अग्निपुराणम्/अध्यायः ३७१

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















नरकनिरूपणम्[सम्पाद्यताम्]

अग्निरुवाच
उक्तानि यममार्गाणि वक्ष्येऽथ मरणे नृणां ।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।। ३७१.१ ।।

शरीरमुपरुध्याऽथ कृत्‌स्नान्दोषान्रुणद्धि वै ।
छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ।। ३७१.२ ।।

शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।
द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ।। ३७१.३ ।।

ऊद्‌ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा ।
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणं ।। ३७१.४ ।।

अधः पायुरुपस्थञ्च अनेनाशुभकारिणां ।
मूर्द्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ।। ३७१.५ ।।

अन्तकाले तु सम्प्राप्ते प्राणेऽपानमुपस्थिते ।
तमसा संवृते ज्ञाने संवृतेषु च मर्म्मसु ।। ३७१.६ ।।

स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना ।
बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ।। ३७१.७ ।।

च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु ।
प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुषा ।। ३७१.८ ।।

गृह्णाति तत्क्षणाद् योगे शरीरञ्चातिवाहिकम् ।
आकाशवायुतेजांसि विग्रहादूद्‌र्ध्वगामिनः ।। ३७१.९ ।।

जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः ।
आतिवाहिकदेहन्तु यमदूता नयन्ति तं ।। ३७१.१० ।।

याम्यं मार्गं महाघोरं षड़शीतिसहस्रकम् ।
अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ।। ३७१.११ ।।

यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् ।
प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ।। ३७१.१२ ।।

भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः ।
अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः ।। ३७१.१३ ।।

सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।। ३७१.१४ ।।

अतिघोरा महाघोरा घोररूपा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयानका ।। ३७१.१५ ।।

भयोत्कटा कालरात्री महाचण्डा च चण्डया ।
कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ।। ३७१.१६ ।।

पद्मावती भीषणा च भीमा चैव करालिका ।
विकराला महावज्रा त्रिकोणा पञ्चकोणिका ।। ३७१.१७ ।।

सुदीर्खघा वर्तुला सप्तभूमा चैव सुभूमिका ।
दीप्तमायाऽष्टाविंशतयः कोटयः पापिदुःशदाः ।। ३७१.१८ ।।

अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः ।
रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ।। ३७१.१९ ।।

तामिश्रमन्घतामिश्रं महारौरवरौरवौ ।
असिपत्रं वनञ्चैव लोहभारं तथैव च ।। ३७१.२० ।।

नरकं कालसूत्रञ्च महानरकमेव च ।
सञ्जीवनं महावीचि तपनं सम्प्रतापनं ।। ३७१.२१ ।।

सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं ।
लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ।। ३७१.२२ ।।

नरकान् विद्धि कोटीशनागान्वै घोरदर्शनान् ।
पात्यन्ते पापकर्म्माण एकैकस्मिन्बहुष्वपि ।। ३७१.२३ ।।

मार्जारोलूकगोमायुगृध्रादिवदनाश्च ते ।
तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ।। ३७१.२४ ।।

अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।
अयःपात्रेषु चैवान्यान् बकहुवह्निकणेषु च ।। ३७१.२५ ।।

शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरकेऽपरे ।
ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुड़ान् ।। ३७१.२६ ।।

यमदूतैर्नराः पांशून्विष्ठारक्तकफादिकान् ।
तप्तं मद्यं पाययन्ति पाटयन्ति पाटयन्ति पुनर्नरान् ।। ३७१.२७ ।।

यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः ।
तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकधा शिरः ।। ३७१.२८ ।।

हा तातेति क्रन्दमानाः स्वकन्नन्दन्ति कर्म्म ते ।
महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ।। ३७१.२९ ।।

कर्म्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।
मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ।। ३७१.३० ।।

खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्य्यंपि ।
कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ।। ३७१.३१ ।।

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
स्वर्णहारी तु कुनखी दुश्चर्म्मा गुरुतल्पगः ।। ३७१.३२ ।।

यो येन संस्पृशत्येषां स तल्लिह्गोऽभिजायते ।
अन्नहर्ता मायावी स्याम्मूको वागपहारकः ।। ३७१.३३ ।।

धान्यं हृत्वाऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ।। ३७१.३४ ।।

परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।। ३७१.३५ ।।

रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् ।
पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ।। ३७१.३६ ।।

अजः पशुंपयः काको यानमुष्ट्रः फलं कपिः ।
मधु दंशः फलं गृध्रो गृहकाक उपस्करं ।। ३७१.३७ ।।

श्वित्री वस्त्रं सारसञ्च झिल्ली लवणहारकः ।
उक्त आध्यात्मिकस्तापः शत्राद्यैराधिभौतिकः ।। ३७१.३८ ।।

ग्रहाग्निदेवपीड़ाद्यैराधिदैविक ईरितः ।
त्रिधा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ।।
कृच्छ्रैर्व्रतैश्च दानाद्यैर्विष्णुपूजादिभिर्नरः ।। ३७१.३९ ।।

इत्यादिमहापुराणे आग्नेये नरकनिरूपणं नामैकसप्तत्यधिकत्रिशततमोऽध्यायः ॥