अग्निपुराणम्/अध्यायः १२५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२४ अग्निपुराणम्
अध्यायः १२५
वेदव्यासः
अध्यायः १२६ →

युद्धजयार्णवीयनानाचक्राणि

ईश्वर उवाच
ओं ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं
फट्[१]ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक ह्रूं फट्[२] नमः
पठ्यमानो ह्ययं मन्त्रः क्रुद्धः संरक्तलोचनः ।१२५.००१
मारणे पातने वापि मोहनोच्चाटने भवेत् ॥१२५.००१
कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।१२५.००२

नानाविद्या
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥१२५.००२
नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।१२५.००३
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥१२५.००३
करोति साधकः क्रुद्धो जपहोमपरायणः ।१२५.००४
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे[३] ॥१२५.००४
कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।१२५.००५
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥१२५.००५
गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।१२५.००६
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥१२५.००६
चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।१२५.००७
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥१२५.००७
उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।१२५.००८
सौम्या च भीषणी देवी जया च विजया तथा ॥१२५.००८
अजिता चापराजिता महाकोटी च रौद्रया ।१२५.००९
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥१२५.००९
विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः ।१२५.०१०
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥१२५.०१०
पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।१२५.०११
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥१२५.०११
स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।१२५.०१२
द्वात्रिंशन्मातरश्चक्रे अष्टाष्टक्रमशः स्थिताः ॥१२५.०१२
एक एव रविश्चन्द्र एकश्चैकैकशक्तिका ।१२५.०१३
[४]भूतभेदेन तीर्थानि[५] यथा तोयं महीतले ॥१२५.०१३
प्राण एको मण्डलैश्च भिद्यते भूतपञ्जरे ।१२५.०१४
वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥१२५.०१४
बिन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।१२५.०१५
ब्रह्माण्डेन[६] कपालेन पिवेत परमामृतं ॥१२५.०१५
पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।१२५.०१६
अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥१२५.०१६
इ+ईखछठथफराः षो वर्गश्च द्वितीयकः ।१२५.०१७
उ+ऊगजडदबलाः सो वर्गश्च तृतीयकः ॥१२५.०१७
ए+ऐघझढधभवाः सो वर्गश्च चतुर्थकः ।१२५.०१८
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥१२५.०१८
वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।१२५.०१९
बालः कुमारो युवा स्याद्वृद्धो मृत्युश्च नामतः ॥१२५.०१९
आत्मपीडा शोषकः स्यादुदासीनश्च कालकः ।१२५.०२०
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥१२५.०२०
षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।१२५.०२१
मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥१२५.०२१
बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।१२५.०२२
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥१२५.०२२
जीवोऽष्टमी[७] धनिष्ठार्द्रा जीवोऽश्लेषा त्रयोदशी ।१२५.०२३
मृत्यौ शुक्रश्चतुर्थी स्यात्पूर्वभाद्रपदा श्रिये ॥१२५.०२३
पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।१२५.०२४
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥१२५.०२४
कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।१२५.०२५
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्[८] ॥१२५.०२५
मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।१२५.०२६

तिथियोगः
पूर्वोत्तराग्निनैर्ऋत्यदक्षिणानिलचन्द्रमाः[९] ॥१२५.०२६
ब्रह्माद्याः स्युर्दृष्टयः स्युः[१०] प्रतिपन्नवमीमुखाः ।१२५.०२७
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥१२५.०२७
मेषाद्याश्चतुरः कुम्भा जयः पूर्णेऽन्यथा मृतिः ।१२५.०२८
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥१२५.०२८
रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।१२५.०२९
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥१२५.०२९
जयाय मनसे[११] शुक्रो मन्दे भङ्गो रणे भवेत् ।१२५.०३०
देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥१२५.०३०
मुखे नेत्रे ललाटेऽथ शिरोहस्तोरुपादके ।१२५.०३१
पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षेऽर्थनाशनम् ॥१२५.०३१
मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।१२५.०३२
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥१२५.०३२
इन्द्राच्च नैर्ऋतङ्गच्छेन्नैर्ऋतात्सोममेव च ।१२५.०३३
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥१२५.०३३
रुद्राद्यमं यमाद्वायुं वायोश्चन्द्रं व्रजेत्पुनः ।१२५.०३४
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्ठे जयो रणे ॥१२५.०३४
अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।१२५.०३५
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥१२५.०३५
पूर्वे कृष्णाष्टमीं यावद्राहुदृष्टौ भयो भवेत् ।१२५.०३६
ऐशान्याग्नेयनैर्ऋत्यवायव्ये फणिराहुकः ॥१२५.०३६
मेषाद्या दिशि पूर्वादौ यत्रादित्योऽग्रतो मृतिः ।१२५.०३७
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥१२५.०३७
चतुर्दशी तथा शुक्ले चतुर्थ्येकादशी तिथिः ।१२५.०३८
पञ्चदशी विष्टयः स्युः पूर्णिमाग्नेयवायवे ॥१२५.०३८
अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।१२५.०३९
गृध्रोलूकश्येनकाश्च पिङ्गलः कौशिकः क्रमात् ॥१२५.०३९
सारसश्च मयूरश्च गोरङ्कुः पक्षिणः स्मृताः ।१२५.०४०
आदौ साध्यो हुतो मन्त्र[१२] उच्चाटे पल्लवः स्मृतः ॥१२५.०४०
वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।१२५.०४१
शान्तो प्रीतो नमस्कारो वौषट्पुष्टौ वशादिषु ॥१२५.०४१
हुं मृत्यौ[१३] प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।१२५.०४२
वषट् सुते च दीप्त्यादौ[१४]मन्त्राणां जातयश्च षट् ॥१२५.०४२
ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।१२५.०४३
महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥१२५.०४३
सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।१२५.०४४
बला चातिबला भीरुर्मुसली सहदेव्यपि ॥१२५.०४४
जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।१२५.०४५
चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥१२५.०४५
ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।१२५.०४६
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥१२५.०४६
तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।१२५.०४७
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥१२५.०४७
वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः ।१२५.०४८
ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय[१५] वौषट्
पूजयेत्कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥१२५.०४८
अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।१२५.०४९
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥१२५.०४९
दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।१२५.०५०
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥१२५.०५०
ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं मारय सहसा नमोऽस्तु ते भगवति विद्ये स्वाहा
अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः[१६] ।१२५.०५१
ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश महाबल रक्तमुख[१७] तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय जम्भय खन खन वैते ह्रूं फट्[१८]
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥१२५.०५१
पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥१२५.०५२

इत्याग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥

  1. ओं हुं फडिति ख..
  2. ओं हुं फडिति ख..
  3. ज्वरदाहनिवारणे इति घ..
  4. भूतानुसारेण तीर्थानां विभाजनम्
  5. भूतभेदेन भिन्नानि इति ङ.। तानि भेदेन भिन्नानि इति घ..
  6. ब्रह्मदण्डे इति ङ..
  7. जीवेऽष्टमीति ख..
  8. भरणीत्यादिः, पीडाकरो भवेत्यन्तः पाठः छ.. पुस्तके नास्ति
  9. दक्षाग्न्यनिलचन्द्रमा इति घ..
  10. ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख..
  11. मणये इति ख.. , ङ.. च
  12. आदौ हुताशनो मन्त्र इति ख..
  13. हुं मृतौ इति ख..
  14. वषट्लाभे च दीप्त्यादाविति घ.. , छ.. च
  15. त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज..
  16. दग्धत्वं जायते क्षणातिति घ.. , ज.. च
  17. वज्रमुख इति घ..
  18. हुंफडिति ख..