अग्निपुराणम्/अध्यायः २९२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















शान्त्यायुर्वेदः[सम्पाद्यताम्]

धन्वन्तरिरुवाच
गोविप्रपालनं कार्य्यं राज्ञा गोशान्तिमावदे ।
गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ।। २९२.२ ।।

शकृन्‌मूत्रं परं तासामलक्षमीनाशनं परं ।
गवां कण्डूयनं वारि श्रृह्गस्याघौघमर्द्दनम् ।। २९२.३ ।।

रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां ।
यद्‌गृहे दुःखिता गावः स याति नरकन्नरः ।। २९२.४ ।।

परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् ।
गोदानात्‌कीर्त्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ।। २९२.५ ।।

गवां श्वासात् पवित्रा भूस्पर्शनात्किल्विषक्षयः ।
गोमृत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। २९२.६ ।।

एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ।
सर्व्वाशुभविनाशाय पुराचरितमीश्वरैः ।। २९२.७ ।।

प्रत्येकञ्च त्र्यहाभ्यस्तं महासान्तपनं स्मृतं ।
सर्वकामप्रदञ्चैतत् सर्व्वाशुभवीमर्द्दनम् ।। २९२.८ ।।

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।
निर्म्मलाः सर्व्वकामाप्त्या स्युर्गगाः स्युर्न्नरोत्तमाः ।। २९२.९ ।।

त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् ।
त्र्यहमुष्णं पयः पीत्वाः वायुभक्षः परं त्र्यहम् ।। २९२.१० ।।

तप्तकृच्छ्रव्रतं सर्व्वपापघ्नं ब्रह्मलोकदं ।
शीतैस्तु शीतकृच्छ्रं स्याद्‌ब्रह्मोक्तं ब्रह्मलोकदं ।। २९२.११ ।।

गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्य्याच्च गोरसैः ।
गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती ।। २९२.१२ ।।

मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् ।
विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत् ।। २९२.१३ ।।

गौतैर्न्नृत्येरप्सरोभिविंमाने तत्र मोदते ।
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ।। २९२.१४ ।।

गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं ।
अन्नमेव परं गावो देवानां हविरुत्तमम् ।। २९२.१५ ।।

पावनं सर्व्वभूतानां क्षरन्ति च वदन्ति च ।
हविषा मन्त्रपूतेन तर्पयन्त्वमरान्दिवि ।। २९२.१६ ।।

ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः ।
सर्व्वेषामेव भूतानां गावः शरणमुत्तमं ।। २९२.१७ ।।

गावः पचित्रं परमं गावो माङ्गल्यमुत्तमं ।
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ।। २९२.१८ ।।

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राब्यो नमो नमः ।। २९२.१९ ।।

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।। २९२.२० ।।

देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।
धार्य्यते वै सदा सस्मात् सर्व्वे पूज्यतमा मताः ।। २९२.२१ ।।

पिवन्ति यत्र तत्तीर्थं गह्गाद्या गाव एव हि ।
गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा श्रृणु ।। २९२.२२ ।।

श्रृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं ।
श्रृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं ।। २९२.२३ ।।

कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।
सिद्धं तैलं प्रदातव्यं रसोनेनैथ वा पुनः ।। २९२.२४ ।।

विल्वमूलमपामार्गन्धातकी च सपाटला ।
कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं ।। २९२.२५ ।।

दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितं ।
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं ।। २९२.२६ ।।

श्रृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ।
हृच्छूले वस्तिशुले च वातरोगे क्षये तथा ।। २९२.२७ ।।

त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते ।
अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् ।। २९२.२८ ।।

सर्वेषु कोष्ठरोगेषु तथा शाखागदेषु च ।
श्रृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत् ।। २९२.२९ ।।

दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
तैलं वातहरं पित्ते मधुयष्टीविपाचितं ।। २९२.३० ।।

कफे व्योषञ्च समधु सपुष्टकरजोऽस्रजे ।
तैलाज्यं हरितालञ्च भग्नक्षतिश्रृतन्ददेत् ।। २९२.३१ ।।

माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ।
एषां पिण्डी सलवणा वत्सानां पुष्टिदा त्वियं ।। २९२.३२ ।।

बलप्रदा विषाणां स्याद् ग्रहनाशाय धूपकः ।
देवदारु वचा मांसी गुग्गुलुहिङ्गुसर्षपाः ।। २९२.३३ ।।

ग्रहादिगदनाशाय एष धुपो गवां हितः ।
घष्टा चैव गवां कार्या धूपेनानेन धूपिता ।। २९२.३४ ।।

अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् ।
रसायनञ्च पिन्याकं मत्तो यो धार्य्यते गृहे ।। २९२.३५ ।।

गवां पुरीषे पञ्चम्यां नित्यं शान्त्यै श्रियं यजेत् ।
वासुदेवञ्च गन्धाद्यैरपरा शान्तिरुच्यते ।। २९२.३६ ।।

अश्वयुक्‌शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं ।
हरिरुद्रमजं सूर्य्यं श्रियमग्निं घृतेन च ।। २९२.३७ ।।
दधि सम्प्राश्य गाः पूज्य कार्य्यं वह्निप्रदक्षिणं ।
वृषाणां योजयेद् युद्धं गीतवाद्यरवैर्वहिः ।। २९२.३८ ।।

गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा ।
नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया ।। २९२.३९ ।।

स्थणअडिलेव्जे मध्यगते कदिक्षु केशरगान् सुरान् ।
सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः ।। २९२.४० ।।

खं विश्वरूपा सिद्धिस्च ऋद्धिः शान्तिश्च रोहिणी ।
दिग्धेनवो हि पूर्वाद्याः कृशरैश्चन्द्र ईश्वरः ।। २९२.४१ ।।

दिक्‌पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् ।
क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् ।। २९२.४२ ।।

शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् ।
गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः ।। २९२.४३ ।।

शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् ।
पालकाप्योऽङ्गराजाय गजायुर्वेदमब्रवीत् ।। २९२.४४ ।।

इत्यादिमहापुराणे आग्नेये शान्त्यायुर्वेदो नाम द्विनवत्यधिकद्विशततमोऽध्यायः ।।