ..
३ तीर्थोपजीवका यूयमाचन्द्रार्कमिति ख.. , ग.. , घ.. , ङ.. च
४ कुलशतं महदिति ज..
५ स्वर्गलोकं चेति घ.. , ज.. , झ.. च
६ वह्नथेमिति ख.. , छ.. च । बहुलमिति झ..

- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -

इत्याग्नेये महापुराणे गयामाहात्म्यं नाम चतुर्दशाधिकशततमोऽध्यायः

  1. तत्तपस्तापितैरिति ग.. , घ.. , झ.. च
  2. ब्रह्मादयः पुनः इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज. झ.. च
  3. तच्छ्रुत्वा सत्वरो ब्रह्मेति ङ..
  4. शिरस्तथेति झ..
  5. देहे पूर्णाहुतिमिति ख.. , छ.. , ज.. च
  6. देहमयीमिति ग.. , छ.. , ज.. च
  7. तपश्चितामिति झ..
  8. समानीय श्रमान्वित इति ज..
  9. सुप्ते समागत इति घ.. , ङ.. , ज.. , झ.. च
  10. धर्मव्रतेत्यादिः, गुरोर्गुरुरित्यन्तः पाठः छ.. पुस्तके नास्ति