अग्निपुराणम्/अध्यायः २०३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















नरकस्वरूपम्

अग्निरुवाच
पुष्पाद्यैः पूजनाद्विष्णोर्न याति नरकान्दवे ।२०३.००१
आयुषोऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥२०३.००१
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।२०३.००२
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥२०३.००२
अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।२०३.००३
भुङ्क्तेऽथ पापकृत्दुःखं सुखं धर्माय सङ्गतः ॥२०३.००३
नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।२०३.००४
कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥२०३.००४
यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(२) ।२०३.००५
टिप्पणी
१ आसनं मूर्तिषोढाङ्गमिति ख..
२ पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।पीड्यते नरकेऽधुनेति घ.. , छ.. च

स्वर्गे तु नीयते धर्माद्वसिष्ठाद्युक्तिसंश्रयात् ॥२०३.००५
गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।२०३.००६
आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥२०३.००६
महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।२०३.००७
स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥२०३.००७
महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।२०३.००८
दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥२०३.००८
नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।२०३.००९
महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥२०३.००९
यावद्भूमिर्मातृहाद्या असिपत्रवनेऽसिभिः(१) ।२०३.०१०
नैककल्पन्तु नरके करम्भवालुकासु च ॥२०३.०१०
येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।२०३.०११
काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥२०३.०११
कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।२०३.०१२
सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥२०३.०१२
तैलपाके तु तिलवत्पीड्यते परपीडकः ।२०३.०१३
तैलपाके तु पच्येत शरणागतघातकः ॥२०३.०१३
निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे ।२०३.०१४
नाम्ना वज्रकवाटेन महापाते तदानृती ॥२०३.०१४
महाज्वाले पापबुद्धिः क्रकचेऽगम्यगामिनः ।२०३.०१५
सङ्करी गुडपाके च(२) प्रतुदेत्परमर्मनुत् ॥२०३.०१५
टिप्पणी
१ असिपत्रवनेऽग्निभिरिति ङ..
२ गुरुपाके चेति ख.. , ज.. च

क्षारह्रदे(१) प्राणिहन्ता क्षुरधारे च भूमिहृत् ।२०३.०१६
अम्बरीषे गोस्वर्णहृद्द्रुमच्छिद्वज्रशस्त्रके ॥२०३.०१६
मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।२०३.०१७
कश्मलेऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥२०३.०१७
दुर्धरे तु काचभक्षी वन्दिग्राहरताश्च ये ।२०३.०१८
मञ्जुषे नरके लोहेऽप्रतिष्ठे श्रुतिनिन्दकः ॥२०३.०१८
पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।२०३.०१९
बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥२०३.०१९
विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(२) ॥२०॥२०३.०२०
तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां ।२०३.०२१
शाल्मलाख्ये तमालिङ्गेन्नारी बहुनरङ्गमा ॥२०३.०२१
आस्फोटजिह्वोद्धरणं स्त्रीक्षणान्नेत्रभेदनं ।२०३.०२२
अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः ॥२०३.०२२
चौराः क्षुरैश्च भिद्यन्ते स्वमांसाशी च मांसभुक् ।२०३.०२३
मासोपवासकर्ता वै न याति नरकन्नरः ॥२०३.०२३
एकादशीव्रतकरो भीष्मपञ्चकसद्व्रती ।२०३.०२४

इत्याग्नेये महापुराणे नरकस्वरूपवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ क्षारकूपे इति ख.. , छ.. च
२ महाप्रेते तु भेदन इति ख.. , ग.. , घ.. , ड.. , छ.. , ज.. च